षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 25, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ११ सघोषगतिदन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्धिनी जयति पद्मबन्धोः सुता ॥ २ ॥ रूपौ । तत्रोल्लसन्तः शोभां प्राप्नुवन्तः प्रवाहवेगेनोच्चैः क्षिप्ता अत एव प्रकटाः सर्वेषां दृश्यास्तैस्तादृशैस्तथा । उच्चतः पाते शोभामुक्त्वा ततो विषमभू- मिगतिशोभामाहुः सघोषेति । दन्तुरशब्देन विविधविकारवत्त्वमुच्यते । 'विपुलपुलकभरदन्तुरितम्' 'केतकीदन्तुरिताश' इत्यादिनयदेवोक्तिरपि । श्रीहरिरायप्रणीतं टिप्पणम् । घनीभूतरसात्मा हि जातो नन्दगृहे हरिः । केवलो धर्मयुक्तस्तु वसुदेवगृहे तथा ॥ १ ॥ शब्दात्मा गुणगानादौ वदनादुद्गतः स्वतः । द्रवीभूतरसात्मैषा सर्वाङ्गीणश्रमाम्बुभिः ॥ २ ॥ नारायणस्य हृदयाच्छुद्धसत्त्वस्वरूपतः । प्रादुरासीन्मूलरूपपुष्टिलीलाप्रसिद्धये ॥ ३ ॥ विषमभूमीति । पर्वतसम्बन्धित्वादित्यर्थः । वैषम्यं चाऽत्राल्पानल्पप्रस्तर- श्रीपुरुषोत्तमप्रणीता विवृतिः । भगवन्मेलनौत्सुकत्वं बोधयितुं सघोषगतिदन्तुरेत्यग्रिमं विशेषणमित्याशयेन तद्व्या- कुर्वन्तः पूर्वविशेषणवाच्योऽर्थ उत्तरत्राऽप्युपकरोतीत्याशयेन तमनूद्याऽवतारयन्त्यु- च्चत इत्यादि । तत्र 'दन्तुरं तून्नतानतमि'ति कोशोक्तस्य वाच्यार्थस्य पूर्वार्ध एव सिद्धेस्तदनुवादवैयर्थ्यादत्र लाक्षणिकोऽर्थोऽभिप्रेयत इत्याशयेन विवक्षितमर्थमाहु- र्दन्तुरेत्यादि । अत्र जयदेवोक्ति सम्मतित्वेनाऽऽहुर्विपुलेत्यादि । पुलकेऽपि रोमकू- पदेशे उच्छ्रनतेव भवतीति नोक्तार्थदार्ढ्यमिति द्वितीयमुदाहरणम् । उक्तमर्थं हेतूक्त्या द्रढयन्ति व्रजजनेत्यादि । समानो घोषो व्रजो यस्य तत् सघोषं व्रजजनादि । 'समानस्य छन्दस्य मूर्द्धप्रभृत्युदकेष्वि'ति सूत्रे समानस्येति योगं विभज्य सपक्ष- साधर्म्यादिशब्दाः काशिकायां व्युत्पादितास्तथाऽत्राऽपि । सदृशस्तुल्यो वासो घोषो यस्य तद्वा । अस्वपदविग्रहे बहुव्रीहौ सदृशार्थस्य सहस्य सभावेन कौमुद्यां ते साधितास्तथा वा । तथा च 'व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैरि'तिवत्तद्गतिम्र्भि- र्विविधविकारवतीवेत्यर्थः । विकारश्चाऽत्र रसानुकूलो बाह्याभ्यन्तरो धर्मो बोध्यः यो रसशास्त्रे भावपदेनोच्यते । एतस्य पक्षस्य गौणत्वायोत्प्रेक्षावाचकपद्मयोगः