षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 215, कुल 408 में से
संदर्भ में पढ़ेंश्रीमद्विठ्ठलेश्वरविरचितविवृतिसमेता । ६३ उभयोश्चित्तचाञ्चल्याभावायाहुः ज्ञानाभाव इति । ज्ञानाभावे पुष्टिमार्गी तिष्ठेत्पूजोत्सवादिषु ॥ १७॥ मर्यादास्थस्तु गङ्गायां श्रीभागवततत्परः। अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः ॥ १८ ॥ उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यति । ज्ञानाधिको भक्तिमार्ग एवं तस्मान्निरूपितः ॥ १९॥ (पुष्टिमार्गी पूजोत्सवादिषु तिष्ठेत्, पुष्टिपुष्टिमार्गे पूजापदं तस्य ज्ञानाभावात् प्रथम- प्रवृत्त्यभिप्रायेणोक्तम् । मनसस्तन्निष्ठतायां कृतिरेव सिध्यतीति तत्कुर्यादित्यनुक्त्वा तत्र तिष्ठेदित्युक्तम् । मर्यादायां प्रकारान्तरमाहुः मर्यादास्थ इति । गङ्गायां गङ्गासमीपे श्रीभागवततत्परस्तिष्ठेदिति पूर्वेण सम्बन्धः । उभयोरन्यतरधर्मव्यावृत्त्यर्थं तुशब्दः । तत्र भेदकं किमित्याकाङ्क्षायां पुष्टिमार्गीये विशेषमाहुः अनुग्रह इति। तस्य स्थितौ न देशनि- यमः, किन्तु प्रभुरनुगृह्य यत्रैव यथा स्थापयति, तत्रैव तिष्ठति तथा । तस्य विधिर्न निया- मक इति भावः । मर्यादास्थावपि ज्ञानिभक्तौ चेदनुगृह्णाति विशेषतः, तदा आदौ पुष्टि- मार्गं प्राप्य तन्मार्गीयां भक्तिं प्राप्नुत इत्याहुः उभयोरिति । यदि मर्यादायामेवाङ्गीकारः, तदोभयोर्मुक्तिरेव फलिष्यतीत्याशयः । एवं निरूपणे तात्पर्यमाहुः ज्ञानाधिक इति । लोकेऽधुना भक्तेरपि ज्ञानं फलं, तस्य मुक्तिरेवेति सर्वे वदन्ति । तत्र ज्ञानं हि ब्रह्मात्मैक्य- ज्ञानम् । ब्रह्म चाक्षरात्मकम्, तदात्मकत्वेन सर्वज्ञानं च । एतावतापि पुरुषोत्तमसम्बन्धस्तु दूरतरः । तस्य अक्षरातीतत्वात् । अत एवार्जुनेन पुरुषोत्तमाक्षरभजनयोस्तारतम्यं पृष्टः श्रीरघुनाथात्मजश्रीव्रजनाथकृतविवृतिटिप्पणी । शस्त्येति ज्ञेयम् । उभयोरिति पूर्वोक्तयोस्तयोः । ज्ञानाभाव इतीति । अनेनोद्वेगनि- वृत्त्युपाय उक्तः । ज्ञानिभक्ताविति । ज्ञानी च भक्तश्च ज्ञानिभक्तौ । तत्र ज्ञानी ज्ञान- मार्गप्रकारेण प्राप्तज्ञानः । अनुगृह्णाति विशेषत इति । मर्यादात्यागपूर्वकमनुग्रहं करो- तीत्यर्थः । तन्मार्गीयामिति । पुष्टिमार्गीयां । भक्तिमिति निवेदनाङ्गभूतं स्नेहं प्रेमलक्षणां भक्तिं वा । इदमेव मूले पूर्वोक्तपदेन ग्राह्यम् । क्रमेणैवेति मूले । क्रमस्त्वत्र विशेषाङ्गीकारे- णैव मानससेवारूपफलसिद्धिः । एवकारेण विशेषाङ्गीकाररूपक्रमाभावे तु न फलसे- वासिद्धिः । तदा मर्यादाप्रचुरस्य श्रीभागवततत्परस्य गङ्गासेविनोऽक्षरसायुज्यम् । पूजो- त्सवादिस्थितपुष्टिमार्गिणश्च पुरुषोत्तमसायुज्यमिति स्वगर्भकृतोर्थो ज्ञेयः । तमेव चार्थं प्रकाशयन्ति भक्तजनवाञ्छाकल्पतरुश्रीमद्वल्लभवतनयश्रीविठ्ठलचरणास्तदोभयोरित्यादिना । उभयोरीतीति । उभयोर्मर्यादापुष्टिस्थज्ञानिभक्तयोः । मर्यादायामेवेति । एवकारः पुष्टिभेदव्यवच्छेदकः । एवं निरूपण इति । गङ्गादृष्टान्तेन भक्तिमार्गनिरूपणे । तात्पर्य-