षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 204, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः । सिद्धान्तमुक्तावली । श्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । प्रणम्य पितृपादाब्जपरागमनुरागतः । कृपया विशदीकुर्मस्तद्वाङ्मुक्ताफलावलीम् ॥१॥ नत्वा हरिं प्रवक्ष्यामि स्वसिद्धान्तविनिश्चयम् । कृष्णसेवा सदा कार्या मानसी सा परा मता ॥ १ ॥ स्वसिद्धान्तेति । अग्रे वक्ष्यमाणैर्बहुभिर्मिथो विरुद्धैः सिद्धान्तैः शास्त्रार्थसन्देहे तन्निरासाय स्वसिद्धान्तरूपं शास्त्रार्थनिश्चयं वक्ष्यामीत्यर्थः । तमेवाहुः कृष्णसेवेति । श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । श्रीकृष्णाय नमः । प्रणम्येति । अत्र नमने प्रकर्षो भक्तिमार्गीयत्वम्, तच्च सुसे- व्यत्वज्ञानपूर्वकत्वे सति भक्तिकारणकत्वम्, तदेव भक्तिमार्गीयतावच्छेदकद्वयं प्रकटयन्ति पितृपादाब्जेति । पितृपदं भक्त्यनपेक्षपुत्रवात्सल्यबोधकम् । हृदयाविष्टस्य घनीभूता- नन्दरूपपादस्य परागस्तस्मात् स्रुत आनन्दः । भगवच्चरणारविन्दे हृदये समागते य आन- न्दोऽनुभूयते तत्स्वरूप इत्यर्थः । तथा च पितृपादाब्जपरागमित्यनेन सुसेव्यत्वज्ञानरू- पमवच्छेदकमुक्तम् । अनुरागत इत्यनेन भक्तिरूपं द्वितीयमवच्छेदकमुक्तम् । एतादृशन- मनाभिव्यञ्जितपदार्थमाहुः कृपयेति । भगवद्धर्माणां नित्यत्वादभिव्यक्तेरेवाङ्गीकारात् कृपायास्तथात्वमिति मन्तव्यम् । अत एवासाधारणकारणतया तदुक्तिः । तादृशनमनोपकार- सिद्धां तत्कृपामाहुः, नमनस्य करणत्वं तत्क्रियासिद्धौ प्रकृष्टोपकारकत्वादिति भावः । स उपकारः, तत्सिद्धां कृपामित्यर्थः । कृपया ग्रन्थवैशद्यकरणकथनेन स्वपितृचरणानां वागधिपतित्वमप्युक्तम्, तत्कृपाया एव तथाकरणसामर्थ्यात् । नमनजन्यपदार्थमाहुः विशदीकुर्म इति । वैशद्यं स्फुटीभावः । किमित्याकांक्षायामाहुः तदिति । तद्वाङ्गिष्ठमु- क्ताफलरूपार्थराशिमित्यर्थः । मुक्ताफलपदस्य कल्पनाद्वृत्त्यार्थबोधकत्वम् । सादृश्यं च नैर्मल्यसामान्यधर्मेण । नैर्मल्यं चात्र प्रोज्झितकैतवत्वम् । वाच एव मुक्ताफलानीत्ययं पक्षस्तु अन्यार्थस्यैव स्फुटभावं प्राप्तत्वादसंभवग्रस्तः । वाग्वैशद्यं तु व्याकृतावुच्चारणे चैव प्रसिद्धम् । मूले स्वसिद्धान्तेति । स्वसिद्धान्तस्य अयमेव शास्त्रार्थ इति विशेषेण निश्चयो यस्मात् तादृशं ग्रन्थरूपं निश्चायकं वाक्यम् । इदं च प्रतिज्ञावाक्यम् । महावाक्यमाहुः कृष्णसेवेत्यादि । टीकायां अग्र इति । अस्मिन्नेव ग्रन्थे'मायिकं सगुणं कार्य'मित्यादि- भिर्वक्ष्यमाणैः । शास्त्रार्थस्य गीताभागवतार्थस्य । तन्निरासाय शास्त्रार्थसन्देहनिरासाय ।