भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 153, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 153

श्रीकृष्णाय नमः । सिद्धान्तमुक्तावली । श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥ १ ॥ नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥ स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति । फला- त्मकनामोक्त्या स्वतः पुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानामरुशेषाणां सहजदासत्वं ज्ञापितम् । अत एव न कर्मणीवात्र कालपरिच्छेदोस्तीत्याहुः सदेति । आवश्यकार्थण्यत्प्रत्ययान्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राणनाथेन गीतं ‘ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद’ मित्यादिना ॥ १ ॥ श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी । यद्वाञ्छयैव मोक्षान्ताः पुमर्था अधरीकृताः । स कोऽपि पितृपादाब्जरेणुर्मह्यं प्रसीदतु ॥ १ ॥ अग्रे वक्ष्यमाणैरिति । मायिकं सगुणमित्यादिभिरित्यर्थः । तत्र परस्परविरोधस्य स्पष्टत्वात् । साक्षाच्छ्रुतिनिरूपितं वक्ष्यामीति विशब्दार्थः । तस्यैव स्वकीयत्वज्ञापनाय स्वपदम् । अशेषाणामिति । आसुरव्यतिरिक्तानामशेषाणामित्यर्थः । अत एव भगवता गीतं ‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति’मिति । न हि दासः कदापि प्रभुं न प्राप्नोतीति तथार्थ उक्तः । ननु मानससेवायाः सर्वात्मपरत्वे को हेतुरिति चेत्तत्राहुः फलरूपेति । फलरूपत्वमेव विवृतं यथा व्रजसी- मन्तिनीनामिति । एतत्प्रकारातिरिक्तप्रकारमानससेवायाः फलरूपत्वाभावात् तत्परत्व- मुक्तमिति भावः । सर्वात्मभावस्य मनोधर्मत्वात्तत्पूर्विकायास्तस्या मानसीत्वमुक्तमिति न काचित्क्षतिः ॥ १ ॥ १. विनिश्चितमिति पाठः । २ काले इति पाठः ।