षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 188, कुल 408 में से
संदर्भ में पढ़ें३६ सिद्धान्तमुक्तावली । श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । अत्रेदं सिद्धम् । (यस्य भगवति कृष्णे परब्रह्मत्वेन ज्ञानं भगवदनुग्रहेण दृढम्, तथा विश्वासो भक्तिश्च स्वतःसिद्धा, तस्य) अस्मिन् शास्त्रे तनुवित्तजा सैवैव प्रथमं साधनम् । सा चेन्निबन्धोक्तप्रकारिका भवति, तदा लौकिकविषयवैराग्यादिना संसारदुःखं निवर्तयन्ती भगवदधिष्ठानत्वेनाक्षरं बोधयन्ती 'चेतस्तत्प्रवणं सेवे'त्युक्तसर्वात्मभावरूपां मानसीं साधयति । तस्याः सम्पत्तौ च बहिर्भगवत्प्राकट्ये भगवदेकतानतातः कामचारो भवति, (नान्यथा । अतः साधनसेवां कुर्वता ब्रह्मवादेन भगवति बुद्धिर्विधेयेति मुख्या आद्यसाध- नकक्षा १) एषैव निबन्धे 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः पर' इति सावतारणिकया कारिकयोक्ता । तस्यां च स्वस्य सेवकत्वेन ज्ञानमेवोपयोगीति च । अत्रानधिकारे तु मर्यादापुष्टस्य विविक्तं जीवस्वरूपज्ञानमावश्यकम् । तस्मिन् सति शुद्धस्य स्वात्मनोऽक्षर- ब्रह्मात्मकत्वे स्वस्मिन्नन्तरेव भक्त्या कृष्णं पश्यति । तेनाग्रे पुरुषोत्तमसायुज्यमिति मध्यमा साधनकक्षा । तेन तादृशा सेवां कुर्वता जीवभगवत्स्वरूपयोर्ज्ञानार्थं पूर्वं यतनीयम् । यस्या- त्राप्यनधिकारः, स संसारी स्वशरीरपुत्रवित्तादिष्वभिमानवान् । स तु सेवां कुर्वन् भगवदुपयोगिपदार्थालाभेन दुःखभाग्भवति । तेन सम्यक्सेवानिर्वाहो न भवतीति तेन संसारासक्तिनिवारणार्थं स्वप्रतिष्ठस्य लीलाविशिष्टस्य भगवतश्चिन्तनं विशेषेण कार्यमिति तृतीया जघन्या कक्षा । यस्य पुनः संसारिणो लोकार्थिता न निवर्तते, स चेद्भगवत्सेवां यथोक्तप्रकारेण तनुवित्ताभ्यां करोति, तस्य परीक्षार्थं प्रारब्धभोगार्थं वा प्रभुकृतेन विल- म्बेन संसारविषयालोकादेव क्लेशो भवति, तथापि चेत्सेवां न त्यजति, तदा आसक्तिविषयो लोको नश्यति । तादृगधिकारी चेत्पुष्टिमार्गीयः, तदा तेन श्रीभागवतपाठश्रवणपरतया स्थित्वा यत्र कुत्रचिद्देशविशेषे पूजोत्सवादिकं कर्तव्यम् । मर्यादामार्गीयश्चेत्, गङ्गातीरे स्थित्वा तेन श्रीभागवतश्रवणपठनावृत्तिर्यथाधिकारं कर्तव्येति चतुर्थी कक्षा । तयोरु- भयोरपि यथाधिकारं स्वल्पेन महता वा क्रमेण तत्प्रवणं चेतश्चेत् यथाधिकारं सिध्यति । तस्य वैकुण्ठादिषु सेवौपयिकदेहप्राप्तिः फलति, न तु सायुज्यम् । यस्य तु तन्वादिभिः सेवाकरणे भक्तिरपि न भवति, स तु पञ्चमः आरूढपतितो जन्म प्राप्नुवन् संसाराभि- निवेशशैथिल्ये बहुजन्मभिर्मुच्यते । संसारात्यन्ताभिनिवेशे तु मुक्तिरपि न भवतीति । तस्मात्संसारावेशं त्यजता भक्त्यर्थं तनुवित्तजसेवायां पूर्वं यतनीयमिति । (तत्रायं प्रकारः । तन्वादिभिः सेवां कुर्वतोऽधिकारभूतमात्मनिवेदनमावश्यकम् । तत्कृत्वा सेवाकरणे पूर्व- दोषनिवृत्तिः, अग्रिमदोषासंसर्गश्च । सिद्धान्तरहस्योक्तरीत्या असमर्पितवर्जनादिरूपं बहिरंगं साधनं संपत्ताववश्यं करणीयम् । आपत्तौ तु नवरत्नोक्तरीत्या करणीयम् । भगवदपराधे १. इति मुख्याधिकारिणः फलपर्यन्ताः कक्षाः । यस्य तु न तादृशोऽधिकारः, तेन तु भगवति परब्र- ह्मत्वज्ञानार्थं साधनसेवां कुर्वता ब्रह्मवादेन भगवति बुद्धिर्विधेया । अतः पूर्वोक्तरीत्या सैव कार्येति ततः किञ्चिन्न्यूना साधनकक्षेति पाठान्तरं भाति ।