षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 189, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता। ३७ श्रीमत्पुरुषोत्तमकृतविवृतिप्रकाशः । जाते त्वन्तःकरणप्रबोधोक्तरीत्या भावनीयम् । विवेकधैर्याश्रयोक्तरीत्या विवेकादिरपि संपादनीयः । ततो विश्वासे दृढे सति भक्तिवर्धिन्युक्तरीत्या भक्तिबीजस्य दार्ढ्यं संपाद- नीयम् । अदृढबीजभावे तु निबन्धोक्तरीतिकपूजा परिचर्यादिभिः, नामावलीपाठेन च प्रेमा- सक्तिव्यसनानि संपादनीयानि । ततो व्यसनदार्ढ्ये सिद्धे प्रेम्णि दृढे जाते च संन्यास- निर्णयोक्तरीत्या त्यागो विधेयः । तत्रानधिकारे तत्र प्रतिबन्धे वा भक्तिवर्धिन्युक्ता अनु- कल्पा विधेयाः । ततो भगवत्प्रसादे निरोधलक्षणोक्तरीत्या निरोधोत्कर्षसिद्धिः । ततः फल- सिद्धिरिति तच्चरणदासैर्विभावनीयम् । अन्येपि ग्रन्था अत्रैव शेषत्वेन यथासंभवं योज- नीया इति दिक् ।) इति श्रीप्रभुपादाम्जैः प्रसादप्रेरणादिह । स्वीयसिद्धान्तवाङ्माला कृपया संप्रकाशिता ॥ १ ॥ इति श्रीमद्वल्लभाचार्यचरणैकतानस्य श्रीविठ्ठलेशप्रसादप्राप्तदृशः पीताम्बरात्म- जस्य पुरुषोत्तमस्य कृतौ श्रीमदाचार्यसिद्धान्तवाङ्मालाप्रकाशः संपूर्णः ॥