षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 205, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५३ फलात्मकनामोक्त्या स्वतःपुरुषार्थत्वेन सेवाकृतिः स्वसिद्धान्तो, न त्वन्यशेषत्वेनेति ज्ञाप्यते । सेवा हि सेवकधर्मः । तदुक्त्या जीवानांमशेषाणां सहजदासत्वं ज्ञापितम् । अत एव न कर्मणीवात्र कालपरिच्छेदोस्तीत्याहुः सदेति । आवश्यकार्ण्यप्रत्यया- न्तकार्यपदोक्त्या तदकरणे प्रत्यवायी भवतीति भावो ज्ञाप्यते । सा च फलरूपा साधनरूपा चास्ते । तत्र मानसी सा परा फलरूपेत्यर्थः । यथा व्रजसीमन्तिनीनाम् । तदेव तत्प्राण- नाथेन गीतं 'ता नाविदन्मय्यनुषङ्गबद्धधियः स्वमात्मानमदस्तथेद' मित्यादिना ॥ १ ॥ श्रीरघुनाथात्मजश्रीब्रजनाथकृतविवृतिटिप्पणी । सन्देहस्वरूपं तु स्वयमेवाग्रे वक्ष्यन्ति स्वेति । एतन्निरूपकशास्त्रार्थस्य निश्चयो यस्मात्त- मित्यर्थः । फलात्मकेति । फलरूपस्य तस्य स्वतः पुरुषार्थत्वधर्मावच्छिन्नसेवाकृतिः स्वसिद्धान्तः । फलसेवनं हि स्वतः पुरुषार्थः इति, अत एव धर्मार्थयोः काममोक्षद्वारा पुरुषार्थता । काममोक्षयोरेव साक्षात् सुखहेतुत्वात् स्वतः पुरुषार्थत्वम्, 'पुंप्रीतिहेतुर्हि पुरुषार्थ' इति जैमिनिसिद्धान्तात् । यथा कामिन्याः । स्वतःपुरुषार्थत्वेन । कामप्रयत्न- योरेकविषयत्वेनेत्यर्थः । ननु एवं 'मानसी सा परे'त्यनेन मानस्याः सेवायाः फलत्वेन वक्ष्यमाणत्वात् तदर्थत्वमेवैतत्सेवायाः सिध्यति, न तु स्वतःपुरुषार्थत्वम्, किन्त्वन्यशे- षत्वमेवेति चेत्, तत्राहुः न त्वन्येति । यत्र विजातीयफलार्थत्वं तत्रैवान्यशेषत्वम्, यथा विजातीयोर्धर्मार्थयोः शेषशेषिभावः, प्रकृते तस्या एव सेवाया अवस्थाभेदेन मानससे- वारूपफलत्वेन विजातीयत्वाभावाददोष इति भावः । नन्वेवं मानससेवारूपमोक्षजनकतया सेवाकृतिरित्यागतम्, तत्र मोक्षजनकता तु भगवत्संबन्धेनैवावच्छिद्यते इति भगवद्विषयकं कामक्रोधादिकं ज्ञानमेव वा तत्साधनमस्तु, किं नूतनसेवाविधानेनेत्यत आहुः सेवा हीति । स्वधर्मत्वात् सेवाकृतिरुचिततरैव । किञ्च, सेवोक्त्या च जीवानां दासत्वं ज्ञापि- तम् । सहजेति । अत्र सहजातमिति विग्रहस्तज्जातपदं सत्तापदं, जीवस्य नित्यत्वेन जनना- संभवात् । तथा च सहसत्ताकमित्यर्थः । यथा जीवसत्ता सार्वदिकी, तथा दासत्वस- त्तापि । अत एव जीवस्य सहजदासत्वेन अत्र सेवायां सहजधर्मत्वादेव । कर्मणीवेति । कर्म न सहजधर्मः, तस्यैव जन्मान्तरे शूद्रदेहेऽनधिकारादिति भावः । कालपरिच्छेदोऽ स्मिन् काले न कर्तव्येतिरूपः । सेवायां कालपरिच्छेदत्वादिधर्माभावेपि प्रत्यवायजनकी- भूता भावप्रतियोगित्वरूपधर्मोस्तीत्याहुः आवश्यकऋण्येति । सा चेति । सा पूर्वोक्तैव सेवा । दास्यधर्मविशिष्टा साधनरूपा, सर्वांशेन कृष्णसंबन्धविशिष्टा फलरूपा । मानसी सेवा । यथेति । यथा यत्प्रकारिका सेवा व्रजसीमन्तिनीनां सिद्धा, सा सेवेति आशयः । तदेव मानससेवायाः स्वरूपमिति । 'मय्यनुषङ्गबद्धधिय' इत्यनेन साधनसेवानुवादपूर्वक- मन्यानुसंधानराहित्यरूपं 'नाविद'न्नित्यनेनोक्तम् । अथवान्यानुसंधानरहितभगवत्येव