षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 129, कुल 408 में से
संदर्भ में पढ़ेंश्रीद्वारकेश्वरचरणविरचित टीकासमेतः । ४१ निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३ ॥ भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः । लोकेऽपि यत्प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ १४ ॥ सात्त्विकतामसादिषु शास्त्रेषु निर्दोषपूर्णगुणता परमकाष्ठापन्नवस्तुरूपत्वं विष्णुशिवयोरेव प्रतिपादितम् । यत इमौ परमकाष्ठात्वं प्राप्तौ । अतः द्वावपि भोग- मोक्षफले दातुं शक्तौ । भोगः विषयैरिन्द्रियतर्पणम्, मोक्षः सवासनसङ्घातलयः । एतदुभयं सविशेषं दातुमुभावपि समर्थौ यद्यपि, तथापि भोगः शिवेनैव, मोक्षो विष्णुनेवेति निश्चयः । एवं व्यवस्थायां दृष्टान्तत्वेन हेतुमाहुर्लोक इति । लोके ह्येतादृशी व्यवस्था सर्ववादिसिद्धा । यत्प्रभुणा भुज्यते तन्नान्यस्मै कस्मा अपि दीयते, अयोग्यत्वात् । शिवेन समाधौ मोक्षरूपः परमानन्दानुभवः क्रियते, तेन तदनुभावज्ञत्वात् सर्वस्वं दुर्लभमिति मत्वा भगवद्विमुखां ज्ञात्वा 'पत्नी हि सर्वस्य मित्रम्' इति श्रुत्या सर्वात्मना मित्रत्वमापन्नाया अपि यत्र न प्रयच्छति, तत्रान्यस्मै न प्रयच्छतीति किं वाच्यम् ? । ये त्वेतद्दानेऽयोग्यास्तेषां तद्दानं ज्वरितस्या- न्नदानमिव नाशजनकं भवति न तु योग्यानाम्। तदग्रे वक्ष्यामः। विष्णुरपि श्रियं भुङ्क्ते। तेन न स्वभोग्यामन्यस्मै असमानाय प्रयच्छति । यतो योग्यानामनुग्रहैकस्वभावः । भजतां लक्ष्म्यादिदाने मत्तः सन्तः प्रच्युता भविष्यन्तीति मुक्तिप्रतिबन्धिकां स्वानु- सन्धानप्रतिबन्धिकां श्रियं प्रत्युत हरति, न तु प्रयच्छति । किञ्च, यथा निःकामं शिवं भजतामेवाल्पप्रसाद्यः शिवः प्रसन्नो भूत्वा ब्रह्मविद्यादानपूर्वकं वैष्णवधर्मोपदेश- पूर्वकं वा मुक्तिं प्रयच्छति, न तथा सकामानाम् । ते यथावत् काम्यं प्राप्य भगवतः प्रच्युता भवन्ति । यतस्ते कृतपुण्यपुञ्जाः । भगवतापि तथैव सकामानां ते यथावत्काम्यं प्राप्य तथैवोक्तं 'चतुर्विधा' इत्यादिना । सकाममपि भगवद्भजनं कर्तारः काम्यं भुक्त्वापि भगवद्भजनमाहात्म्याज्जन्मान्तरेपि तथा संस्कारवन्तो भगवदिच्छां प्राप्य यदा ते निःकामा भूत्वा भगवन्तं भजन्ति, तदा कृतार्था भवन्ति । न त्वेवं शैवाः ॥ १४ ॥ एवं विष्णुशिवयोः भजतां प्रत्येकं सर्वथा भोगमोक्षाप्रदाने दानशक्तिरपगता भविष्यतीत्याशङ्क्य पक्षान्तरमाहुः अत इति । अतः प्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयत्वं तदाश्रयः ॥ १५ ॥