भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 131, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 131

श्रीद्वारकेश्वरचरणविरचित टीकासमेतः । ४३ रूपयन्ति, 'यथेष्टमुपयोगः कर्त्तव्यः' इति बुद्ध्या आत्मना सह स्वसर्वस्वविनिवेदने कृते सति तदीयत्वं भगवदीयत्वं तन्निवेदनेनैव भवतीत्यर्थः । ननु तदीयत्वसहि- तस्याश्रयस्य मुक्तिसाधकत्वं केवलस्य वा । नाद्यः, मानाभावात् । न द्वितीयः, तदी- यत्वसाध्य(फल)स्याश्रयासाध्यत्वादिति चेत् तत्राहुरतदीयतेयेति । यथा तदीयत्वं स्वतन्त्रतया मुक्तिसाधकम् , तथाश्रयश्च । तदाह केवल इति । तदीयत्वव्यतिरिक्तः सम्यक्कृताश्रयः। तथापि कार्यं भवत्येव। तदाश्रितोऽहं तदीयोऽहमिति बुद्ध्या भगवदी- यानामुत्पथगामित्वे मार्गे अपवादो मा भवत्विति विचार्य बहुधा करणसामर्थ्येऽपि किञ्चित्सत्कर्माचरणं कुर्यादित्यर्थः ॥ १८ ॥ तदाश्रयतदीयत्वबुद्ध्यै किञ्चित्समाचरेत् । स्वधर्ममनुतिष्ठन् वै भारद्वैगुण्यमन्यथा ॥ इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९ <sup></sup>/<sub></sub> ॥ समाप्तो मूलग्रन्थः यद्वा, निवेदनानन्तरमाश्रयानन्तरं वा यदनुष्ठेयं स धर्मः । तेन स्वधर्मापगम- भिया तदनुकूलमेव सत्कर्माचरणीयम् । अत एव, किञ्चिदुक्तम्, तदुक्तं भगवता, 'यावानर्थ उदपाने'इति। अथवा विष्ण्वाश्रितोऽहं वैष्णवोहमितिवुद्द्‌या किञ्चित् साधार- णमपि कर्त्तव्यम्, न केवलं पुरुषोत्तमसम्बन्धीययोरिव तदीयत्वाश्रययोरिव विश्वासं कृत्वा सर्वान्धर्मान्परित्यक्त्वा स्थेयम् । यत एते भगवदंशा, सत्त्वाद्यधिष्ठातारो देवाः । अत एव स्वधर्मं वर्णाश्रमधर्ममनुतिष्ठन्नेव स्यात् । अन्यथा एतदुभयमाश्रित्य तदीयोः पुरुषोत्तमसम्बन्धीयभावेन शारीरधर्मत्यागे प्रयात एव भवेदिति । गुणा- धिष्ठातारस्तु विद्यमाने पापे मोचका न भवन्ति । धर्मत्यागजन्यं दूरीकृत्य न ते मोचकाः, सामर्थ्याभावात् । तेन यथा शारीरा धर्मास्तथा तदीयत्वतदाश्रयौ । एवं प्रकारेण, इति सर्वं पूर्वं प्रतिज्ञातं कथितम् । विचार्य सारोद्धारः कृतः, यथा औष- धीनां क्वाथः। न तु येभ्य एव लीनः सारस्तेभ्यः पृथक् क्रियते, रुग्णानां रोगनिवर्त्तना- र्थम् । एवं लौकिकानामलौकिकानामेकीकृत्य निरूपणे लौकिकेभ्यः स्वकीयेभ्योऽलौ- किकानां सारोद्धाररूपेण निरूपणे सामान्येभ्यो विशेषाणां निरूपणं भवति, तेनोभय- जातीयानामेकविधानामभिनिरूपणेऽपि न ज्ञाने भ्रमो भवतीत्यर्थः ॥ १९ <sup></sup>/<sub></sub> ॥ इति श्रीद्वारकेश्वरविरचिता बालबोधटीका सम्पूर्णा ।