षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 24, कुल 408 में से
संदर्भ में पढ़ें१० श्रीयमुनाष्टकम्। विलासगमनोल्लसत्प्रकटगण्डशैलोन्नता। पाते फेनेन प्रवाहजलेन चोज्ज्वला। उच्चनीचशैलारोहावरोहौ विलासगति- श्रीहरिरायप्रणीतं टिप्पणम्। जातस्तत्र लीलां च प्रकटितवान्, तथा श्रीयमुनाऽपि प्रथमं सूर्यमण्डलान्तर्वर्त्तिनारा- यणहृदयादानन्दमयादाविर्भूता द्रवीभूतरसात्मिका, ततस्तापात्मकाद्रविमण्डलात्कलि- न्दोपरि समागत्य भूमावागता ततो लीलास्थाने समागत्य तादृग्भक्तसंवलिता जातेत्यर्थः। श्रीपुरुषोत्तमप्रणीता विवृतिः। तम्। मधुविद्यायां च 'यश्चाऽयमादित्ये तेजोमय' इत्युपक्रम्य ' अयमेव स योऽय- मि'ति तस्य व्यापकत्वमपि श्रावितम्। पाद्मे यमुनामाहात्म्ये च-'त्रय्येषा ऋग्यजुः- साम्नामादित्य इति गीयते। सम्यग्ज्ञानं च यत्तेषां विश्वेषां कर्मणां मुने। सञ्ज्ञेति साऽस्यां यो धर्मो धर्मराजः स उच्यते। रसो यः परमाधारः सच्चिदानन्दलक्षणः। ब्रह्मेत्युपनिषद्गीतस्तदेव यमुना स्वयमि'ति । 'दिवसे दिवसे भानुरादायाऽऽदाय वत्सलः। उदयाचलतः पुत्रीं नयत्यस्ताचलं मुने। यमुनाऽपि ततो नित्यं गच्छ- न्त्यास्तेऽक्षयाऽव्यया। विशन्त्योगेन साऽदित्यमुदयाद्रौ पुनः पुनः। एवं भूमौ तथाऽऽकाशे घटीयन्त्रमिवाऽनिशम्। यमुनाऽस्तोदयाद्रिभ्यां अमन्त्यास्तेऽक्षयोदके'ति वसिष्ठवाक्यं च हृदिकृत्य 'ममोदरं प्रविश्य त्वं गच्छ चाऽऽदित्यनन्दिनि। कालि- न्दीति तव ख्यातिरस्तु लोकत्रये सदे'ति कलिन्दकृतवरप्रार्थनं च हृदिकृत्याऽऽचा- र्यैर्मूले पद्माबन्धोः सुतेत्युक्तमित्याशयेन रविमण्डलापादानकत्वोक्तिपुरस्सरं प्रथम- विशेषणं व्याकुर्वन्ति रवीत्यादि। अत्र वर्षावद्रश्मिभ्यो नोत्पत्तिः किन्तु स्वरूपादि- त्याशयेन मण्डलस्याऽपादानत्वोक्त्या पूर्वोक्तरीतिकवेदाधारत्वस्फोरणेन तत्राऽऽधि- दैविकत्वं दृढीकतम्। तथैवाऽधिकरणकथनेन सौरगत्यनधीनपातत्वबोधनात्तदन्तः- स्थितादेवाऽऽगमनं न भौतिकाद्रवेरिति निश्चायितम्। तृतीयान्तद्वयेनोज्ज्वलत्वस्या- ऽऽगन्तुकत्वबाह्यत्वबोधनात् स्वरूपश्यामलत्वस्याऽबाधो ध्वनितः। तेनाऽऽपाततो दर्शन- विरोधोऽपि परिहृतः । अतः परमुक्तविशेषणस्थममन्दत्वं द्रढयितुं विलासगमने- त्यादि द्वितीयं विशेषणमित्याशयेन तद्व्याकुर्वन्त्युच्चनीचेत्यादि। एवं क्रियाविशेषकृत- शोभया प्रवाहाविच्छेदबोधनेनाऽमन्दत्वं स्थिरीकृतम्, तेनाऽपादानस्य व्यापकत्वे- ऽपि प्रदेशभेदस्य विद्यमानत्वान्मूलधान्न एव समागमनं स्फोरितम्। अथ तद्गमके