षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 131, कुल 408 में से
संदर्भ में पढ़ेंश्रीद्वारकेश्वरचरणविरचित टीकासमेतः । ४३ रूपयन्ति, 'यथेष्टमुपयोगः कर्त्तव्यः' इति बुद्ध्या आत्मना सह स्वसर्वस्वविनिवेदने कृते सति तदीयत्वं भगवदीयत्वं तन्निवेदनेनैव भवतीत्यर्थः । ननु तदीयत्वसहि- तस्याश्रयस्य मुक्तिसाधकत्वं केवलस्य वा । नाद्यः, मानाभावात् । न द्वितीयः, तदी- यत्वसाध्य(फल)स्याश्रयासाध्यत्वादिति चेत् तत्राहुरतदीयतेयेति । यथा तदीयत्वं स्वतन्त्रतया मुक्तिसाधकम् , तथाश्रयश्च । तदाह केवल इति । तदीयत्वव्यतिरिक्तः सम्यक्कृताश्रयः। तथापि कार्यं भवत्येव। तदाश्रितोऽहं तदीयोऽहमिति बुद्ध्या भगवदी- यानामुत्पथगामित्वे मार्गे अपवादो मा भवत्विति विचार्य बहुधा करणसामर्थ्येऽपि किञ्चित्सत्कर्माचरणं कुर्यादित्यर्थः ॥ १८ ॥ तदाश्रयतदीयत्वबुद्ध्यै किञ्चित्समाचरेत् । स्वधर्ममनुतिष्ठन् वै भारद्वैगुण्यमन्यथा ॥ इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९ <sup>१</sup>/<sub>२</sub> ॥ समाप्तो मूलग्रन्थः यद्वा, निवेदनानन्तरमाश्रयानन्तरं वा यदनुष्ठेयं स धर्मः । तेन स्वधर्मापगम- भिया तदनुकूलमेव सत्कर्माचरणीयम् । अत एव, किञ्चिदुक्तम्, तदुक्तं भगवता, 'यावानर्थ उदपाने'इति। अथवा विष्ण्वाश्रितोऽहं वैष्णवोहमितिवुद्द्या किञ्चित् साधार- णमपि कर्त्तव्यम्, न केवलं पुरुषोत्तमसम्बन्धीययोरिव तदीयत्वाश्रययोरिव विश्वासं कृत्वा सर्वान्धर्मान्परित्यक्त्वा स्थेयम् । यत एते भगवदंशा, सत्त्वाद्यधिष्ठातारो देवाः । अत एव स्वधर्मं वर्णाश्रमधर्ममनुतिष्ठन्नेव स्यात् । अन्यथा एतदुभयमाश्रित्य तदीयोः पुरुषोत्तमसम्बन्धीयभावेन शारीरधर्मत्यागे प्रयात एव भवेदिति । गुणा- धिष्ठातारस्तु विद्यमाने पापे मोचका न भवन्ति । धर्मत्यागजन्यं दूरीकृत्य न ते मोचकाः, सामर्थ्याभावात् । तेन यथा शारीरा धर्मास्तथा तदीयत्वतदाश्रयौ । एवं प्रकारेण, इति सर्वं पूर्वं प्रतिज्ञातं कथितम् । विचार्य सारोद्धारः कृतः, यथा औष- धीनां क्वाथः। न तु येभ्य एव लीनः सारस्तेभ्यः पृथक् क्रियते, रुग्णानां रोगनिवर्त्तना- र्थम् । एवं लौकिकानामलौकिकानामेकीकृत्य निरूपणे लौकिकेभ्यः स्वकीयेभ्योऽलौ- किकानां सारोद्धाररूपेण निरूपणे सामान्येभ्यो विशेषाणां निरूपणं भवति, तेनोभय- जातीयानामेकविधानामभिनिरूपणेऽपि न ज्ञाने भ्रमो भवतीत्यर्थः ॥ १९ <sup>१</sup>/<sub>२</sub> ॥ इति श्रीद्वारकेश्वरविरचिता बालबोधटीका सम्पूर्णा ।