भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 154, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 154

२ सिद्धान्तमुक्तावली । एतदेव सेवास्वरूपमित्याहुः चेत इति । चेतस्तत्प्रवणं सेवा तत्सिद्धयै तनुवित्तजा । ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥ उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्वा अन्येन पुरुषेण कृत्वा कारि- तैका । एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं पदम् । एतेन भगवदर्थं निरुपधिक्सर्वस्वसंनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते सा भवतीति भावः । एतादृशस्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममतात्मकः संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति- माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥ इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति । परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् । द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥ यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतत्रितयात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त- दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः, इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति । कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म । तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन श्रीमद्गोकुलनाथकृतविवृतिटिप्पणी । नन्वेवमाधुनिकैस्तादृशाधिकाररहितैस्तन्मार्गप्रवर्तकाचार्योक्तप्रकारेण क्रियमाणसे- वाया अनुपयोगमाशङ्क्याहुः उक्तसेवासाधने इति । तेषां तादृशाधिकाराभावेपि तदुक्तप्रकारेण क्रियमाणत्वात्पूर्वोक्तमेव फलं सम्भवतीत्यर्थः । यथा चैतत्तथा भक्तिहंसे विस्तृतं पितृचरणैरिति नात्र विस्तरः ॥ २ ॥ सच्चिदानन्दकमित्यस्यापि पुरुषोत्तमपरत्वव्यावृत्त्यर्थमाहुः कप्रत्ययेनेति । कुत्सार्थे कप्रत्ययः । कुत्सात्र हीनता, तेनागणितानन्दात् गणितः एव स हीन एवेति स्पष्टमेवाक्षरपर- त्वमिति भावः । पूर्वपदे परब्रह्मपदप्रयोगादत्र बृहत्पदप्रयोगादप्यस्य पदस्याक्षरपरत्वमिति ज्ञायते, अन्यथा परब्रह्मबृहत्पदाभ्यां पौनरुक्त्यं स्यात्, पूर्वपदे परपदं च न स्यादित्यर्थः ।

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 154, कुल 408 में से · BharatKosha