षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 201, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ४९ स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः । उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति । ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७ ॥ मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः । अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥ उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यति । ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९ ॥ (पुष्टिमार्गी पूजोत्सवादिषु तिष्ठेत्, पुष्टिपुष्टिमार्गे पूजापदं तस्य ज्ञानाभावात् प्रथम- प्रवृत्त्यभिप्रायेणोक्तम् । मनसस्तन्निष्ठतायां कृतिरथैव सिध्यतीति तत्कुर्यादित्यनुक्त्वा तत्र तिष्ठेदित्युक्तम् । मर्यादायां प्रकारान्तरमाहुः मर्यादास्थ इति । गङ्गायां गङ्गासमीपे श्रीभागवततत्परस्तिष्ठेदिति पूर्वेण सम्बन्धः । उभयोरन्यतरधर्मव्यावृत्त्यर्थं तुशब्दः । तत्र भेदकं किमित्याकाङ्क्षायां) पुष्टिमार्गीये विशेषमाहुः अनुग्रह इति । तस्य स्थितौ न देशनि- यमः, किन्तु प्रभोरनुग्रह यत्रैव यथा स्थापयति, तत्रैव तिष्ठति तथा । तस्य विधिर्न निया- मक इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि- मार्ग प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः, तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति । श्रीविट्ठलेशात्मजश्रीवल्लभकृतविवृतिटिप्पणी । टीकायाम् स्वस्वरूपेति । पुरुषोत्तमाधिष्ठानत्वेन स्वस्वरूपज्ञानं, तत्राधि- ष्ठितत्वेन च प्रभुस्वरूपज्ञानं ज्ञेयम् । पूर्वोक्तः संसारीत्यर्थः । पुष्टिमर्यादेति । विशेषणभूतैतद्द्वयभेदेनेत्यर्थः । प्रवाहस्थस्तु लोकार्थीयैर्नोक्त इति भावः । मूले पूजोत्सवादिष्वितौ येषु तेषु भगवद्धर्मेष्वित्यर्थः । मर्यादामिश्रस्तु जन्मान्तरे नित्यभजना- र्हेदेहसिद्ध्यर्थं गङ्गायां तिष्ठेदित्याहुः मर्यादास्थस्त्विति । पुष्टिमिश्रस्य त्वनुग्रहो नियामको नित्यभजनसाधकः, अतो योग्यदेहापेक्षाभावात्स्थितिस्यलानाग्रह इत्याशयेनाहुः अनुग्रह इति । टीकायां मर्यादास्थाविति । मर्यादामिश्रपुष्टिस्थावित्यर्थः । ब्रह्मज्ञानेन पराप्राप्तिमान् ज्ञानी, तद्भिन्नैव तद्वान् भक्त इति ज्ञेयम् । विशेषत इति । मर्यादामशे पुष्ट्यंशं योजये- चेत्, तदादौ योग्यदेहात् पूर्वमेव पुष्टिस्वरूपमार्गप्राप्त्यर्थः । पुष्टिप्तिर्भंगवत्कृततद्धो- जनेन भवतीति भावः । तन्मार्गीयां भक्तिं आत्मनिवेदनाङ्गस्नेहं प्रेमलक्षणां भक्तिं वा । इदमेव मूले पूर्वोक्तपदेन ग्राह्यम् । उभयोरितीति । उभयोर्मर्यादापुष्टिस्थज्ञानिभक्तयोः । मर्यादायामेवेति । मर्यादाभेदेष्वित्यर्थः । एवकारः पुष्टिभेदव्यवच्छेदकः।एवं निरूपण इति । ७ सि० मु०