षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 198, कुल 408 में से
संदर्भ में पढ़ें४६ सिद्धान्तमुक्तावली । आत्मानन्दसमुद्रस्थं कृष्णमेव विचिन्तयेत् । लोकार्थी चेद्भजेत्कृष्णं क्लिष्टो भवति सर्वथा ॥ १६ ॥ क्लिष्टोऽपि चेद्भजेत्कृष्णं लोको नश्यति सर्वथा । आत्मविषय उच्यत इति शेषः । जीवा ह्यणवोऽक्षरात्मकाः, तदात्मकत्वमविद्यया- न्तरायभूतया न विदन्ति । तेन संसारमापद्यन्ते । इदमेवोपाधिरूपत्वं तस्याः, न तु तत्कृतं जीवत्वम् । अणुत्वबोधनार्थं दृष्टान्तः । व्योम्नि यथोपाधिभिः क्षुद्रैः छिद्राणीव प्रतीयन्ते, तथात्मनि क्षुद्रत्वादयो धर्माः प्रतीयन्ते, न तु ब्रह्मधर्मा इति बोधनार्थं च । उपाधिनाश इति । तेषां मध्ये यं जीवं येन प्रकारेण प्रभुरुदिधीर्षुर्भवति, तत्प्रकारकगुरूपदेशादिभिरवि- द्यालक्षणोपाधेर्ब्रह्मात्मकत्वावबोधनप्रतिबन्धकस्याविद्यात्मकस्य नाशे ब्रह्मात्मकत्वावबोधन- लक्षणे विज्ञानेऽनुभवे सम्पन्ने पुरुषोत्तमाविर्भावयोग्यता जातेति तस्मिन् जाते स्वात्मनि तं प्रकर्षेण पश्यतीत्यर्थः । तस्य सर्वस्वरूपो हरिरेवेति न तदतिरिक्तमपेक्षते । भजनोपयोग्यथी- पेक्षायामपि प्रभुणेव सर्वं सम्पद्यत इति न कदाचिद्दुःखी भवति । एतज्ज्ञापनार्थं दृष्टान्तः । ( गङ्गातीरस्थित इति । यद्वद् यथा गङ्गातीरस्थितस्तत्र प्रवाहमध्ये देवतामाधिदैविकीं श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । प्रकारं अहंममतान्निवृत्तिप्रकारं स्वात्मन्यक्षरब्रह्मात्मकत्वे ज्ञानं चाहुरित्यर्थः । चतुर्षु मध्ये प्रपञ्चेऽक्षरत्वेन ज्ञानं पूर्वजन्मन्यपेक्षितत्वेनोक्तमिति भावः । तदात्मकत्वमिति । अक्षरात्मकत्वम् । इदमेवेति । अज्ञानजनकत्वमेवेत्यर्थः । येन प्रकारेणेति । त्रिविधमिश्र- पुष्टिमध्ये येन प्रकारेण । अविद्यालक्षणोपाधेरिति । अविद्याः स्वरूपाज्ञानादिपञ्च- पर्वाणि लक्षणानि वृत्तयो यस्योपाधिर्मूलाविद्यात्मकस्येत्यर्थः । ब्रह्मात्मकत्वेति । येन प्रकारेणोदिधीर्षा, तत्प्रकारक एव गुरूपदेशोपि संपन्नो भवति, तेन ब्रह्मात्मकत्वमपि तत्प्रकारकमेव भवति । यादृशी लीला अनुभावयिता प्रभुर्भवति, तादृशलीलाधिष्ठानत्वं स्वस्मिन्ननुभवतीत्यर्थः । तस्मिन्निति । पुरुषोत्तमाविर्भावे जाते सतीत्यर्थः । स्वात्मनीति । ज्ञानमार्गे गुहायां परमव्योम्नि लीलाविशिष्टपुरुषोत्तमाविर्भावः । भक्तिमार्गे त्वात्मन्येव तदाविर्भाव इति स्वपदम् । अयमेव च प्रकर्षः । तं लीलाविशिष्टं पुरुषोत्तमं पश्यतीत्यर्थः । इदमेव निवेदनाङ्गभूतं दर्शनं ज्ञेयम् । तस्य स्वात्मनि पुरुषोत्तमदर्शनवतः । तदतिरिक्तं भगवदतिरिक्तम् । अर्थापेक्षायां जलाद्यपेक्षायाम् । प्रभुणेव सर्वमिति । अक्षरात्मकाधिष्ठानभूतजलाभावेपि पुरुषोत्तमात्मकलीलासृष्टिस्यजलाविर्भावो भवतीत्यर्था- भावप्रयुक्तं दुःखं कदापि न भवतीत्यर्थः । एतज्ज्ञापनार्थमिति । स्वपदस्य ज्ञानिभक्तवि- भेदसूचकत्वज्ञापनार्थमित्यर्थः । स देवतां तत्र गङ्गायामेव पश्यति, तथायमपि स्वस्मिन्नेव १. न तु ब्रह्मधर्मबाधनार्थमितिपाठः ।