षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 214, कुल 408 में से
संदर्भ में पढ़ें६२ सिद्धान्तमुक्तावली । हिकभक्तः, कैमुतिकन्यायेन साधारणलोकतश्चेति ज्ञेयम् । ज्ञानिनः संसाराभावात् संसा- रिणो ज्ञानाभावेन दुःखभाक्त्वम् । पुष्टिमार्गस्येव प्रभुस्वरूपं ज्ञात्वा सर्वस्वनिवेदनपूर्वकं सर्वा- त्मभावेन भजनं स्वप्नेपि दुर्लभम् । पुष्टिमार्गीयस्य प्रभ्वनुग्रहैकनियम्यत्वात् सर्वमुपपद्यत इति ततो वैशिष्ट्यम् । एतावत्सर्वं श्रीकृष्णमार्गस्थपदेन द्योतितम् । अतः सर्वमवदातम् । ननु वित्ताद्यभावे पुष्टिमार्गीयस्यापि भजनासंभवे दुःखित्वात् कथमुक्तवैशिष्ट्यमित्यपेक्षायामाहुः ) आत्मानन्दसमुद्रस्थमिति । श्रीकृष्णपदात्पुष्टिमार्गीयभक्तप्रकटितनिरवध्यानन्देषु विहरन्त- मित्यर्थः । ते तु व्रजरूपात्मका इति मन्मतिः । स आनन्दो भगवत्स्वरूपात्मकस्तद्दत्त एव । अत आत्मपदं भगवत्परम् । ( बहिरसंभवेप्यन्तरेवं भजेत् । अतो नोक्तानुपपत्ति- रिति भावः । ननु कश्चिज्जीविकार्यमपि भजते, तस्य का गतिरित्यत आहुः लोकार्थी- ति । लोकपदेन लौकिकोऽर्थ उच्यते, तदर्थी चेत् कृष्णं भजेत्, तदा व्यापारवदर्थे सिद्धे तस्याप्यनर्यरूपत्वेन तत्कृतभजनस्य भक्तित्वाभावात् तत्कृतं सर्वं क्लेशरूपमेव । अतः क्लिष्टो भवतीत्यर्थः । न केवलमैहिकः क्लेशः, किन्तु परलोकोपि नश्यति, निषि- द्धाचरणादिति सर्वथेत्युक्तम् । यस्य स्वल्पमपि ज्ञानम्, स नैवं करोति, सर्वथा तद्रहितः कश्चिदेवं कुर्यादपीति चेदित्युक्तम् । अत्र मूलनामोक्तिर्भजनकर्तुरभिप्रायेण, अन्यथा तदसंभवात् । तर्हि लोकार्थित्वाभावेपि तद्रहितस्य भजनासंभवात् को विशेष इत्यत आहुः क्लिष्टोपीति । लौकिकार्थाभावेन क्लिष्टोपि गीतायां नवमेऽध्याये 'पत्रं पुष्पं फलं तोय'मिति वचनात् कृष्णं चेत् भजेत्, तदा यथासंभवं भजनमर्थादेव सिध्यति, परं लोको नश्यति । लौकिकं न सिध्यति, न तु स्थितं नश्यति, भजनसिद्धौ न तावता कापि हानि- रिति भावः । भगवतस्तथेच्छेति सर्वथेति निरूपितम् । चेदिति तथा भजनमशक्यमिति ज्ञापनाय ) ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ स्वस्वरूपज्ञानप्रभुस्वरूपज्ञानाभाववान् भक्तोऽपि पुष्टिमर्यादाभेदेन द्विविधः । श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । धिष्ठानापेक्षारहितः तथाविधं कृष्णमेव विशेषेण चिन्तयेदिति संबन्धः । श्रीकृष्णेति । रसात्मकनामोक्तेः । पुष्टीति । पुष्टिमार्गीयभक्तेषु प्रकटिता ये स्वरूपात्मकास्तथाविधा आनन्दास्तेषु भक्तेषु प्रकटितः । तद्दत्त इति । भगवद्दत्तः । अत इति । तथाविधान- न्दस्य स्वरूपात्मकत्वादेव । ज्ञानमार्गे एव जीवानन्दसंभवात् । अनेन चिन्तनरूप आत्म- निवेदनाङ्गभूतः स्नेह उक्तः । मूले लोकार्थीति । प्रपञ्चत्वेनैव प्रपञ्चज्ञानवान् लोकार्थी- त्यर्थः । स यदि लौकिकार्थेनैव कृष्णसेवा कुर्यात्, तदा सेवाया असिद्ध्या तथा भव- तीति । तादृशोपि चेद्भजेत्, तदा लोको नश्यति । लोकः अक्षरत्वेन ज्ञातो भविष्यतीत्यर्थः । स्वस्वरूपेति । पुरुषोत्तमाधिष्ठानत्वेन स्वस्वरूपाज्ञानं, तत्राधिष्ठितत्वेन च प्रभुस्व- रूपाज्ञानं ज्ञेयम् । पुष्टिमर्यादेति । अत्र पुष्टौ मर्यादांशः । स्वल्पमर्यादायां च पुष्ट्यं-