षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 207, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विट्ठलेश्वरविरचितविवृतिसमेता । ५५ इदमेव परं ब्रह्मेति न ज्ञेयमित्याहुः परं ब्रह्म त्विति । परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत् । द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् ॥ ३ ॥ यशोदोत्सङ्गलालितो, न त्वन्य इति ज्ञापनाय मूलनामोक्तम् । अत्र भेदकं रूपमाहुः सच्चिदिति । एते हि भगवद्धर्मात्मकाः, प्रकटतत्रितयात्मकमक्षरं ब्रह्म । अत एव प्रपञ्चस्त- दात्मक इति सच्चिदानन्दात्मकत्वं तस्मिन्नुच्यते । एतावान्परं विशेषो, जडे सदंशः प्रकटः, इतरावाच्छन्नौ; जीवे त्वाद्यौ प्रकटौ, आनन्दांशस्तिरोहितः; परमात्मनि त्रयं स्फुटमिति । कप्रत्ययेन गणितानन्दत्वमेव, न तु पुरुषोत्तमवत् पूर्णानन्दत्वमिति ज्ञाप्यते । कृष्णशब्देनैव पुरुषोत्तमस्वरूपं निरूपितमित्यक्षरस्वरूपं निरूपयन्ति द्विरूपमिति । तत् अक्षरं ब्रह्म । तदेव रूपद्वयं विशदयन्ति सर्वं स्यादिति । प्रपञ्चरूपेणाविर्भूतमेकमित्यर्थः । एकं रूपं तस्मात् प्रपञ्चरूपात् एकरूपत्वेन श्रुतिप्रतिपाद्यत्वेन ज्ञान्युपास्यत्वेन तन्मुक्तिस्थानत्वेन पुरुषोत्तमाधिष्ठानत्वादिभिर्विलक्षणमित्यर्थः । न च विरुद्धधर्मैर्भेदोत्र शङ्कनीयः । उभयो- धर्मयोरेकत्र प्रमाणसिद्धत्वेन विरोधाभावात् । विरुद्धधर्माश्रयत्वस्य ब्रह्मणि 'तदेजति श्रीरघुनाथात्मजश्रीब्रजनाथकृतविवृतिटिप्पणी । पूर्वोक्तज्ञानविषयीभूतमेव परं ब्रह्मेति कस्यचिच्छङ्का स्यादिति तां वारयितुमाहुः इदमेवेति । इदं पूर्वोक्तज्ञानविषयमक्षरं ब्रह्म । अत्रेति । अक्षरे ब्रह्मणि । रूपं धर्मः । ननु सच्चिदानन्दकत्वस्य पुरुषोत्तमेपि सत्त्वात् कथं तस्य भेदकत्वं तत्राहुः एते हीति । सच्चिदानन्दाः । तत्रितयं सच्चिदानन्दत्रयम् । अत एव अक्षरस्य सच्चिदानन्दात्मक- त्वादेव । तदात्मक अक्षरब्रह्मात्मकः । तस्मिन् प्रपञ्चे । अत एवेत्यस्य उच्यत इत्यने- नान्वयः । तथा च यतो हेतोरक्षरस्य सर्वकारणरूपस्य तन्नितयात्मकत्वम्, अतस्तत्कार्य- रूपप्रपञ्चस्यापि तत्रितयात्मकत्वमित्यर्थः । एतावानिति । अक्षरब्रह्मणः सकाशात्प्रपञ्चे विशेषः । तमेवाहुः जड इति । इतरौ चिदानन्दौ । आद्यौ सच्चितौ । परमात्मनि अन्तर्यामिणि । ननु भगवद्धर्मीणामपि 'प्रकाशाश्रयवद्वा तेजस्त्वा'दिति न्यायेन भगवत्त्व- मेवेति न भेदसिद्धिरिति चेत्, तत्राहुः कप्रत्ययेनेति । कप्रत्ययस्य हीनार्थकत्वादित्यर्थः । पुरुषोत्तमवदिति । प्रजापतिवद्गणितानन्दत्वम् । कृष्णेति । कृष्णशब्दस्य परब्रह्मवाच- कत्वात् तत्स्वरूपं तेनैव निरूपितम् । इतीति । पुरुषोत्तमस्वरूपनिरूपणाकांक्षानिवृत्ति- पूर्विकाक्षरनिरूपणाकांक्षारूपाद्धेतोः । एतावद्रूपकमक्षरं ब्रह्मेत्यक्षरस्वरूपं निरूपयन्ती- त्यर्थः । द्विरूपमितीति । अत्रैकपदं देहलीदीपकन्यायेनोभयत्रान्वेति । एकरूपत्वेनेति । प्रपञ्चरूपस्य तस्यानेकरूपत्वं तद्भिन्नरूपस्यैकरूपत्वम् । श्रुतिप्रतिपाद्यत्वेनेति । प्रपञ्च- कारणत्वेन । पुरुषोत्तमाधिष्ठानत्वादिभिरिति । लीलाविशिष्टपुरुषोत्तमाधिष्ठानत्वमि-