भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 312, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 312

५४ श्रीपीताम्बरकृतविवृतिसमेता। श्रुतिप्रमाणकश्च । तेन 'मन एव मनुष्याणां पूर्वरूपाणि शंसति । भविष्यतश्च भद्रं ते तथैव न भविष्यत्' इति न्यायेन यथा पूर्वं तद्धृदि प्रकटीभूतः, तथैवाग्रे मुक्त्यनन्तरमपि पूर्ववदेव तेषु तां लीलामनुभावयतीति । तेन नित्यत्वमपि लीलायाः स्थापितम् । प्रपञ्चितमेतद्विद्वन्म- ण्डने लीलानित्यत्ववाद आकरे च । एवं फलतः पुष्टिमार्गस्यान्यमार्गसाङ्कर्यं निराकृतम् ॥ अतः परमवान्तरसाङ्कर्येण मिश्रेषु कचिच्छापो दृश्यते, स पुष्टिमार्गीयत्वात् 'तथा न ते माधव तावका' इति वाक्यविरोधाच्चानुचितो निकर्षजनकश्चेत्याकाङ्क्षायां समादधते । आसक्तौ भगवान्नेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥ आसक्तावित्यादि । अन्यासक्तौ सत्यां भगवान्नेव शापं दापयति । यथा नलकुब- रादेः । क्वचिदिति । यत्र तस्या औत्कट्यं तत्र । एवमहङ्कारे । यथा चित्रकेतुपरीक्षितोः । तथाच तदोषपरिहाराय भगवत्कृत एवायं तत्तद्द्वारको दण्डः । तेन न निकर्षजनकः । तर्हि यत्र नोभयं तत्र कथं शाप इन्द्रद्युम्नादौ । तत्राहुः लोक इत्यादि । यद्येवं न कुर्यात्, तदा लोके मर्यादादिमार्गा न तिष्ठेयुः । तथा सति लोकोच्छित्तिः स्यात् । अतो लोकसङ्ग्रहार्थं तथा करणम् । अत्र गमकमाहुः हीति । 'यद्यदाचरति श्रेष्ठ' इति वाक्येन तथा निश्चया- दित्यर्थः । शापस्य भगवत्प्रयुक्तत्वं मौसले स्फुटम् । तेनान्यत्राप्यनुसन्धेयम् ॥ १८ ॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । ननु गमकमन्तरेण तथानुसन्धानमशक्यमित्यत आहुः न ते इत्यादि । ते शाप- विषयाः पाषण्डतां न यान्ति । ये शप्तास्ते पुनरत्यन्तं भक्ता एव जाताः । अतो ज्ञेयं भगवतैवायं दण्डः कृत इति । ननु दण्डस्थले युक्तमेतत्, शेषे तु नायं समा- धिरित्यतस्तत्राहुः न चेत्यादि । तेषामपि रोगाद्युपद्रवा न भवन्ति । प्रायेण महानु- भावा एव भवन्ति । महानुभावत्वाभावेऽपि रोगाद्यभावस्तु भवत्येव । एतेनान्यर्थं भक्त- दुःखदातृत्वदोषोऽपि निराकृतः । तथापि स्वल्पार्थमेतावत्करणं न कृपालोरुचितमित्यत आहुः शास्त्रमित्यादि । शिष्यतेऽनेनेति शास्त्रं शापदापनम् । तत् शुद्धत्वस्य हेतुर्निरुप- धिरसात्मकं प्रेम तदर्थम् । यद्येवं न कुर्यात्, तदा मार्गान्तरमिश्रत्वनिवृत्त्यभावाच्छुद्धपुष्टत्वं न भवेत् । तथाच तत्रापि फलोन्मुखा कृपैव बीजम्, अतो न भगवति दोषलेशोऽपीत्यर्थः । ननु युक्तमेतत्, तथापि येषां शुद्धत्वं चिकीर्षितं ते मिश्रेष्वप्यत्युत्कृष्टा एव वाच्याः, तथा सति तेषां कथमीदृशो भावः । न हि तादृशेषु कर्म प्रारब्धादिरूपं प्रभवति, न वा ते ज्ञात्वाऽवजानन्तीति सन्देहे, तेषामेवम्भावे बीजमाहुः भगवदित्यादि । 'यदेकमव्यक्त- मनन्तरूप'मिति श्रुत्या भगवाननन्तरूपः । 'अथर्वशिरःशिखाध्यायं शतमेकमेकेन मन्त्र- राजजापकेन तत्समं विश्वो वैश्वानरः प्रथमः पाद' इत्यादिश्रुतिभिर्व्यूहादिबोधकस्मृतिभिश्च