भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 25, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 25

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ११ सघोषगतिदन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्धिनी जयति पद्मबन्धोः सुता ॥ २ ॥ रूपौ । तत्रोल्लसन्तः शोभां प्राप्नुवन्तः प्रवाहवेगेनोच्चैः क्षिप्ता अत एव प्रकटाः सर्वेषां दृश्यास्तैस्तादृशैस्तथा । उच्चतः पाते शोभामुक्त्वा ततो विषमभू- मिगतिशोभामाहुः सघोषेति । दन्तुरशब्देन विविधविकारवत्त्वमुच्यते । 'विपुलपुलकभरदन्तुरितम्' 'केतकीदन्तुरिताश' इत्यादिनयदेवोक्तिरपि । श्रीहरिरायप्रणीतं टिप्पणम् । घनीभूतरसात्मा हि जातो नन्दगृहे हरिः । केवलो धर्मयुक्तस्तु वसुदेवगृहे तथा ॥ १ ॥ शब्दात्मा गुणगानादौ वदनादुद्गतः स्वतः । द्रवीभूतरसात्मैषा सर्वाङ्गीणश्रमाम्बुभिः ॥ २ ॥ नारायणस्य हृदयाच्छुद्धसत्त्वस्वरूपतः । प्रादुरासीन्मूलरूपपुष्टिलीलाप्रसिद्धये ॥ ३ ॥ विषमभूमीति । पर्वतसम्बन्धित्वादित्यर्थः । वैषम्यं चाऽत्राल्पानल्पप्रस्तर- श्रीपुरुषोत्तमप्रणीता विवृतिः । भगवन्मेलनौत्सुकत्वं बोधयितुं सघोषगतिदन्तुरेत्यग्रिमं विशेषणमित्याशयेन तद्व्या- कुर्वन्तः पूर्वविशेषणवाच्योऽर्थ उत्तरत्राऽप्युपकरोतीत्याशयेन तमनूद्याऽवतारयन्त्यु- च्चत इत्यादि । तत्र 'दन्तुरं तून्नतानतमि'ति कोशोक्तस्य वाच्यार्थस्य पूर्वार्ध एव सिद्धेस्तदनुवादवैयर्थ्यादत्र लाक्षणिकोऽर्थोऽभिप्रेयत इत्याशयेन विवक्षितमर्थमाहु- र्दन्तुरेत्यादि । अत्र जयदेवोक्ति सम्मतित्वेनाऽऽहुर्विपुलेत्यादि । पुलकेऽपि रोमकू- पदेशे उच्छ्रनतेव भवतीति नोक्तार्थदार्ढ्यमिति द्वितीयमुदाहरणम् । उक्तमर्थं हेतूक्त्या द्रढयन्ति व्रजजनेत्यादि । समानो घोषो व्रजो यस्य तत् सघोषं व्रजजनादि । 'समानस्य छन्दस्य मूर्द्धप्रभृत्युदकेष्वि'ति सूत्रे समानस्येति योगं विभज्य सपक्ष- साधर्म्यादिशब्दाः काशिकायां व्युत्पादितास्तथाऽत्राऽपि । सदृशस्तुल्यो वासो घोषो यस्य तद्वा । अस्वपदविग्रहे बहुव्रीहौ सदृशार्थस्य सहस्य सभावेन कौमुद्यां ते साधितास्तथा वा । तथा च 'व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैरि'तिवत्तद्गतिम्र्भि- र्विविधविकारवतीवेत्यर्थः । विकारश्चाऽत्र रसानुकूलो बाह्याभ्यन्तरो धर्मो बोध्यः यो रसशास्त्रे भावपदेनोच्यते । एतस्य पक्षस्य गौणत्वायोत्प्रेक्षावाचकपद्मयोगः