षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 227, कुल 408 में से
संदर्भ में पढ़ेंघटादिर्दर्पणादौ धर्मिरूपेण प्रतिबिम्बते । रूपवान् जपाकुसुमादिः स्फटिके धर्मरूपेणारु- णगुणेन प्रतिस्फुरति । एवमुभयथा रूपवत एव प्रतिबिम्बसम्भवाच्चीरूपस्य ब्रह्मणः प्रति- बिम्बो न युक्तिसह इति सुधियो विदन्तु । अत एव प्रतिबिम्बत्वावच्छिन्ने रूपवतः कारण- तामवगत्य विद्वन्मण्डन उक्तम्—'रूपवत एव प्रतिबिम्बनियमादि'ति । उपाधिनाश इति । भगवज्जीवयोरन्तरायभूताऽविद्या तस्याः कार्यस्य नाशे सति । 'अन्यद्युष्माकमन्तरं बभूवे'ति श्रुतेर्ज्ञानं प्रत्यविद्यानाशस्य प्रतिबन्धकाभावत्वेन कारणतयाऽवश्यमपेक्षणात् । विज्ञान इति । ब्रह्मणो विशेषतः सर्वात्मकत्वेन सर्वातिरिक्त रूपत्वेन च ज्ञाने सति । ब्रह्मा- त्मत्वावबोधन इति । ब्रह्मज्ञानानन्तरं जडजीवयोस्तदात्मकतया स्वस्यापि ब्रह्मात्मत्वेना- वबोधे सति वक्ष्यमाणं फलं भवति । सिद्धान्ते हि ब्रह्मज्ञानं पुमर्थाय । 'यस्मिन् विदिते सर्वमिदं विदितं भवती' ति श्रुतेः । न त्वेकदेशभूतं पराभिमतं जीवमात्रे ब्रह्मत्वेन ज्ञानम् । एवं सत्यविद्यानाशे ब्रह्मस्वरूपज्ञानं तस्मिन् सति सर्वस्यापि पदार्थजातस्य बोधः, तेन स्वस्यापि सर्वमध्यपातितया निर्विकाराक्षरत्वेनापरोक्षस्फूर्तिः, ततो 'ब्रह्म वेद ब्रह्मैव भवती'- ति श्रुतेरक्षरात्मकतायां सिद्धायां 'तद्धाम परमं मम' 'विष्णोर्धाम परं साक्षात्पुरुषस्य महा- त्मन' इत्यादिवाक्यैरक्षरस्य भगवदधिष्ठानत्वात्तत्र स्थितमक्षरातीतं पुरुषोत्तमं कृष्णं ज्ञानी भक्तः पश्यति । तदाहुः तथा कृष्णं परं ब्रह्मेत्यादि । तत्र दृष्टान्तः गङ्गातीरस्थित इति । यथा प्रवाहसन्निधौ वर्तमानस्तन्मध्यवर्तिनीं मूर्तिमतीं गङ्गां श्रद्धाधिक्ये पश्यति, तथा ज्ञानी भक्तोऽपि भगवदधिष्ठानत्वेन निकटस्थायिन्यक्षरात्मके स्वस्वरूपे भक्त्या कृष्णं पश्य- तीति भावः । अत एव भगवता 'चतुर्विधा भजन्ते मामि'ति सन्दर्भे ज्ञानी भक्तः प्रशं- सितः । निबन्धेऽपि 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः पर' इत्युक्तम् । ननु भक्त्या केवलयैव सर्वपुरुषार्थसिद्धौ किमर्थं ज्ञानाग्रह इत्याशङ्क्य प्रेमवतस्तदनपेक्षत्वेप्यनुत्पन्नस्नेहस्य भजनाङ्गत्वेनास्त्येव ज्ञानापेक्षेति तद्रहितस्य दोषमाहुः संसारीति । अनिवृत्ताहन्ताममताको- ऽनुत्पन्नबोध इति यावत्। स तु कृष्णं भजन दिदृक्षाया आधिक्यादविद्ययाऽन्तरायभूतया दर्श- नाभावाद्दुःखभाग्भवति । अत्र दृष्टान्तः दूरस्थ इति । यथा गङ्गाभक्तः स्नानपानाद्यर्थं तज्ज- लमभिलषन्नादिशब्देनाधिदैविकीं दिदृक्षन् दर्शनाभावात्प्रवाहरूपगङ्गाविप्रकर्षेणाधिदैविकी- विप्रकर्षादुभयमलभमानो दुःखी भवति तद्वदित्यर्थः। सिद्धमुपदिशन्ति तस्मादिति । श्रीकृष्ण- ष्णमार्गस्थ इति । भक्तिमार्गस्थ इत्यर्थः । सर्वलोकतः संसारतः विमुक्तो भूत्वा शुद्धपुष्टि- मार्गींयव्रजसुन्दरीवृन्दविहारिणं कृष्णमेव निरवध्यानन्दं विशेषेण चिन्तयेत्, मानसीसिद्ध्यर्थं लीलाविशिष्टभावनं कुर्यादिति भावः । अयमेवार्थः श्रीमत्प्रभुचरणैष्टीकायां विवृतः 'कृष्ण- पदा'दित्यारभ्य, 'आत्मपदं भगवत्पर' मित्यन्तेन । ननु ज्ञानरहितो भक्तो भगवद्दर्शनावरोधक- संसारस्य विद्यमानत्वाद्दुःखी भवतीत्युक्तम् । तथा सति केवलज्ञानवत् तादृग्भक्तेरप्यप्रयो- जकत्वमित्याशङ्क्य पूर्वोक्तमनूद्य केवलभजनेनापि निर्वाहमाहुः लोकार्थीति । लोकार्थी पशुपुत्रादिविषयकाङ्क्षावान् । अनुत्पन्नज्ञानः संसारीति यावत् । भजनं कुर्वन् पूर्वोक्तप्रका- रेण दिदृक्षाधिक्याद्दर्शनाभावात्क्लिष्टो भवति । तादृगपि आग्रहं कृत्वा भजनं चेन्न त्यजति, तदा भगवत्कृपया लोकः संसारोऽहन्ताममतात्मको भगवत्साक्षात्कारप्रतिबन्धकर्ता नश्यती-