भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 200, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 200

४८ सिद्धान्तमुक्तावली । हिकभक्तः, कैमुतिकन्यायेन साधारणलोकतश्चेति ज्ञेयम् । ज्ञानिनः संसाराभावात् संसा- रिणो ज्ञानाभावेन दुःखभाक्त्वम् । पुष्टिमार्गस्यैव प्रभुस्वरूपं ज्ञात्वा सर्वस्वनिवेदनपूर्वकं सर्वा- त्मभावेन भजनं स्वप्नेपि दुर्लभम् । पुष्टिमार्गीयस्य प्रभ्वनुग्रहैकनियम्यत्वात् सर्वमुपपद्यत इति ततो वैशिष्टयम् । एतावत्सर्वं श्रीकृष्णमार्गस्थपदेन द्योतितम् । अतः सर्वमवदातम् । ननु वित्ताद्यभावे पुष्टिमार्गीयस्यापि भजनासंभवे दुःखित्वात् कथमुक्तवैशिष्ट्यमित्यपेक्षायामाहुः ) आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितनिरवध्यानन्देषु विहरन्त- मित्यर्थः । ते तु व्रजरूपात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त एव । अत आत्मपदं भगवत्परम् । ( बहिरसंभवेप्यन्तरेवं भजेत् । अतो नोक्तानुपपत्ति- रिति भावः । ननु कश्चिज्जीविकार्थमपि भजते, तस्य का गतिरित्यत आहुः लोकार्थी- ति । लोकपदेन लौकिकोऽर्थ उच्यते, तदर्थी चेत् कृष्णं भजेत्, तदा व्यापारवदर्थे सिद्धे तस्याप्यनर्धरूपत्वेन तत्कृतभजनस्य भक्तित्वाभावात् तत्कृतं सर्वं क्लेशरूपमेव । अतः क्लिष्टो भवतीत्यर्थः । न केवलमैहिकः क्लेशः, किन्तु परलोकोपि नश्यति, निषि- द्धाचरणादिति सर्वथेत्युक्तम् । यस्य स्वल्पमपि ज्ञानम्, स नैवं करोति, सर्वथा तद्रहितः कश्चिदेवं कुर्यादपीति चेदित्युकम् । अत्र मूलनामोक्तिर्भजनकर्तुरभिप्रायेण, अन्यथा तदसंभवात् । तर्हि लोकार्थित्वाभावेपि तद्रहितस्य भजनासंभवात् को विशेष इत्यत आहुः क्लिष्टोपीति । लौकिकार्थिभावेन क्लिष्टोपि गीतायां नवमेऽध्याये 'पत्रं पुष्पं फलं तोय'मिति वचनात् कृष्णं चेत् भजेत्, तदा यथासंभवं भजनमर्थादेव सिध्यति, परं लोको नश्यति । लौकिकं न सिध्यति, न तु स्थितं नश्यति, भजनसिद्धौ न तावता कापि हानि- रिति भावः । भगवतस्तथेच्छेति सर्वथेति निरूपितम् । चेदिति तथा भजनमशक्यमिति ज्ञापनाय ) ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ श्रीविठ्ठलेशात्मजश्रीवल्लभकृतविवृतिप्रकाशः । आनन्दास्तेषु । तद्दत्त इति । भगवद्दत्तः । अत इति । तथाविधानन्दस्य स्वरूपात्मकत्वादेव । अनेन चिन्तनरूप आत्मनिवेदनाङ्गभूतः स्नेह उक्तः । कृष्णमेवेत्येवकारेण मुख्या प्रेमलक्षणा भक्तिरुक्ता । मूले लोकार्थीति । लोकसिद्धा लौकिका येऽर्थास्तद्वान्, प्रपञ्चत्वेनैव प्रपञ्च- ज्ञानवानित्यर्थः । स यदि लौकिकार्थेनैव कृष्णसेवां कुर्यात्, तदा स प्रारब्धाधीन इति तत्तदधिष्ठानाप्राप्त्या सर्वथा क्लिष्टो भवति । तस्य प्रवाहमिश्रत्वे सर्वथा भजनत्यागो भवति, ततो बहुभिर्जन्मभिस्तत्सिद्धिः । पूर्वोक्तः संसारी तु प्रारब्धाधीनः । परीक्षार्थं प्रार- ब्धभोजनार्थं वा प्रभुश्चेद्विलम्बते, तदा तदप्राप्त्या कदाचित् दुःखभाग् भवति । 'स्वस्मिन् ज्ञानी प्रपश्यती'त्युक्तस्तु चतुष्टयवानधिष्ठानानपेक्षः कदाचिदपि दुःखी न भवतीति विभाग इति भावः । पुष्टिमिश्रस्य प्रकारमाहुः क्लिष्टोपीति । तादृशोपि चेद्भजेत्, तदा लोको नश्यति । लोकः स्वत एव दर्शनविषयो न भविष्यतीत्यर्थः । भजनात्यागज्ञापिताङ्गीकारेणैव तत्सिद्धिरिति भावः ।