षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 130, कुल 408 में से
संदर्भ में पढ़ेंप्रत्येकं साधनश्चैतद् द्वितीयार्थे महाञ्छ्रमः । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६ ॥ श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति । मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवत तथा ॥ १७ ॥ समर्पणेनाऽऽत्मनो हि तदीयत्वं भवेद् ध्रुवम् । अतदीयतया चाऽपि केवलश्चेत्समाश्रितः ॥ १८ ॥ उभयथा भजनस्य 'अकामः सर्वकामो वा' इत्यादिना विहितत्वात् । यत एतद- दाने उभयविधापि दानशक्तिरुभयेभ्योप्यपगच्छति । अतः क्वचित्कदापि दीयते । अधिकारिणमाहुः प्रियायेति । तादृशेभ्योऽपि क्वचिदेव दीयने । यथा प्रियव्रता- म्बरीषादीनां प्रियेभ्यो भगवद्भक्तवत्सलत्वात् स्वभोग्यमपि ददाति । तदपि क्वचि- देव । यत्र दाने सम्प्रदानानाशः, अग्रच्युतिश्च भवति, तत्रैव दीयते । अत एवकारः । उद्धरणैकस्वभावस्य नियतार्थप्रदानं युक्तमित्याहुर्हीति । ननु प्रियेभ्योपि नियतार्थ- दाने सकृद्दाने दातृशक्तिः कार्पण्यं भवेदिति चेत्, न, नियतार्थप्रदानेन चित्त- विक्षेपाभावात्तदीयत्वं तदाश्रयश्च भवति, तेन नासुरभावप्रदेशः स्यादिति भावः । 'भगवदीयत्वेनैव परिसमाप्तसर्वार्था' इति तेनैव तेषां कार्यसिद्धिः । केवलं तदीय- त्वेन तदधीनतया, स्थितौ मुक्तिं दत्त्वा ततः संसारादुद्धृत्य भजनानन्दानुकूलं देहं दत्त्वा, तदपि ददाति । मुक्तोद्धारस्तु मूलेच्छाधीनोऽशक्यश्चेति सोऽप्यशक्येऽर्थे भवति, भारदानमाश्रयः । एवं प्रत्येकं साधनभूते द्वे । तत्रैकं सुसाध्यमपरं कष्टसाध्यं चेति । तत्र हेतुर्जीवा इति । स्वभावतस्ते दुष्टाः, यद्यपि तथाभूतानां निवेदनमप्यशक्यम्, तथापि, तद्दोषयुक्तस्यात्मनिवेदने शक्तिरेव न भवेत् । (निवेदने) क्रियमाणे ते दोषा अपि निवेदिताः स्युः । ततस्तेषामप्यपगमश्च स्यात् । द्वितीये तु दोषे विद्यमाने आश्रयसिद्धिरॆव न भवेत्, दोषाणां चित्तविक्षेपजनकत्वात् । तस्मिन् सति भगवदनु- सन्धानाभावादाश्रयासिद्धेः । तस्मादात्मनिवेदन्नतस्तद्दोषनिवर्त्तनद्वाराऽश्रयसाधकं श्रव- णादि नवकं कर्त्तव्यम् । एतदेवोक्तं मातरं प्रति कपिलेन । 'यथा यथात्मा परिमृज्यते' इति । एवं कृते प्रेमैव भवति, नासक्तिव्यसने । अत एव प्रेम्णेत्येकवचनम्, तेन तेषामाश्रयः, तत्साध्यं च सर्वमेव कार्यं (आसक्तिव्यसनादिकं च) सिद्ध्यति । (विष्णुशिवयोः) उभयत्रैषा व्यवस्था । तत्तच्छास्त्रे तयोर्निर्दोषपूर्णगुणत्वनिरूपणात् । मुमुक्षूणां विष्णुविषयत्वेनैवंकररणमल्पेनैव फलं साधयति । भोगार्थिनां रुद्रविषयक- मेवं करणमपि तथैव । एवमेकधा भोगमोक्षसाधनसिद्धिमुक्त्वा प्रकारान्तरेण तन्नि-