भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 199, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 199

श्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ४७ ता पश्यति, तथा ज्ञानी स्वस्मिन् आत्मनि परं ब्रह्म कृष्णं पश्यति, परं भक्त्येति विशेष उभयत्र ज्ञातव्यः । तदभावे तु दर्शनमपि दुर्लभम्, कुतस्तरां भजनमिति भावः । 'भक्त्या या दृश्यते काचि'दिति पूर्वमुक्तत्वात् 'भक्त्याहमेकया ग्राह्य' इति प्रभुवचनाच्च । ननूक्त- प्रकारकज्ञानाभावेपि लोके भजनं दृश्यते, तत् कथमित्यपेक्षायामाहुः संसारेति । ) यस्तु प्रपञ्चासक्तो गुरूपदेशमात्रेण भजते, संसारनिवृत्तिहेतुत्वं ज्ञात्वा भजते, न तु ब्रह्म- भावसम्पत्त्या, पुरुषोत्तमाविर्भावाभावात्, स तु गङ्गातो दूरस्थो यथा तां भजते, तत्रापेक्षि- ततज्जलाप्राप्त्या दुःखी भवति, तथा अयं भक्तिमार्गस्थ इति साक्षात्स्वरूपसम्बन्ध्यर्थापेक्षायां तदप्राप्त्या क्लेशभाग्भवतीत्यर्थः । तथापि न स भजनं त्यजति, अङ्गीकारात्प्रभोः । अनङ्गी- कारे तु मध्ये भजनप्रतिबन्धेपि कृतभजनवैयर्थ्यासम्भवाज्जन्मान्तरे तत्फलिष्यतीति ज्ञेयम्। (तेन प्रवाहभक्तिमार्गीयोऽयं निरूपितः, अन्यथा मध्येऽनङ्गीकारः, तेन भजनप्रतिबन्धादिकं न स्यात् । ननु पुष्टिमार्गं परित्यज्य किं तत्कथनेनेत्याशंक्याहुः तस्मादिति । यस्मात् प्रवा- हस्थभक्तेऽप्येवमङ्गीकारः प्रभोः, यज्जन्मान्तरेपि तं न त्यजति, तस्माद्धेतोः श्रीकृष्णमार्ग- स्थः पुष्टिमार्गस्थः सर्वलोकतोपि मुक्तो भिन्नो विशिष्टश्चेत्यर्थः । सर्वपदात् ज्ञानितः प्रावा- श्रीविठ्ठलेशामजश्रीवल्लभकृतविवृतिप्रकाशः । कृष्णं पश्यतीति मूलार्थः । ज्ञानी स्वस्मिंस्तादृशाक्षरत्वज्ञानवानित्यर्थः । यस्त्विति । तुशब्देन लीला सृष्टि विशिष्ट पुरुषोत्तमाविर्भाववतो व्यावृत्तिः । पुरुषोत्तमाधिष्ठानत्वेन प्रपञ्चज्ञानवान् प्रपञ्चासक्तः । स एव संसारी । न त्विति । तत्राप्येतदिहोच्यत इति संदर्भेणोक्तस्ताव- न्मात्रवान् । अवशिष्टत्रितयरहित इत्यर्थः । स त्विति । इदं पदं 'क्लेशभागभवती'त्यनेन सम्बध्यते । भक्तिमार्गस्थ इति । भजनाकांक्षा प्रतिपादिता । साक्षादिति । सत्य भजनोपयोगिजलाद्यपेक्षायां कदाचित्परीक्षार्थं प्रारब्धभोजनार्थं वा प्रभुश्चेद्विलम्बते तदा तदधिष्ठानभूतजलाद्यभावेन लीलासृष्टिस्थपुरुषोत्तमात्मकजलाद्यप्राप्त्या क्लेशभाक् भव- तीत्यर्थः । ननु सर्वस्यापि सेवोपयोगियावदर्थाप्राप्त्योद्वेगहेतुक्लेशभाक्त्वस्य सिद्धत्वा- त्तेन न सेवानिर्वाह इति चेत्, सत्यमित्याशयेनाहुः तथापीति । अङ्गीकारात् पुष्टि- पुष्टावङ्गीकारात् । अङ्गीकारेण प्रतिबन्धककृतः प्रतिबन्धो न भवतीत्यर्थः । अङ्गीकारे च भजनत्यागाभाव एव मानम् । अनङ्गीकार इति । पुष्ट्यंशे मर्यादास्थिल्या, पुष्टिपुष्टा वनङ्गीकारे तु मध्ये मध्ये प्रतिबन्धककृतौ भजनप्रतिबन्धो भवति, तदा द्वितीयजन्मनि तद्भजनं फलिष्यति । निर्वक्ष्यतीति ज्ञेयमित्यर्थः । कृतभजनेति । भजनस्य फलं भजनमेव । भजननिर्वाह इति यावत् । तदभावासंभवादित्यर्थः । मूले तस्मादिति । यतो हेतोस्त्रितय- रहितस्तत्तदधिष्ठानापेक्षो दुःखभाक् तस्माद् हेतोः शुद्धपुष्टिमार्गस्थः सर्वलोकतो विमुक्त- श्रतुष्टयमपि संपाद्याधिष्ठानापेक्षारहितः तथाविधं कृष्णमेव विशेषेण चिन्तयेदिति संबन्धः । श्रीकृष्णोति । रसात्मकनामोक्तेः । पुष्टीति । पुष्टिमार्गीयभक्तेषु प्रकटिता ये तथाविधा

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 199, कुल 408 में से · BharatKosha