षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 206, कुल 408 में से
संदर्भ में पढ़ें५४ सिद्धान्तमुक्तावली । एतदेव सेवास्वरूपमित्याहुः चेत इति । चेतस्तत्प्रवणं सेवा तत्सिद्धयै तनुवित्तजा । ततः संसारदुःखस्य निवृत्तिर्ब्रह्मबोधनम् ॥ २ ॥ उक्तसेवासाधने इतरे इत्याहुस्तदिति । वित्तं दत्वा अन्येन पुरुषेण कृत्वा कारितैका । एतादृशेन पुंसा कृता चापरा । एतादृश्यौ ते तत्साधिके नेत्यभिप्रायज्ञापकं समस्तं पदम् । एतेन भगवदर्थं निरुपधिक्सर्वस्वनिवेदनपूर्वकं तत्रैव स्वदेहविनियोगे प्रेम्णि जाते सा भवतीति भावः । एतादृश्यावान्तरफलं भवतीत्याहुः तत इति । अहन्ताममतात्मकः संसारो, न तु प्रपञ्चात्मकः, तस्य ब्रह्मात्मकत्वात्, तन्निवृत्त्याऽनिष्टनिवृत्तिरुक्ता । इष्टप्राप्ति- माहुरग्रे । स्वात्मनि प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानम् । भगवत्सेवायामभिनिविष्टस्य यद्यप्यनभिलषिते ते, तथापि वस्तुस्वभावाद्भवत इति भावः ॥ २ ॥ श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । निष्ठत्वरूपम् । एतदेव वक्ष्यमाणे उक्तसेवेति । उक्तसेवा मानसी सेवा । इतरे तनु- वित्तजे । एकेति । वित्तजेत्यर्थः । एतादृशेन । वित्तगृहीत्रा पुरुषेण । अपरा तनुजा । तत्साधिके इति । फलरूपसेवासाधिके । तथा चैककर्तृक एव ते तत्साधिके इति भग- वदपेक्षितयावद्द्रव्यसमर्पणरूपसेवा शरीरजभगवद्यावत्सेवा च तत्साधिकेत्यागतम् । तच्च भगवदपेक्षितयावद्द्रव्याभावात्तादृश तनुसामर्थ्याभावाच्चासम्भावितमिव भातीति चेत्, तत्राहुः एतेनेति । एवं सेवाकथनेन । फलाकांक्षारहितयावत्स्वीयद्रव्यादिनिवेदनपूर्वकं कार्यान्तर- विनियोगरहितभगवदर्थस्वदेहविनियोगे भगवत्सेवाकरणे क्रमप्राप्तेप्रेम्णि जाते सा मानसी सेवा । क्रमस्त्वग्रे विवेच्यः । एतादृशस्येति । निवेदितस्वीयसर्वस्वस्य भगवत्सेवाविनियु- क्तस्य पुरुषस्य । तत इतीति । उक्तसाधनरूपसेवाद्ध्वयतः । तन्निवृत्त्येति । संसारनि- वृत्त्या । अनिष्टेति । फलप्रतिबन्धकत्वात् संसारस्यानिष्टत्वम् । ( मूले संसारो दुःखो दुःखजनक इत्यर्थो ज्ञेयः । ) इष्टेति । फलसाधकत्वात् ब्रह्मज्ञानसेष्टत्वम् । स्वात्मनीति । आत्मनि देहेन्द्रियप्राणान्तःकरणेषु । अक्षरब्रह्मात्मकत्वेन ज्ञानमहन्तानिवृत्तौ, प्रपञ्चे चाक्षरब्रह्मात्मकत्वेन ज्ञानं ममतानिवृत्ताविति विभागः । ( भक्त्याक्षरज्ञानं पुरुषोत्तमा- धिष्ठानत्वेन भवतीति तृतीयाध्याये तृतीयचरणे व्युत्पादितम् । तथा चाक्षरब्रह्मात्मकत्वेन ज्ञानं पुरुषोत्तमाधिष्ठानत्वेन ज्ञानमित्यर्थः । स्वात्मनि प्रपञ्चे च भगवदीयत्वेन ज्ञानमिति यावत् । पुरुषोत्तमाधिष्ठानत्वमनुपदमेव विवेक्ष्यते । ) ननु तादृशज्ञानहेतुत्वात् सेवायाः स्वतःपुरुषार्थत्वव्याहतिरितयत आहुः भगवत्सेवायामिति । ते इति । उक्तब्रह्मात्मकत्वज्ञाने । वस्तुत आत्मसमर्पणस्य खभावात् । स्नेहो हि भक्तिः। स च दर्शनं विनान भवतीति नि- बन्धे निरूपितम् । अतः श्रवणं दर्शनं स्नेह इति त्रयं मिलितं एका श्रवणभक्तिर्भवति । ध्यानं तु फलान्तरीय़कत्वात् फलमध्यपाल्येव । एवं नवस्वपि । तथा च ब्रह्मबोधनस्य वक्ष्य- माणरीत्यात्मनिवेदनाङ्गदर्शनयोग्यतासम्पादकत्वात् तत्स्वभावादेव ते ज्ञाने भवत इत्यर्थः ।