भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 129, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 129

श्रीद्वारकेश्वरचरणविरचित टीकासमेतः । ४१ निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३ ॥ भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः । लोकेऽपि यत्प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ १४ ॥ सात्त्विकतामसादिषु शास्त्रेषु निर्दोषपूर्णगुणता परमकाष्ठापन्नवस्तुरूपत्वं विष्णुशिवयोरेव प्रतिपादितम् । यत इमौ परमकाष्ठात्वं प्राप्तौ । अतः द्वावपि भोग- मोक्षफले दातुं शक्तौ । भोगः विषयैरिन्द्रियतर्पणम्, मोक्षः सवासनसङ्घातलयः । एतदुभयं सविशेषं दातुमुभावपि समर्थौ यद्यपि, तथापि भोगः शिवेनैव, मोक्षो विष्णुनेवेति निश्चयः । एवं व्यवस्थायां दृष्टान्तत्वेन हेतुमाहुर्लोक इति । लोके ह्येतादृशी व्यवस्था सर्ववादिसिद्धा । यत्प्रभुणा भुज्यते तन्नान्यस्मै कस्मा अपि दीयते, अयोग्यत्वात् । शिवेन समाधौ मोक्षरूपः परमानन्दानुभवः क्रियते, तेन तदनुभावज्ञत्वात् सर्वस्वं दुर्लभमिति मत्वा भगवद्विमुखां ज्ञात्वा 'पत्नी हि सर्वस्य मित्रम्' इति श्रुत्या सर्वात्मना मित्रत्वमापन्नाया अपि यत्र न प्रयच्छति, तत्रान्यस्मै न प्रयच्छतीति किं वाच्यम् ? । ये त्वेतद्दानेऽयोग्यास्तेषां तद्दानं ज्वरितस्या- न्नदानमिव नाशजनकं भवति न तु योग्यानाम्। तदग्रे वक्ष्यामः। विष्णुरपि श्रियं भुङ्क्ते। तेन न स्वभोग्यामन्यस्मै असमानाय प्रयच्छति । यतो योग्यानामनुग्रहैकस्वभावः । भजतां लक्ष्म्यादिदाने मत्तः सन्तः प्रच्युता भविष्यन्तीति मुक्तिप्रतिबन्धिकां स्वानु- सन्धानप्रतिबन्धिकां श्रियं प्रत्युत हरति, न तु प्रयच्छति । किञ्च, यथा निःकामं शिवं भजतामेवाल्पप्रसाद्यः शिवः प्रसन्नो भूत्वा ब्रह्मविद्यादानपूर्वकं वैष्णवधर्मोपदेश- पूर्वकं वा मुक्तिं प्रयच्छति, न तथा सकामानाम् । ते यथावत् काम्यं प्राप्य भगवतः प्रच्युता भवन्ति । यतस्ते कृतपुण्यपुञ्जाः । भगवतापि तथैव सकामानां ते यथावत्काम्यं प्राप्य तथैवोक्तं 'चतुर्विधा' इत्यादिना । सकाममपि भगवद्भजनं कर्तारः काम्यं भुक्त्वापि भगवद्भजनमाहात्म्याज्जन्मान्तरेपि तथा संस्कारवन्तो भगवदिच्छां प्राप्य यदा ते निःकामा भूत्वा भगवन्तं भजन्ति, तदा कृतार्था भवन्ति । न त्वेवं शैवाः ॥ १४ ॥ एवं विष्णुशिवयोः भजतां प्रत्येकं सर्वथा भोगमोक्षाप्रदाने दानशक्तिरपगता भविष्यतीत्याशङ्क्य पक्षान्तरमाहुः अत इति । अतः प्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयत्वं तदाश्रयः ॥ १५ ॥