षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 228, कुल 408 में से
संदर्भ में पढ़ेंत्यर्थः । अत्र प्रपञ्चवाचिना लोकशब्देन तदन्तःस्थितः संसारो लक्ष्यते । नाशस्योक्तत्वादर्थ- खारस्याच्च लक्ष्यार्थ एव ग्राह्यः । एवं केवलया भक्त्या भगवद्भजनं निर्वहतीत्युक्तम् । तत्कथमित्याकाङ्क्षायां प्रमेयबलेन तद्भवतीति वदन्ति अनुग्रह इति । पुष्टिमार्गस्यानुग्र- हैकनियम्यत्वात्प्रमाणविरुद्धमपि प्रमेयबलेन भवेत् । 'नेमं विरञ्चो न भवो न श्रीरप्यङ्गसं- श्रया । प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिकादि'त्यादिवाक्येभ्य इति भावः । पुष्टिमार्ग इति । पुष्टिजन्ये भक्तिमार्ग इत्यर्थः । पुष्टिश्च 'पोषणं तदनुग्रह' इति वाक्यादनुग्रहरूपो भगवद्धर्मः । स च लौकिकालौकिकोत्तमफलसाधकः । विशेषानुग्रहस्तु विरलजनविषयो भगवद्रूपात्मकफलसाधकः । तज्जन्यत्वं पुष्टिभक्तौ । अत्र पुष्टिंशब्देन पुष्टिविशेषो ग्राह्यः, न तु साधारणानुग्रहः । तस्य लौकिकफलं प्रति कारणत्वात् । अत एव पुष्टिस्र्कन्धे साधा- रणेनैव कृष्णानुग्रहेणेन्द्रादीनां दैत्यानां च तादृग्भक्तिरहितानामपि स्वाभिलषितलौकिकफल- सिद्धिः । तथोक्तं निबन्धे 'एवमिन्द्रे महापुष्टिः सर्वबाधा निरूपिता । सर्वबाधारूपा हि दैत्ये पुष्टिर्योच्यत' इति । इन्द्रे महापुष्टिरित्यानुग्रहे महत्त्वं तु बलवत्प्रतिबन्धकनिवृत्त्या मनो- रथपूरकत्वं, न तु भक्तितत्सम्बन्धिसाधकत्वम् । लौकिकफलस्यैव दृश्यमानत्वात् । अतः साधा- रणानुग्रहो लौकिकफलसाधकः । विशेषानुग्रहस्तादृग्भक्तिहेतुरिति निष्कर्षः । सा च नवमस्क- न्धसूर्यसोमवंशीयवृत्तान्तकथनेन प्रपञ्चिता, मर्यादापुष्टिभेदेनेशानु कथाशब्देन व्यवह्रियते । ईशस्य अनुगामिनां भक्तानां कथा भक्तिरित्यर्थः । पुष्टिजन्या भक्तिः पुष्टिभक्तिः । अत एवोक्तं श्रीमत्प्रभुचरणैः 'तदनुग्रहैकलभ्यां भक्तिं च नुम' इति भक्तिहेतुनिर्णये । एवं सति भगवत्स्वरू- पातिरिक्तफलाकाङ्क्षारहिता भक्तिः पुष्टिभक्तिरिति पुष्टिभक्तेर्लक्षणं ज्ञेयम् । न च निष्काममर्या- दाभक्तावतिव्याप्तिः । अत्र मोक्षात्मकफलस्याकाङ्क्षितत्वात् । न च मोक्षः स्वरूपात्मक एवेति वाच्यम् । 'न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्ष' इति वृत्रवाक्ये स्वरूपा- तिरेककथनात् । अत एव पुष्टिमार्गीया नैनं कामयन्ते । एतच्च 'अक्षण्वतामि' ति श्लोकविवृतौ, 'वीक्ष्यालकावृतमुखमि'त्यस्य सुबोधिन्यां स्पष्टम् । अत एव मोक्षकामनापि काम्यमध्ये विसृष्टा । तथोक्तं निबन्धे 'तत्समुद्धारणं काम्यग् । हरिसालोक्यकाम्ययेति वाक्यादि' ति । अतः स्वरूपातिरिक्तफलाकाङ्क्षारहिताः पुष्टिमक्ता एवेति सुधीभिर्विभावनीयम् ॥ १२ ॥ यदुक्तं श्रीमदाचार्यैर्विवृतं विठ्ठलेश्वरैः । कृतं तदनुसार्येतद्बालकृष्णाङ्घ्रिसेविना ॥ १ ॥ यदत्र बुद्धिदोषेण चेष्टितं बालचापलम् । क्षम्यतां श्रीमदाचार्यचरणैः कृपया मयि ॥ २ ॥ श्रुतिसिद्धरसामत्वकृष्णप्रेमप्रकाशकाः । दासे मयि प्रसीदन्तु प्रभवो विठ्ठलेश्वराः ॥ ३ ॥ कालिन्दीपुंलिने शरच्छशिकरैः शुभ्रीकृते मल्लिकाकुन्दामोदमदोन्मदालिनिनदे घोषाङ्गनाभूषिते। रासे राधिकया समं विहरतो मोदैर्मुहुर्नृत्यतः श्रीगोवर्धनधारिणो भगवतः सेवेय पादद्वयम् ४ यश्चिन्त्यो ब्रह्मरुद्राद्यैर्बालवीजनचिन्तकः । अस्मत्कुलपतिः श्रीमद्बालकृष्णः प्रसीदतु ॥ ५ ॥ इति श्रीमद्गोवर्धनधरश्रीवल्लभाचार्यवरश्रीविठ्ठलेश्वरचरणानुचरसेवकेन लालुभट्टो- पनामविदितबालकृष्णेन विरचिता सिद्धान्तमुक्तावलीयोजना सम्पूर्णा ।