षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
५४ श्रीपीताम्बरकृतविवृतिसमेता। श्रुतिप्रमाणकश्च । तेन 'मन एव मनुष्याणां पूर्वरूपाणि शंसति । भविष्यतश्च भद्रं ते तथैव न भविष्यत्' इति न्यायेन यथा पूर्वं तद्धृदि प्रकटीभूतः, तथैवाग्रे मुक्त्यनन्तरमपि पूर्ववदेव तेषु तां लीलामनुभावयतीति । तेन नित्यत्वमपि लीलायाः स्थापितम् । प्रपञ्चितमेतद्विद्वन्म- ण्डने लीलानित्यत्ववाद आकरे च । एवं फलतः पुष्टिमार्गस्यान्यमार्गसाङ्कर्यं निराकृतम् ॥ अतः परमवान्तरसाङ्कर्येण मिश्रेषु कचिच्छापो दृश्यते, स पुष्टिमार्गीयत्वात् 'तथा न ते माधव तावका' इति वाक्यविरोधाच्चानुचितो निकर्षजनकश्चेत्याकाङ्क्षायां समादधते । आसक्तौ भगवान्नेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥ आसक्तावित्यादि । अन्यासक्तौ सत्यां भगवान्नेव शापं दापयति । यथा नलकुब- रादेः । क्वचिदिति । यत्र तस्या औत्कट्यं तत्र । एवमहङ्कारे । यथा चित्रकेतुपरीक्षितोः । तथाच तदोषपरिहाराय भगवत्कृत एवायं तत्तद्द्वारको दण्डः । तेन न निकर्षजनकः । तर्हि यत्र नोभयं तत्र कथं शाप इन्द्रद्युम्नादौ । तत्राहुः लोक इत्यादि । यद्येवं न कुर्यात्, तदा लोके मर्यादादिमार्गा न तिष्ठेयुः । तथा सति लोकोच्छित्तिः स्यात् । अतो लोकसङ्ग्रहार्थं तथा करणम् । अत्र गमकमाहुः हीति । 'यद्यदाचरति श्रेष्ठ' इति वाक्येन तथा निश्चया- दित्यर्थः । शापस्य भगवत्प्रयुक्तत्वं मौसले स्फुटम् । तेनान्यत्राप्यनुसन्धेयम् ॥ १८ ॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । ननु गमकमन्तरेण तथानुसन्धानमशक्यमित्यत आहुः न ते इत्यादि । ते शाप- विषयाः पाषण्डतां न यान्ति । ये शप्तास्ते पुनरत्यन्तं भक्ता एव जाताः । अतो ज्ञेयं भगवतैवायं दण्डः कृत इति । ननु दण्डस्थले युक्तमेतत्, शेषे तु नायं समा- धिरित्यतस्तत्राहुः न चेत्यादि । तेषामपि रोगाद्युपद्रवा न भवन्ति । प्रायेण महानु- भावा एव भवन्ति । महानुभावत्वाभावेऽपि रोगाद्यभावस्तु भवत्येव । एतेनान्यर्थं भक्त- दुःखदातृत्वदोषोऽपि निराकृतः । तथापि स्वल्पार्थमेतावत्करणं न कृपालोरुचितमित्यत आहुः शास्त्रमित्यादि । शिष्यतेऽनेनेति शास्त्रं शापदापनम् । तत् शुद्धत्वस्य हेतुर्निरुप- धिरसात्मकं प्रेम तदर्थम् । यद्येवं न कुर्यात्, तदा मार्गान्तरमिश्रत्वनिवृत्त्यभावाच्छुद्धपुष्टत्वं न भवेत् । तथाच तत्रापि फलोन्मुखा कृपैव बीजम्, अतो न भगवति दोषलेशोऽपीत्यर्थः । ननु युक्तमेतत्, तथापि येषां शुद्धत्वं चिकीर्षितं ते मिश्रेष्वप्यत्युत्कृष्टा एव वाच्याः, तथा सति तेषां कथमीदृशो भावः । न हि तादृशेषु कर्म प्रारब्धादिरूपं प्रभवति, न वा ते ज्ञात्वाऽवजानन्तीति सन्देहे, तेषामेवम्भावे बीजमाहुः भगवदित्यादि । 'यदेकमव्यक्त- मनन्तरूप'मिति श्रुत्या भगवाननन्तरूपः । 'अथर्वशिरःशिखाध्यायं शतमेकमेकेन मन्त्र- राजजापकेन तत्समं विश्वो वैश्वानरः प्रथमः पाद' इत्यादिश्रुतिभिर्व्यूहादिबोधकस्मृतिभिश्च
तेषु तरतमभावयुक्तश्च । एवं सति प्रकारान्तरेणापकर्षाभावे तत्क्रतुन्यायेनोपास्यतारतम्य- प्रयुक्तं तारतम्यं केन वार्येत । एवं तारतम्ये उत्कृष्टानामप्येवम्भावो न दुर्घटः । अत एव सङ्कर्षणोपासकस्य चित्रकेतोः सङ्कर्षणचरणे मनोनिवेशो वृत्रेन्द्रयुद्धे । निर्विशेषो- पासकसेन्द्रद्युम्नस्य गजेन्द्रत्वेऽपि निर्विशेषोपवर्णनम् । तदेतदुक्तं हीति । तथाच तन्नि- वृत्त्यर्थमेवङ्करणमित्यर्थः ॥ १९ ॥ एवं प्रासङ्गिकं परिहृत्य इदानीन्तनेषु पुष्टिजीवत्वज्ञापकं लक्षणं वदन्तः प्रसङ्गात्सर्वेषामाहुः । वैदिकत्वं लौकिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः । वैदिकत्वमित्यादि । कापट्यमन्तर्बहिर्विसंवादः । स च स्वभावस्य गोपनाय तत्तत्प्रका- शनमित्येकः, स्वस्य प्रयोजनाभावेऽपि तत्करणमित्यपर इत्युभयविधात्कापट्यात्तेषु वैदिकत्वं लौकिकत्वम् । सहजं तु वैष्णवत्वं भगवदाज्ञाकारित्वम् । ततः वैष्णवादन्यत्र विपर्ययः । एकत्र वैदिकत्वमितरत्र लौकिकत्वं सहजम् । तदतिरिक्तत्वं कापट्यादिति । तेन तेन लक्षणेन ते ते बोध्या इत्यर्थः । एवञ्च तेषां फलं भगवत्तारतम्येनेत्युक्तरीत्या तत्क्रतुन्यायेन भावना- नुरूपं भवति । तत्राप्येतन्मार्गीयाणां भगवतो व्रजपतेरेव भावनेति व्रज एव सेवौपयिक- देहप्राप्तिर्भवति । परं तत्कृतसेवानुरूपा । सेवाफलग्रन्थे तथैव सिद्धत्वादिति ॥ २० ॥ सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् । ननु यदि त्रिविधा एव जीवास्तर्हि कथं केचन सर्वत्र तुल्यदर्शनाः सर्वाभिनिविष्टा दृश्यन्ते, तत्राहुः सम्बन्धिन इति । तुशब्दस्त्रैविध्यपक्षं व्यावर्तयति । ये जीवाः सम्ब- न्धिनः उक्तत्रिविधमार्गसम्बन्धभाजः, तथा अपरे इतोऽपि हीनाः प्रवाहस्थाः, ते चर्षणी- शब्दवाच्याः । 'पृषि प्रजननैश्वर्यो'रिति धात्वर्थात्प्रजननस्वाच्छन्द्याभ्यां युक्ताः । तेन तद्यो- ग्यत्वाच्चर्षणीभिः परिभ्रमणशीलाभिः शक्तिभिर्व्याप्तास्तच्छब्देनैवोच्यन्ते । तदभिज्ञापकमाहुः ते सर्व इत्यादिपादत्रयेण । तेषां फलमाहुः तेषामिति । तथाच पञ्चरात्रे मध्यमा अधमाश्च ये मानुषा उक्तास्त एते । अत एव 'संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शना'दिति सूत्रेण यमनियता तेषां गतिर्विचारिता। 'वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिन' इति । अतस्तेषां यथाकर्म सकलं कला खण्डस्तत्सहितं खण्डितं फलं सर्वत्र भवति । तथा तदनुभवन्तः सम्बन्धिनः संसरन्त्येव । सृतियोग्यत्वात् । प्रवाहस्थास्तु तथाभूता निरयिणोऽग्रे भवन्तीत्यर्थः ॥ २२ ॥ एवमत्रानुप्रसङ्गपतितं सर्वमुक्त्वा क्रमप्राप्तं प्रवाहभेदं वदिष्यन्तो व्यावर्तकधर्मैः प्रवाहेण च स्वरूपभेदस्य सिद्धत्वात्साधनादिभेदं वक्तुं प्रावाहिकजीवदेहक्रियाभेदनिरूपणं प्रतिजानते प्रवाहस्थानिति ।
५६ श्रीपीताम्बरकृतविवृतिसमेता । प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥ जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः । तेषां स्वरूपं लक्षणमाहुः जीवास्ते इत्यादि। 'प्रवृत्तिं चे'ति सन्दर्भे नानालक्षणा- नामुक्तत्वादेकस्मिंस्तावतामदर्शनात्प्रत्येकं यत्किञ्चिल्लक्षणवन्तोऽपि त एवेति ज्ञापनार्थं सर्वे इत्युक्तम् ॥ २३ ॥ ननु केचन पूर्वं तल्लक्षणवत्तया निश्चिता अपि पश्चाद्व्यभिचरन्तो दृश्यन्ते लोके स्मृतौ चेति लक्षणमव्यापकमित्यतस्तान् विभजन्ते ते च द्विधेत्यादि । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । ताननु तदनुसारिण एव । न तु तादृशाः । तेऽज्ञाः । एत एवाग्रे भगवता हता मुच्यन्ते । कचिद्द्वेषत्यागेऽपि मुच्यन्ते । अतो हेत्वन्तरेणाज्ञाने गते स्वां प्रकृतिं भजन्ति इति न ते लक्ष्याः । अतो लक्षणमदुष्टमित्यर्थः ॥ २४ १/२ ॥ ननु सर्गभेदे प्रावाहिक आसुरः सर्गो जघन्य उक्तः । तेन तदङ्गक्रिया दुष्टा इति सिद्धम् । तथा सति तत्र प्रवेशस्तादृशामेवोचितो, नेतरेषाम् । ततस्ते हन्तव्या एव स्युः, नानुग्राह्याः । दृश्यते तु विपरीतं बलिप्रह्लादादिषु, तथा बाणादिषु क्रियाविरोधोऽपीत्यत आहुः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥ सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५ १/२ ॥ प्रवाहेऽपीति । प्रवाहेऽपि समागत्य पुष्टिमार्गीयः तेन समागमनेन कृत्वा युज्यते, तैः आसुरधर्मैः । तत्र हेतुः । यतः कर्मणा तादृशेन तत्कुले जातः । अतस्तथेत्यर्थः । तथाच तत्कर्मवासनया तादृक्क्रियाकरणेऽपि जीवस्य पुष्टिस्थत्वाद्वगवता तत्कर्म निवार्य फलं दीयते यथाजामिलस्य अतो न दोष इति भावः । कर्म च भगवदपराधो भक्तापराधो वेदनिन्दा अधर्मकरणं वेत्यादिकम् । तच्च 'अत्रापि वेदनिन्दायामधर्मकरणात्तथा । नरके न भवेत्पातः किन्तु हीनेषु जायत' इति निबन्धोक्तमार्गेणोद्यम् । एवं बलिप्रह्लादादिषु दुष्टकर्मणः स्वल्प- ताप्यूह्या । तेन न दोषः । एतदग्रे आधुनिकारष्टवशाद्ग्रन्थो न मिलतीति नोपक्रमोपसंहारै- क्याभावदोषः । एतदग्रे प्रवाहमार्गीयप्रयोजनसाधनाङ्गक्रियाफलानि मर्यादामार्गीयप्रयोजन- स्वरूपाङ्गक्रियाः साधनं फलं च यावता ज्ञायते, तावान् ग्रन्थोऽपेक्षित इति ज्ञेयम् ॥२५ १/२॥ इति श्रीवल्लभाचार्यचरणाब्जनखेन्दुना । शोभितास्तारका यास्ताः स्वबुद्ध्या विशदीकृताः ॥ १ ॥ निपुणं विभाव्य सततं विलसद्रससिन्धुचन्द्रमुखवागमृतम् । विवृतं मयास्य कृतमेतदहो सरहस्यमस्ति विबुधैकसुखम् ॥ २ ॥ इति श्रीवल्लभनन्दनचरणरेण्वेकतानश्रीयदुपतितनयपीताम्बरविरचितं पुष्टिप्रवाहमर्यादाविवरणं समाप्तम् ।
श्रीमद्-वल्लभाचार्य-महाप्रभु-विरचित-षोडश-ग्रन्थान्तर्गतं-पञ्चमं सिद्धान्त-रहस्यम् एकादशटीकाभिः समलंकृतम् १. श्रीगोकुलनाथानां पुरुषोत्तमसिद्धान्त विवृतिः २. श्रीरघुनाथानां सि. र. विवरणम् ३. श्रीकल्याणरायाणां विवृतिः ४. श्रीव्रजोत्सवानां विवृतिः ५. श्रीगोकुलोत्सवानां विवृतिः ६. श्रीहरिरायाणां विवृतिकारिका ७. श्रीविट्ठलेश्वराणां विवृतिः ८. श्रीपुरुषोत्तमानां विवरणम् ९. श्रीगिरधराणां विवृतिः १०. श्रीलालूभट्टानां सिद्धान्तरहस्यटीका ११. श्रीशाचार्यमतानुवर्तिनां संवाद विवृतिः श्रीमद्-वल्लभाचार्य-महाप्रभु-प्रवर्तित-शुद्धाद्वैत-सम्प्रदायस्य-सप्त- पीठान्तर्गत-चतुर्थ-पीठाधिष्ठित-गोस्वामिश्री १००८ श्रीदेवकीनन्दनाचार्यैः प्रकाशितम् वि. सं. २०३६ श्रीवल्लभाब्दा : ५०२
प्रकाशक : गोस्वामीश्री १००८ श्रीदेवकीनन्दनाचार्य, चतुर्थपीठ, गोकुल, मथुरा २८१३०३, भारत. साधारण संस्करण २००० प्रति राजसंस्करण १००० प्रति श्रीवल्लभाब्द ५०२ ग्रन्थ-परिचय लेखक : गोस्वामी श्याम मनोहर मुद्रक : स्टुडियो बहार, २३-ए, सेन्ट्रल चौपाटी बिल्डिंग, चौपाटी, बम्बई-४०० ००७
गोस्वामिश्री १००८ श्रीदेवकीनन्दनाचार्य
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त (blank) पृष्ठ है।
॥ श्रीकृष्णाय नमः ॥ ॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ ग्रन्थ-परिचय एक किंवदन्तीके अनुसार सिद्धान्तरहस्यका प्रणयन श्रीमहाप्रभुने वि. सं. १५४९ में किया था. श्रीमहाप्रभुके चरित्रग्रन्थों तथा इस ग्रंथ के अन्तः- साक्ष्यके आधारपर यह निश्चित है कि इसकी रचना गोकुलमें श्रावण शुक्ल एकादशीको अर्धरात्रीमें हुई थी. श्रीयदुनाथजी विरचित वल्लभदिग्विजयके मध्यमयात्रा परिच्छेदमें यह घटना यों वर्णित है—"श्रीमहाप्रभु मथुरासे गोकुल पधारे. वहां श्रावण शुक्ला एकादशीका व्रत एवम् जागरण किया. मध्यरात्रीमें भगवान्ने प्रकट होकर दर्शन दिये. तत्र श्रीमहाप्रभुने पवित्रा धराकर मिश्रीका भोग धरा. पश्चात् श्रीगोकुलनाथने श्रीमहाप्रभुको आश्वस्त किया की उन्हें दैवी जीवोंके उद्धारकी चिन्ता नहीं करनी चाहिये. दैवी जीवोंके उद्धारार्थ प्रस्तुत ग्रन्थमें वर्णित भावनाके साथ गद्यमन्त्रका दान ( मदुक्तभावनासहितं गद्यम् ) श्रीमहाप्रभुको दिया गया. अन्योंको भी इस भावनाके उपदेशके साथ गद्यमन्त्रके द्वारा दीक्षित करनेका आदेश दिया गया. श्रीमहाप्रभुको वचन दिया गया कि जिसे यह सर्वस्वसमर्पणपूर्वक आत्मनिवेदनकी दीक्षा दी जायेगी उसकी अहन्ता- ममता के सेवामें विनियोग द्वारा उसे भगवल्लीलाकी अनुभूतिका सामर्थ्य प्रदान किया जायेगा. प्रातः श्रीमहाप्रभुने यह दीक्षा दामोदरदास तथा कृष्णदास को दी.” ८४ वैष्णवनकी वार्ताके अनुसार भगवदाज्ञाके बाद श्रीमहाप्रभुने समीप में सोये हुए दामोदरदास हरसानीको पूछा— “दमला ! ते कछु सुन्यो ? तब दामोदरदासने कह्यो जो महाराज ! मैंने श्रीठाकुरजीके वचन सुने तो सही समुझ्यो नाहीं.” सुना तो बृहदारण्यकोपनिषद्में भी सभीने था—समर्पणका सिद्धान्त, “अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा. तद्यथा रथनाभौ रथनेमौ चाराः समर्पिताः एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः १ वैष्णववाणी (अंक ४ वर्ष १९७९) में श्रीनागरदास बांभणिया शास्त्री द्वारा लिखित लेख.
सर्वाणि भूतानि सर्व एवात्मानः समर्पिताः”. पर समझमें कहां आता है ! सभी कुछ जिस परमात्मामें समर्पित है उस परमात्माके प्रति मन-वाणी-देह- से सर्वसमर्पणकी स्वीकृति सबको समझमें नहीं आती. अतएव कह तो भगवा- न्ने गीतामें भी दिया है कि “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु, मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे” पर भगवान्की इस प्रतिज्ञाका तथा प्रेमाश्वासनका तात्पर्य कहां समझमें आता है ? सुनी तो भागवतमें भी हमने भगवद्वाणी है कि “ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परं हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे” पर वह कहां समझमें आती है ! स्वयम् इस सिद्धान्तरहस्यमें साक्षाद् भगवदुक्त भावनासहित गद्यमन्त्रमेंसे जब श्रीमहाप्रभुने अक्षरशः भगवदुक्त भावना दोहरा दी फिर भी वह सुनने के बाद भी समझमें नहीं आती! कई विद्वानोंको सन्देह होता है कि गद्यमन्त्र साक्षाद् भगवदुक्त है या श्रीमहाप्रभूक्त है या श्रीप्रभुचरणोक्त हे या श्रीगोकुलनाथजीने इसे परवर्ती कालमें जोड़ दिया है! तर्क वितर्क उठते रहते हैं कि “साक्षाद् भगवता प्रोक्तं तदक्षरश उच्यते” कहने के बाद जब गद्यमन्त्र नहीं कहा गया तो अवश्य ही वह परवर्ती कालमें श्रीप्रभुचरणके चतुर्थात्मज श्रीगोकुलनाथजीने जोड़ दिया होगा ! परन्तु इस अक्षरशः निरूपणमें तो पञ्चाक्षरमन्त्र भी नहीं दोहराया गया हैं, तो केवल गद्यमन्त्र ही क्यों—पञ्चा- क्षर मन्त्रको भी प्रक्षिप्त क्यों न मान लिया जाये. जबकि श्रीगोकुलनाथजीसे पूर्ववर्ती श्रीकृष्णदास अधिकारी —“श्रीगोपालमन्त्र अष्टाक्षर पञ्चाक्षर के श्रवन कराये, गद्यमन्त्र सब जीवनिको दे कृष्णचरण सबके चित लाये.” तथा “कृष्ण श्रीकृष्ण मनमाहि गति जानिये, देह इन्द्रिय प्राण दारागारादिवित्त आत्मा सकल श्रीकृष्णकी मानिये. कृष्ण मम स्वामी हों दास मनवचकरम कृष्ण कर्ता येही सदा जिय आनिये. कृष्णदास निनाथ हरिदासवर्यधरचरणरज वल्लभाधीश मन सानिये.” कहते हैं. इसे सुनते और निरन्तर गाते रहनेपर भी आज यह समझमें नहीं आता ! कतिपय विद्वानोंके अनुसार अतएव यह गद्यमन्त्र श्रीगोकुलनाथजी द्वारा नहीं किन्तु श्रीप्रभुचरण द्वारा पञ्चाक्षरके साथ जोडा गया माना जाता है. जबकि उनके ज्येष्ठभ्राता श्रीगोपीनाथजी स्वरचित साधनदीपिकामें—“नाय- मात्मा प्रवचनैः न धिया बहुना श्रुतैः, लभ्यते वरणं हित्वा वृतं संवृणुते श्रुतेः, स्मृत्वा
स्वीयवियोगाग्निं तापदाहो भवाम्बुधौ, ततः सर्वं समर्प्यैव श्रीगोपालमनुं श्रयेत इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियं दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम्' कहते हैं तो स्पष्ट हो जाता है किं गद्यमन्त्र प्रभुचरणसे पूर्व ही दीक्षाविधिमें समाविष्ट हो गया था. किन्तु "महाराज! सुन्यो पर समुझ्यो नाही! " निवेदन समर्पण एवम् विनियोग उत्तरोत्तर एक-दूसरेके रहस्य या तात्पर्य- रूप हैं. पञ्चाक्षरमन्त्रके द्वारा जो आत्मनिवेदन किया जाता है, गद्यमंत्रमें उन्हीं 'आत्मा' तथा 'निवेदन' का रहस्य आत्मीय सकल पदार्थोंके समर्पणके रूपमें समझाया गया है. गद्यमन्त्रमें जिस आत्मा एवम् आत्मीय सकल पदार्थोंका समर्पण किया जाता है, उसका रहस्य अपने स्वामी श्रीकृष्णकी तनुवित्तजा सेवामें स्वयम् अपने तथा अपनेसे सम्बन्धित सभी पदार्थों के विनियोगमें निहित है. अन्यथा समर्पण पूर्णतया चरितार्थ हो नहीं पाता. समर्पितका विनियोग भी अतः आवश्यक है. श्रीमहाप्रभुको आत्मनिवेदनकी भावनाके रूपमें यही प्रभुने प्रकट होकर समझाया था-“असमर्पितवस्तूनां तस्माद् बर्जनमाचरेत् निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः". आत्मनिवेदीको असमर्पित वस्तुका त्याग करना चाहिये. अपने सारे कामकाज समर्पणपूर्वक ही चलाने चाहिये. यही ब्रह्मसम्बन्ध या आत्मनिवेदन की मूलभावना है. "निवेदनके समय अपनेसे सम्बन्धित सभी वस्तुओंका प्रभुसे-ब्रह्मसे सम्बन्ध हो जाता है... जिन्होंने अपने प्राणोंको कृष्णसात् कर लिया है उन्हें किस बातकी चिन्ता हो सकती है?" नवरत्नके इस वचनकी तथा सिद्धान्तरहस्यके "ब्रह्मसम्बन्ध करनेसे सभीके देह तथा जीव के सभी तरहके दोष निवृत्त हो जाते हैं" इस वचनकी परस्पर संगति बैठानेपर पञ्चाक्षरमन्त्रद्वारा आत्मनिवेदन तथा गद्यमन्त्रद्वारा वियोगाग्निके स्मरणपूर्वक आत्मीय सकल पदार्थोंके समर्पणको ही मिलाकर 'ब्रह्मसम्बन्ध' कहा जाता है. यही सिद्धान्तका रहस्य हमें सिद्धान्तरहस्य ग्रन्थमें सुनायी पड़ता है. यही रहस्य श्रावण शुक्ला एकादशीकी महानिशामें साक्षात् भगवान्ने प्रकट होकर श्रीमहाप्रभुको सुनाया था. उस पञ्चाक्षर तथा गद्यमन्त्र के अंशको गोप्य होनेके कारण छोड़कर समर्पणके सिद्धान्तके इस भगवदुक्त रहस्यको यहां अक्षरशः श्रीमहाप्रभुने दोहरा दिया हे. जो बात भगवान्ने गद्यमन्त्रकी
भावनाके रूपमें कही थी उसीका यहां अक्षरशः निरूपण है पञ्चाक्षर या गद्य मन्त्रका नहीं. जीव तो अनेक प्रकारके दोषोंसे भरे हुए हैं. उदाहरणतया (१) अविद्याके साथ सम्बन्ध, तत्कृत अहन्ता-ममताकी भ्रान्ति, तत्कृत प्राणधारणके प्रयत्न जैसे दोष आत्माके साथ लगे रहते हैं. सूक्ष्म शरीरमें काम-क्रोध-लोभ आदि तथा क्षुधा- पिपासा जैसे अनेक सहज दोष विद्यमान रहते हैं. इसी तरह स्थूल शरीरमें भी अनेक तरहकी अशुद्धि तथा रोगादि दोष सहज पाये जाते हैं. (२) पापब- हुल प्रदेशोंमें जन्मग्रहण करनेसे या कभी तो गमनमात्रसे भी शास्त्रोंके अनुसार दोष लग जाते हैं. (३) कलिकालके कारण अनेक धार्मिक व्यवस्था लुप्त हो गयी हैं. अतः कालजन्य दोषोंको भी शास्त्रमें स्वीकारा गया है. (४) कभी-कभी जान- बूझकर या मोहवश हम ऐसे आचरण कर बैठते हैं जिन्हें लोक एवम् शास्त्र में निन्दित माना जाता है. (५) कभी-कभी अपरिहार्य स्थितिमें अनचाहे अन- जाने ऐसे गलत काम हमसे हो जाते हैं या हठात् करने पडते हैं जो लोक- वेदनिन्दित हों. इस तरह लोक तथा वेदों में गर्हित अनेक प्रकारके दोषोंसे जीव भरा हुआ रहता है. किन्तु ब्रह्मसम्बन्ध होनेपर ये दोष निवृत्त चाहे हों या न हों पर पुष्टिजीवद्वारा की जानेवाली भगवत्सेवामें बाधक नहीं हो सकते. ब्रह्मसम्बन्ध के अलावा अन्य किसी भी प्रकारसे इन दोषोंकी निवृत्ति सम्भव नहीं है. ब्रह्मसम्बन्धका वास्तविक स्वरूप असमर्पित वस्तुके त्याग करनेपर ही सम्पन्न होता है. कुल मिलाकर बात इतनी ही है कि जिसने आत्मनिवेदन किया है उसे अपने सारे कामकाज समर्पणपूर्वक ही चलाने चाहिये. किन्तु इसमें एक सावधानी अपेक्षित है कि हम ऐसी किसी भी वस्तुका, जिसका उपभोग प्रथम हमने कर लिया हो, देवाधिदेव भगवान् श्रीकृष्णको समर्पण न करें. हमारे प्रथम उपभोगके कारण वस्तु हमारी अर्धभुक्त या उच्छिष्ट हो जाती है और उसे श्रीकृष्णको समर्पित करनेकी कोई तुक नहीं है. अतः हमारे उप- भोग करनेसे पूर्व सभी वस्तुओंका समर्पण आवश्यक है. भगवदर्थ सभी वस्तुओंको समर्पित कर देनेपर आत्मनिवेदीके दैनन्दिन व्यवहार कैसे निभ पायेंगे ? और असमर्पितका भी उपभोग निषिद्ध माना गया है तो यह दोनों बाते कैसे शक्य होंगी ?
'भगवान्को दानरूपमें जो कुछ भेंट कर दिया जाता है उसका पुनः अप- हरण या उपभोग नहीं करना चाहिये' यह विधान पुष्टिमार्गीय साधना- प्रणाली पर लागू नहीं होता. क्योंकि पुष्टिमार्गीय सेवाप्रणालीमें जैसे घरके सेवक मालिककी उपभोग की हुई वस्तुओंका—अन्नवस्त्रादिका उपभोग लोकमें करते ही हैं वैसे ही सब कुछ पहले एकवार प्रभुको समर्पित करना चाहिये और पश्चात् स्वयम्के उपभोगार्थ ग्रहण करना चाहिये. अतः सर्वसमर्पण एवम् असमर्पित त्याग के सिद्धान्तमें न तो विरोधाभास और न किसी प्रका- रकी कठिनाई ही है. ब्रह्मसम्बन्ध लेते समय जिन वस्तुओंका हम समर्पण करते हैं उनका साक्षात् या परम्परया किसी भी तरह एक वार भगवान्की सेवामें विनियोग हो जानेपर उनके सारे दोष निवृत्त हो जाते हैं. अतः इस तरहकी दोषरहित ब्रह्मभावापन्न वस्तुओंके उपभोगमें किसी भी प्रकारके सांसारिक अनर्थकी सम्भावना नहीं रह जाती है. जैसे नदी-नाले गंगामें मिल जाने पर गंगाजल ही मान लिये जाते हैं—उनके स्वतंत्र अस्तित्व या गुणदोषों का विचार नहीं किया जाता. ठीक इसी तरह भगवान्की अलौकिक सेवाके अंग बन जानेपर सांसारिक वस्तुओंके भी स्वतन्त्र गुणदोषोंका विचार अना- वश्यक हो जाता है. भगवान्के द्वारा लिये गये सारे जागतिक रूप भगवान्के हैं तथा भग- वान्के लिए हैं. हमारे स्वयम्के भी अस्तित्व तथा प्रयोजन भगवद्लीलाके अंगरूप तथा भगवत्सेवार्थ हैं. अतः भगवत्समर्पणके बाद भगवत्प्रसादके रूपमें उनका पुनर्ग्रहण दोषरहित है. जब सब कुछ भगवान्का भगवत्सेवार्थ बन जाता है तो भगवदात्मक हो जाता है. यही पुष्टिमार्गके सिद्धांतका गूढतम रहस्य है. यही पुष्टिमार्गके प्रमुख- कर्तव्य भगवत्स्वरूपकी सेवाकी दीक्षा लेते समय और लेनेके बादकी भगवान्- को अभिप्रेत भावना है. यही भावना गोकुलमें प्रकट होकर भगवान्ने श्री महाप्रभुको समझायी थी. उस महानिशामें पुष्टिजीवोंके उद्धारकी चिन्तामें जागृत श्रीमहाप्रभुकी चिन्ता इस रहस्यके प्रकाशनद्वारा दूर की गयी थी. पर आजतक श्रीमहाप्रभुके समीप सुषुप्त उनके अनेक पुष्टिजीव इस सिद्धान्त- रहस्यको सुनकर भी समझ नहीं पाते हैं.
“दमला ! यह मारग तेरे लिए प्रकट कियो है” कितना अपनत्व है इस वाणीमें ! “दमला ! ते कछु सुन्योऽ ?” कितनी उत्कण्ठा है इस प्रश्नमें, सिद्धा- न्तके सारे रहस्यको अपने पुष्टिजीवोंको सुनानेकी और समझानेकी! चाहे जीव सुनकर भी समझ पाये या नहीं. अतएव हरिजीवन कहते हैं कि जबतक प्रभु अपनत्व नहीं जताते तबतक पुष्टिमार्गके सिद्धान्त केवल पढ़ या सुन लेनेपर समझमें नहीं आते हैं. उप- निषद् गीता पञ्चरात्र तथा श्रीमद्भागवत सर्वत्र समर्पणका सिद्धान्त सभीने पढ़ा और सुना भी किन्तु.... श्रीमद्भागवतरूप अमृतके सागरका सर्वोत्तम मन्थन कर श्रीमद्वल्लभा- चार्य महाप्रभुने ही अपने सुषुप्त पुष्टिजीवोंको जगाकर पूछा— “दमला ! ते कछु सुन्योऽ?” श्रीमहाप्रभु केवल सुनाने या समझाने में ही सन्तुष्ट नहीं हो जाते हैं. वे पुष्टिजीवके हाथमें परब्रह्म परमात्मा पुरुषोत्तम श्रीकृष्णको सौंपना चाहते हैं–“सेवा साज सिंगार सुभग रस खान पान प्रकटायो, वृन्दावन निकुंजकी लीला हरि जीवन स्वाद चखायो, जो लों हरि आपुनपो न जनावे तो लों सकल सिद्धान्त मारगको पढे सुने नहीं आवे.’’ प्रस्तुत संस्करण वि. सं. १९८० में भगवद्धर्मपरायण भाईलाल पुरुषोत्त- मदासके आर्थिक सहयोगसे श्रीमुलचन्द तुलसीदास तेलीवाला तथा श्रीधीरजलाल व्रजदास सांकलिया ने सम्पादित तथा प्रकाशित किया था. उसका यह संस्करण ऑफसेट प्रॉसेस द्वारा पुर्नमुद्रित रूप है. इन सभी महानुभावोंका हम कृतज्ञतापूर्वक स्मरण करते हैं.
शोधपत्रम्। मुद्रणानन्तरं श्रीरघुनाथकृतटीकाया एकं प्राचीनं पुस्तकं (सं. १६९६.) प्राप्तम्। तत्संवादादिदं शोधपत्रं निवेशितमिति। पृ. पं. मुद्रितपाठः। शोधितपाठः। ८. १८. देशोत्था....देशोत्थाः। देशो मगधम्लेच्छादि। ८. १९. तदुत्थाः। संयोगः तदुत्थाः। तस्मादुत्तिष्ठन्ति, जायन्त इति यावत्। संयोगः— ८. २३. स्वकृत इरिउषरभूमिना स्वकृतहरणेन ९. १०. भुक्तभोजनम्। भुक्तं भोजनम्। ९. १३. तदसमर्पितं तन्नोपभुज्यते तदसमर्पितं, यत् समर्पितं तन्नोप- भुज्यते। ९. १५. सिद्धान्तमिति सिद्धान्त इति १०. २. इति तत्राहूः इति चेत्, तत्राहूः १०. १५. गुणदोषादिकथा गुणदोषादिकल्पना ३८. २८. सृष्टिरूपं दधाति सृष्टीरुपदधाति ३९. १. स्तुवतः स्तुवते
INTRODUCTION. S'rīmad Vallabhacharya, the author of this little treatise 'Essence of Doctrine' 'Siddhanta Rahasya', was born on the 11th day of the dark half of chaitra, 1535 Samvat, (1479. A. D,) in the forest of Champa near Raichur. His father was Lakshmana Bhatta, and Yallammagaru was his mother. He was a Telugu Brahmin studying the Taitariya S'ākhā of the Black Yajur-Veda. Vallabha's birth is shrouded in the mysteries of the devotional beliefs of his followers, but one thing is certain that his followers believed that he was commissioned to inaugurate a great religious revival in India. From the writings of Vallabha which are available now, we can say that this belief was shared by himself also. It is not an uncommon phenomenon in India. Ramanuja, Madhva, Nimbarka, Chaitanya, and several other great teachers did believe in their special messages to the world. Vallabha's ancestors were Deekshitas, and were devoted to Krishna in the form of Gopala. The Swarūpa of Madana Mohanaji in the Seventh Pitha is the one which came to him from his Sixth ancestor Yajna Narayana Bhatta. It is possible that Vallabha's father Lakshmana Bhatta and his ancestors were the Upāsakas of Gopala according to the cult of Vishnuswami. The early years of Vallabha were passed by him with his father at Benares, where he is said to have mastered all the Vedas, six Dars'anas, and all schools of Āstika and Nāstika thinkers. He studied the S'aiva and Vaishnava Āgamas. When Vallabha was comparatively young, his father died. Vallabha wanted to study the Vaishnava systems of Madhva, Ramanuja, Nimbarka and others, and seeing that they were not prevalent there, in order to have direct knowledge, he is said to have proceeded to the south. Vallabha's desire to go to the south of India is very natural. During that time there was the powerful Hindu kingdom of Vijaya Nagar or Vidyanagar, over which ruled the mighty monarch Krishnadeva-Raya, himself a great Vaishnava. During his time, it seems a convention was held of the representatives of all the existing Sampradayas. The session seems to have been going on when Vallabha visited Vijayanagar. The main dispute seems to have been between Vyāsa Tirtha, the Mādhva, and some representative of Mayavadins. It seems also clear that the Dwaita philosophy of the Mādhvas could not hold its own against the attack of S'ānkaras. At this juncture Vallabha seems to have baffled all by his great learning and powerful arguments. We see no reason to doubt this fact. Vallabha's position was peculiar. He accepted Adwaita pure and simple without the interference of the Māyāvāda of S'ankara; hence all the attacks advanced by Madhvas and others against Advaita lost their force as against him. His acceptance of 'अद्वैतपूर्वकभक्ति' disarmed the opposition of both Vaishnavas and S'ānkaras. The position taken up by Vallabha was not altogether singular. We believe that Narayana Bhatta, the author of the famous drama, Veņisanhara was the follower of a system of Philosophy which combined in itself the Pure Adwaita of the Upanishads and the Bhakti Mārga. Whatever that may be, it is certain that Vallabha made a very great impression on king Krishnadeva, Vyasa-Tirtha and others who were present there. In consequence of this session, the king performed a 'Kanakābhisheka' with hundred Maunds of Gold. It is said that Vallabha did not accept this gold and began to commence his travels. This abstinence on the
part of Vallabha added to the admiration of all those present for him. Vyāsa Tīrtha, the Mādhva, actually requested him to be the head-priest of his matha after him. Vyasa-Tirtha with king Krishna-deva again approached Vallabha and presented him with a good many valuables. From these presents Vallabha is said to havr prepared a gold mekhla set with diamonds, rubies etc., and presented the same to S'ri Vitthala in the Vitthalaswami Temple at Vijayanagara. Ultimately, it appears, Vallabha could not conscientiously accept the offer of Vyasa-Tirtha, but from this time Vallabha came to be regarded as a Great Acharya. After this, he seems to have met with great opposition from the Mayavadi Pandits of Benares. In order to silence them for ever, Vallabha wrote out a pamphlet in mixed verse and prose and affixed the same to the doors of the Kās'hi Vis'vanātha, with a challenge to Benares Pandits to refute the same, if they could. It seems this discussion ended into threats of personal violence, as a consequence of which Vallabha left Benares and moved over to Adel on the opposite bank of the Ganges. The last portion of his life was passed at Adel, where he finished his works which were begun by him during his travels and served Lord Krishna with the love and devotion of Gopees, and founded his system on it. At the age of 52 he left his Parnas'āla, joined the Sannyasa Ās'rama and came to Benares. For a month he observed fast, and for the last eight days he observed मौनव्रत, and on the 2nd day of the bright half of Āshadha mid-day he left this world, Samvat 1587. Vallabha had married one Maha Lakshmi. By her he had two sons, Gopinatha and Vitthales'wara. Gopinatha had one son named Purushottama, after whom his line became extinct. Vitthales'wara lived over seventy years. He had seven sons. During his time the Sampradaya flourished very considerably. Todarmal, Birbal, and Ray Purushottam seem to have come under his influence. Akbar also presented him with Gokula and Jatipura villages in Vraja. All the present Maharajas are direct agnate descendants of Vitthales'wara. While he was staying in the north of India, Vallabhāchārya came into contact with Kes'ava Kashmirin, the famous Nimbarka scholar, and Chaitanya, the Bengal Saint. They were all Krishnopasakas, and it seems from Sampradayika gathas that their relations were very cordial. Kes'ava presented his pupil Madhava Bhatta Kashmirin to Vallabha in Dakshina of Bhagavat-katha S'ravana. He became his devout disciple, and during his whole life acted as the scribe of S'ri Vallabha. It seems that during Madhava Bhatta's stay with him at Adel, Vallabha composed his numerous works. During that interval Vallabha wrote Purva Mimānsā Bhashya, Brahma-Sūtra Bhashya, Tattvadipa-Nibandha with his own commentary, Sukshma tikā and Subodhini on Srimad Bhagavata, and the sixteen Prakarana Granthas giving in brief the essence of his views. It is really unfortunate that only a fragment of his Purva Mimānsa Bhashja is available now. Aṇu Bhashya as we have it now is not wholly written out by him. The last Adhyaya and a half of the Bhashya is finished by his son Vitthales'wara. Sukshma tikā is almost lost. Even Pushti- Pravaha-Maryada Bheda, one of the minor Prakaranas, is not available as a whole. The Bhagavata Subodhini is available only on the 1st, 2nd, 3rd, 10th and a portion of 11th Skandhas. It is possible that Vallabha wrote on all the Skandhas. The loss of these valuable works seems to have been due partly to the apathy of his descendants and followers. It is a pity that no one seems to take care to preserve even those of the writings of Vallabhāchārya and his descendants which are available
INTRODUCTION. at present. Stray efforts like ours are hardly commensurate with the task which is of immense magnitude, requiring the collaboration of Scholars, Maharajas, and rich Vaishnavas coupled with earnestness of purpose. (We may give an instance here of this unpardonable apathy and gross negligence. We have got in our possession a manuscript of भाष्यप्रकाश in the handwriting of that powerful author श्रीपुरुषोत्तमजी, and a MSS. of रश्मि, a wonderful and elaborate commentary on it, written by योगि- श्रीगोपेश्वरजी in his own hand. Both of these works are extremely rare, there being only one copy of रश्मि in the whole world. For the last seven years, we have been dinning into the ears of Maharajas and rich Vaishnavas to arrange for funds, about Rs. 32,000, for the publication of this magnum opus-great work, but as yet, there is no response. The work can be divided into 4 अध्यायs, and again each अध्याय can be divided into 4 parts. Are there not 16 persons in our सम्प्रदाय, from among महाराजs and वैष्णवs, who can afford to give Rs. 2000 each, for this monumental work, the foundation of our सम्प्रदाय? We hope our appeal will be immediately heard, and we shall be able to send to the press one or two parts at once). During his visit to Vraja, Vallabha set up the Shrine of S'ri Nathaji on the holy hill Govardhan in a temple built for that purpose by one Purna Malla Kshatriya. During his stay in Vraja, on the midnight of 11th day of the bright half of S'rāvaṇa, he says he had holy communion with Lord Krishna, who commanded him to initiate Jivas in his service. This initiation consists of two parts: one is the formula to be repeated by the aspirant 'before the deity by holding Tulsi-leaves in hand and afterwards placing the same at the feet of the deity through Acharya, and the other part is the effect of the same, on the devotee, by which he becomes the Adhikari in the Sevā Mārga of Lord S'ri Krishna. The Subject of the present treatise is the same. In the notorious Maharaja Libel case, this work with its commentary by Gokulanathji was cited by the defendant to show that the religious tenets preached by Vallabhacharya and his grandson sanctioned immoral practices. This is the most perverted use made of the noblest of works. At this distance of time it is difficult for us to see how such a monstrous suggestion could have been made. Vallabhacharya's whole life was based on Vairagya. In all his works, he insists on वैराग्य as the first भगवद्धर्म. His learned descendant Purushottamaji says 'आचार्याणां तात्पर्यं त्याग एव'. It was unfortunate that all the materials available were not placed before the court. The court was prejudiced by the highly coloured testi- mony of the defendant's witnesses. General ignorance of the tenets of Vallabha- charya, and a desire not to give publicity to the works of the Sampradaya helped to create an atmosphere prejudicial to the reputation of the Sampradaya. To add to this, the life led by a few of the priestly class, suggested an inference against them. Of course, we have no doubt that Yadunathji Maharaja, who instituted the libel case has not got justice in court. By a perusal of the evidence led in the case against the Maharaja, we are driven to the conclusion that the verdict of the court as regards Vallabhacharya's teachings is entirely wrong. We are of opinion that the publicati- on of this whole work with all the commentaries is the best answer to all the misconceptions about, and false allegations against the सम्प्रदाय. Let us first see what is taught by Vallabhacharya and his grandson Gokulanatha and others. In the Sampradaya, there are two rites generally performed, viz. शरणमंत्रोपदेश and आत्मनिवेदन. The first gives recognition as a Vaishnava and the second makes one Adhikāri in the Sevā Mārga. The first initiation is given by a descendant of Vallabhacharya by repetition of the mantra श्रीकृष्णः शरणं मम in the ears
of the child and then putting the Tulsikanthi on his neck. The performance of the second initiation is also generally through a descendant of Vallabhacharya. In both the initiations, age is not to be considered. It is an accepted belief in the Sampradaya that Vallabhacharya alone is the आचार्य, and all his descendants, howso- ever illustrious, have never claimed anything further than being recognized as गुरुद्वार. Thus the initiation is believed to be done by Vallabhacharya himself through the instrumentality of his agnate descendants. The dedication is to Lord Krishna, and not to Acharya as will be presently shown. It is monstrous to substitute the word Acharya in place of Krishna and then to charge Vallabhacharya that he preached immorality. It would be a cruel injustice to one of the greatest saints and philosophers of India. The vow repeated at the time of the आत्मनिवेदन ceremony is this:—सहस्रपरिवत्सरमितकालजातकृष्णवियोगजनिततापक्लेशामन्दतिरोभावोऽहं भगवते कृष्णाय देहेन्द्रिय- प्राणाम्तःकरणानि तद्धर्मांश्च दारागारपुत्राप्तवित्तेहापराणि आत्मना सह समर्पयामि, दासोऽहम्, कृष्ण तवास्मि। Above we have related the current practice and belief in the Sampradaya, but we must admit that in the known writings of Vallabhacharya it is nowhere mentioned that this initiation should take place only through him or his descendants. Valla- bhacharya does not seem to insist that any particular person should initiate you. Of course it goes without saying that the person who initiates and the person initiated must be spiritually exalted. In his Nibandha, while discussing the question as to who can be a Guru, he observes as follows:—'कृष्णसेवापरं वीक्ष्य दम्भादिरहितं नरम् । श्रीभागवततत्त्वज्ञं भजेत् जिज्ञासुरादरात् । तदभावे स्वयं वापि मूर्ति कृत्वा हरेः क्वचित् । परिचर्यां सदा कुर्यात् तद्रूपं तत्र च स्थितम् ।'. His commentator here observes as follows:—'कलेर्बलिष्ठत्वेनाग्रिमेषु गुरुलक्षणा- भावमालोच्य स्वस्मिन्नेवैतन्मार्गीयगुरुत्वं नियच्छन्त आहुः ।' Putting together these two statements, we can easily understand how the idea of S'rimadacharya's presence was always considered necessary at the time of initiation. Vallabha's descendants even to this day initiate their pupils not in their own name and responsibility, but in the name and responsibility of S'ri Vallabha. This initiation is referred to as ब्रह्मसंबन्ध by Vallabhacharya in the present work. The necessary qualification of the initiated is भगवत्कृपा, which can be inferred from one's inclination towards the Bhagvan-Marga. Thus the कृपायुक्त soul has to dedicate his everything to Lord Krishna through Srimadacharya, and proclaim himself as the दास of Krishna. This is what is known as ब्रह्मसंबन्ध, and it is in this sense interpreted by all the commentators here. Gokulanathaji says:— ब्रह्मसंबन्धकरणं नाम एतन्मार्गीयाचार्यद्वारा भगवन्निवेदनम् ।
१. We have published the Gadya after a considerable hesitation. We know that some Vaishnavas will feel annoyed by this act of ours. But we have, after long deliberation, come to the conclusion that the mission of S'ri Vallabhacharya would be fulfilled better by the publication of the same by ourselves in correct form, rather than allow the calumniators of the Sampradaya to publish the same in a distorted form and thereby heap mischievous allegations on his fair name. However, for those who cannot see eye to eye with us on this question, we can do no more than give a reply in the words of Sri Purushottamji, the greatest scholar of the Sampradaya:—यद्यपि मदुक्तौ मार्गरहस्यप्रकाशनापराध आयाति, तथापि प्रकाशनस्यान्यैरेव कृतत्वेन तदर्थसंदेहवारणस्यैव मत्कृतितया स्वोत्कर्षप्रकाशनाथंत्वाभावाद् भगवान् श्रीमदाचार्यचरणाश्च मदपराधं क्षमन्त्विति विज्ञापयामीति दिक् । सि. र. टीका. पृ. ३७. The followers of Gokulanathji repeat श्रीगोपीजन- वल्लभाय after the word कृष्णाय. Some repeat देहप्राणेन्द्रिय etc. instead of देहेन्द्रिय etc. Some repeat वित्तं इह पराणि instead of वित्तेहापराणि. Substantially this is the correct reading.
INTRODUCTION.
According to Raghunathji ब्रह्मसंबन्ध means this :—बृहत्वात् ब्रह्म पुरुषोत्तमः तत्संबन्धस्तस्मिन् देहात्मनोर्निवेदनलक्षणः । Kalyanarayaji says :—ब्रह्मसंबन्धो नाम स्वमार्गाचार्यद्वारा भगवति निवेदनम् । Vrajotsavaji says :—ब्रह्मसंबन्धकरणं नाम साक्षात्पुरुषोत्तमसंबन्धकरणम् । तच्च श्रीमदाचार्यद्वारा शरणगमनपूर्वकम् । Gokulotsavaji observes :—ब्रह्मणः श्रीपुरुषोत्तमस्य संबन्धिकरणान् सर्वसमर्पणेन तदीयत्वसंपादनात् । Harirayaji says :—आदौ संबन्धकरणं कन्ययेव स्वयंवरे । स्वस्य सर्वपदार्थानां मनसा तेन योजनम् । संबन्धवत्या दूत्येव गुरुणा तत्कृतिर्भवेत् । संबन्धश्चापि निर्दोषस्तथा सर्वसमः स्मृतः । बहेरिवेति बोधाय प्रोक्तं ब्रह्मपदं पुनः । 'निर्दोषं हि समं ब्रह्म'त्युक्तोक्त तत् तथाविधम् । स्यात् प्रयुक्तं कृष्णपदे विषयत्वं गुणादितिः । संबन्धे तादृशापेक्षा नास्ति दोषनिवारणात् । दोषमात्रनिवृत्त्यर्थं ब्रह्मसंबन्ध उच्यते । Vitthalarayaji says :—ब्रह्मणा मया संबन्धः कार्यः । Giridharaji defines it thus :—अस्मिन् मार्गे यशोदोत्सङ्गलालितश्रीकृष्णस्यैवोपास्यत्वात् तस्य चाक्षलोके अवतारमात्रभ्रमत्वादत्र तद्व्यावृत्त्यर्थं ब्रह्मपदोपादानम् । $\times$ $\times$ तेन ब्रह्मणा सह देहजीवयोर्यः संबन्धः स्वमार्गीयनिवेदनेन तदीयत्वसंपादनलक्षणः । Lalubhatta explains it thus:—ब्रह्मणा सह संबन्धः स्वस्वामिभावलक्षणो देहेन्द्रियप्राणान्तःकरण- दारागारपुत्रादीनामारमन्श्च तदीयत्वमिति यावत् । तस्य करणात् गद्यसहितपञ्चाक्षरनिवेदनमन्त्रस्योपदेशेन स्फुटीकरणादित्यर्थः । According to the last Tikakara it means this :—निर्दोषं हि समं ब्रह्माइम्, तस्मिन् संबन्धस्य करणात्, साधकत्वात् सगद्यपञ्चाक्षरकथनात् । अंशत्वेपि 'पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ' इति भक्तिमार्गीयात्मसमर्पणापरपर्यायनिवेदनेद्वारा सेवकत्वकरणादित्यर्थः । Purushottamaji has written on almost all works of Vallabhacharya, and he explains the word ब्रह्मसंबन्ध thus:—'ब्रह्मसंबन्धो नाम सर्वस्मिन् भगवत्स्वामिकत्वरूपः संबन्धः, तस्य करणं नाम भगवता आचार्यान् प्रति गद्येनोक्तो य आत्मसमर्पणप्रकारः, तद्रीत्या भगवति स्वात्मसहितस्वीयसर्वपदार्थानां भगवति तथात्वविज्ञापमम् । 'स वै नैव रेम' इति श्रुतेः 'क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियो पर ईश कुर्यु' रित्यादिवाक्याच्च वस्तुतः सर्वस्य भगवदीयत्वेपि 'स वै नैवे' त्यादिश्रुत्या रमणार्थं द्वितीयनिर्माणादिश्रवणात् तेनापादिता या तत्तत्पदार्थे जीवस्य स्वत्वस्वीयत्वाभिमतिः तत्परित्यागे तेषु भगवदीयत्वस्य विज्ञापनमिति यावत् ।' From the above quotations the reader will be in a position to see that the so-called ब्रह्मसंबन्ध has reference to Krishna, and not to Acharya or any of his descendants. From Vallabhacharya down to the most recent commentator, all the writers have understood that the समर्पण is to Purushottama or Krishna and not to any mortal being. In spite of these facts, it would be monstrous to substitute the word Acharya in place of Purushottama and then to draw the inference that Vallabhacharya and his Sampradaya looked upon immoral practices as sanctioned by his teachings. Of course we are not in a position to deny that a certain section of the followers and some individuals of the priestly class had degenerated. Such degeneration comes, at one time or another, in all religions. But to say that the followers or priests were degenerated is one thing, and to conclude from their mischievous activities that Vallabhacharya or any of his learned followers preached or tolerated or sanctioned immoral practices is another thing. Vallabhacharya and his learned descendants have condemned immorality to this day in no uncertain terms. In order to give an idea of this, we shall quote from their writings. Vallabhacharya in his निबन्ध lays down the rules for the guidance of a Bhakta thus:—'वैराग्यं परितोषं च सर्वथा न परित्यजेत् । एतद्देहावसाने तु कृतार्थः स्यान्न संशयः । इति निश्चिल्य मनसा कृष्णं परिचरेत् सदा । सर्वापेक्षां परित्यज्य दृढं कृत्वा मनः स्थिरम् । दृढविश्वास्तो युक्त्या यथा सिध्येत् तथा चरेत् । वृथालापक्रियाध्यानं सर्वथैव परित्यजेत् । यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः । येन स्यान्निवृत्तिश्चित्ते तत् कृष्णे साधयेद् ध्रुवम् । स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । इन्द्रियाश्वविनिग्राहः सर्वथा न त्यजेत्त्रयम् । Commenting on this passage, Purushottamaji discusses this question at great length 2
INTRODUCTION. To give a correct idea of what he has said there, we shall quote that portion of his commentary and leave the reader to judge as to how far it is true to say that the Sampradaya sanctioned immoral practices. नन्वपि चेत् सुदुराचारो भजते मामनन्यभाक्, साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि स इति भगवद्वाक्ये दुराचार- स्यापि साधुत्वकथनाद्यथाकारी यथाचारी तथा भवतीति श्रुतौ कर्माचारयोर्भेदकथनेनाचारपदस्य स्वाभाविकेन्द्रियप्रवृत्तौ पर्यवसानात् तस्य दुष्टत्वेऽप्यनन्यभक्तस्यानुष्टत्वात् तस्मान्मद्भक्तियुक्तस्येति वाक्ये वैराग्यस्याश्रेयस्त्वकथनेन वैराग्यस्यैव प्रत्युत दुष्टत्वाच्चात्रेन्द्रियविनिग्रहः किमित्युपदिश्यत इत्यत आहुः । इन्द्रियाणीत्यादि । अयमर्थः । पूर्वं स्वशक्त्यनुसारेण महाराज्योपचारैर्भगवत्पूजाव्यवस्थापनात् ततो भगवत्प्रसादस्य नानाविधस्य भक्तेभ्यो दानं विधाय स्वस्य भोगो यः प्राप्तः सोऽपि नेन्द्रियप्रियत्वेन कर्तव्यः, किन्तु भगवत्प्रसादत्वेन । तत्रापि सामग्रीपरीक्षार्थं यथाये भोगसामग्री न दुष्येत् तथा भगवान् रसात्मकः स्त्रीणां च विशेषतः उद्दीपकः । किं बहुना लौकिका अपि गायकास्तदीयामेव कामलीलां विशेषतो गायन्तीति तादृशां गतादिसङ्गवशेन स्वस्य कामोत्कट्ये तदिन्द्रियं निग्राह्यम् । योऽप्यनिषिद्धो भोगः सोऽपि सेवाबाधकीभूत- कामनिवर्तकत्वेनैव करणीयो, नेन्द्रियप्रियत्वेनेति । अत्र मूले, विनिग्राह इति विशब्देन विवेकधैर्याश्रये, अङ्गूरेणापि कर्तव्यं स्वस्यासामर्थ्यभावनादिति यदुक्तं तत् सार्यते । अर्थस्तु यदि स्वयमिन्द्रियकार्याणां त्यागे असमर्थः, स्वभाव- विजयः शौर्यमित्येकादशे शौर्यलक्षणात् तादृशतदभावेनांशूरस्तदा तेन स्वस्यासामर्थ्यभावनं विधायेन्द्रियकार्यत्यजनं कर्त्त- व्यमिति । तत्प्रकारस्तु-ये समृद्धा महाभोगवन्तः सुरतादिशौण्डास्तद्वन्नाहं, कियन्मत्सामर्थ्यं, को वा मे भोगः, किम् उप- करणं नायिका वा, येन तत्रांसञ्ज्य स्वपुरुषार्थं नाशयामीत्येकः । सोऽप्येकादशे भगवतोक्तः । रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः अतन्द्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जत इति । यश्चैवं कर्तुमप्यशक्तः स तु, जुषमाणश्च तान् कामान् दुःखोदकींश्च गर्हयन्नित्येकादशोक्तरीत्या स्वस्य तस्यागासामर्थ्यं भावयेदित्यपरः । न च पूर्वोक्तगीतावाक्यविरोधः शङ्क्यः । तत्र दुराचारपदस्य पूर्वोक्तस्याबोधकत्वेन भजनोत्तरं तथात्वस्याभावात् । 'क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छती'त्युत्तरवाक्येन तथानिश्चयात् । 'धर्मो मद्भक्तिकृत्प्रोक्त' इति लक्षणकस्यैव तस्य तत्र विवक्षितत्वात् । नापि 'तस्मा- न्मद्भक्तियुक्तस्येति वाक्यविरोधः । ततः पूर्वस्मिन् संदभें, जातश्रद्धो मत्कथास्वित्यादिना असमर्थाधिकारमेव प्रस्तुत्य तादृ- शस्य भजनमेव कर्त्तव्यत्वेन विधाय ज्ञानवैराग्ययोरभावे कथं फलसिद्धिरिति शङ्कानिवृत्त्यर्थं प्रोक्तेन भक्तियोगेनेति द्वाभ्यां तयोः कार्यं भत्त्यैव भविष्यतीति बोधनेन उक्तवाक्येऽपि योगिमदात्मपदाभ्यां निरुद्धचित्तवृत्तिकस्यभगवदेकता- नत्वयोर्बोधनेन च सेवापरिकर आत्मकविषयवैराग्यस्यैवाश्रेयस्त्वेन दृष्टत्वसिद्ध्या तदतिरिक्तवैराग्यस्य दुष्टत्वासिद्धेः । न च फलप्रकरणे भगवता मिथोभजनं विनिन्द्य, भजन्यभजतो ये वा इत्यादिश्लोकद्वये संभावितापनादस्याभजद्भजनस्य निरपवादधर्मत्वेन कथनाद् द्वितीये भजदभजनकर्त्तृणां केषाञ्चिदुक्तस्त्वग्व्रुद्धत्वकथनाच्च यथा छान्दोग्ये वामदेव्यासा- मोपासकस्य, न काञ्चन परिहरेदितिश्रुत्या सर्वाभिगामित्वमनुज्ञातं तथात्र भक्तविशेषस्य तदनुष्ठैव प्रतीयत इति नात्र दोष- संभव इति वाच्यम् । तत्रापि पूर्वत्र, करुणा पितरौ यथेत्यनेन करुणारूपस्य वैदिकस्य, स्नेहरूपस्य लौकिकस्य बोधनेन धर्मार्थे तस्मिन् प्रत्युपकारसंभावनाराहित्य एव धर्मोत्पच्या तथात्वात् । ब्राह्मणस्य कामपरवशस्य प्राणत्राणार्थं गमनं धर्मो निरनुबन्ध इति कामसूत्रे वैशिके वात्स्यायनेनापि कथनाच्च । भारत आनुशासनिके सुदर्शनोपाख्यानेऽपि, 'प्राणाश्च मम दाराश्च यच्चान्यद्विद्यते वसु' 'अतिथिभ्यो मया देयमिति मे व्रतमाहित'मिति कथनात् । तादृशाभिसन्धिनिर्वाह एव सुद- र्शनोधवलोर्द्धम्पत्योः सदेहयोः स्वर्गकथनात् । 'कूटमुद्गरहस्तस्तु मृत्युरस्तं हेतुमत्यात्' 'हीनप्रतिज्ञ इत्येवं वधिष्या- मीति चिन्तय'न्निति व्रतभङ्गे मृत्युदण्डस्योक्तत्वाच्च । तथाऽतिथिपूजानिर्वाह एव तस्य धर्मत्वावगमात् । सांप्रतं मृत्युत्रासाभि- संध्यनिर्वाहयोर्दर्शनेन तस्य दोषत्वस्य वज्रलेपायितत्वात् । सुबोधिन्यामपि धर्मार्थं तस्मिन् भजदर्थे प्रतियोगिना प्रायश्चित्तं विधेयमित्युक्तत्वात् । टिप्पण्यामपि प्रतियोगिकृतप्रायश्चित्तस्य भजति फलसाधकताया उपपादनाच्च । स्नेहनिमित्तके तस्मिन् पितृदृष्टान्तेन निरुपधित्वपूर्वजन्मनिर्संबन्धयोः सूचनात् प्रत्युपकारसंभावनाराहित्ये क्रियमाणप्रत्युपकारानङ्गीकारे च सौहृदानुषङ्गेन धर्मस्य गौणतया भवनाङ्गीकाराच्च । तत्रापि निर्वाह एव कथञ्चनादुष्टत्वमिति तस्य दुरवगमत्वेन श्रोत्रियस्य ब्रह्मचारिणो व्रतिनो लिङ्गिनो वामां दृष्ट्वा जातरागस्य सुमूर्षोर्मित्रवाक्यादानुशंस्याच्च गमनं धर्मोऽधर्मो वेति संशय इति वैशिकवात्स्यायनसूत्रोक्तस्थलबत् सन्दिग्धतया दुष्टत्वात् । अत्र समाप्तौ, 'तेषां स्वच्छन्दचरितं बुद्धिमान्न तदा चरेत्' नैतत् समाचरेज्जातु मनसापि ह्यनीश्वरः' विनश्यत्याचरन् मौढ्याद्यथा रुद्रोऽब्धिजं विषमिति वाक्याभ्यां निषेधनाशयोर्बो- धनेन सुबोधिन्याम् अनीश्वरकृतस्यास्यानिष्टजनकत्वमिति व्याख्यानेन यथैश्वर्यकामानायामनीश्वरो वधमर्हति, यथा महाराज्यानधिकारी तदिच्छां कुर्वन्निति मनसापि करणे दण्डव्याख्यानेन ऐश्वर्यज्ञानवैराग्यैर्यत् करोति तत्स्वच्छन्दचरित- मित्युच्यते । बुद्धिमांस्तन्नाचरेदिति च व्याख्यानेन तथत्वावगमाच्च । न च निषेधादिकं रासकरणविषयकमिति वाच्यम्। राजप्रश्नोत्तरत्वात् । प्रश्ने परदाराभिमर्शनस्यैवोक्तत्वात् । न च, यत्पादपङ्कजपरागनिषेवतुप्ता इत्यत्र भक्तयोगिज्ञानिनां स्वैराचरणस्याबन्धकत्वेनानुवादाद्भ्रक्तानां न तद्दोषोपावहमिति शक्यम् । तत्र पूर्णकामाणां प्राप्तानाममुवादेना रम्भदशाप- न्नेषु तस्योदाहर्तुमशक्यत्वात् । निषेधतुप्ता इति कथनात् । न चैवं सत्यनुप्रकार्थं स्वैराचरणमपि तेषामशक्यवचनमिति वाच्यम् । मार्कण्डेयपुराणोक्तसङ्गनिर्वृत्तिप्रयोजनकद्त्तात्रेयसुरापानादिवत् सुवचत्वात् । अत एव, कुर्वन्ति हीत्यत्र नित्यप्रियपदव्याख्याने कालापरच्छेदस्यैव प्रियस्य सेवा कर्त्तव्येत्युक्तम् । अन्यथा जारसेवापि धर्मैः