षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 26, कुल 408 में से
संदर्भ में पढ़ें१२ श्रीयमुनाष्टकम्। ब्रजजनगोवृन्दादिविविधगतिभिस्तादृशीव । घोषः शब्दो व्रजो वा । अनतिस्थूलशिलासु गतिशोभया असमधिरूढेव समधिरूढदोलोत्तमा । श्रीहरिरायप्रणीतं टिप्पणम्। साहित्येनेति ज्ञेयम् । घोषः शब्दो व्रजो वेति । 'घोष आभीरपल्ली स्याद्'इतिको- षात् घोषो व्रजस्तेन सह वर्त्तन्ते, न कदाचिदपि तं विहायाऽन्यत्र प्रयान्ति निरोध- स्थानत्वात्ते सघोषा व्रजजनादयस्तेषां तीरे गतिभिस्तथेत्यर्थः । शब्दपक्षे यथा प्रिया- भिमुखं गच्छन्ती प्रिया अन्तरुद्गतरजोगुणजनितकामावेशेन गायन्ती तथोच्चैर्भाष- माणा गच्छति तथेत्यर्थः । व्रजपक्षे तु भाववत्संसर्गे भाववतां भावोदयजनित- विविधविकारवत्त्वं लोकसिद्धमिति श्रीयमुनायामपि तथा निरूपितमित्यर्थः । असमधिरूढेवेति, पदच्छेदे अकारस्यापि प्रतीयमानत्वादसमधिरूढत्वमपि व्याख्ये- यम् । तथाचाऽसमधिरूढेव समधिरूढदोलोत्तमा । यतो दोलाधिरोहेऽपि न तथा प्रतीतिः । भगवत्साम्मुख्यगमने तद्भाववैवश्येन गमनमात्रस्फूर्त्याऽऽरोहदोलास्फूर्ते- श्रीपुरुषोत्तमप्रणीता विवृतिः । गौणत्वं तु व्रजजनसम्बन्धस्य समभूमौ सत्त्वेनाऽत्राऽभावात्स्वतस्तथात्वासिद्ध्या मूलधामागमनगमकत्वाभावाच्च ज्ञेयम् । अनेनैवाऽस्वरसेन पक्षान्तरं वदिष्यन्तो घोषपदस्याऽर्थावाहुः—घोषः शब्दो व्रजो वेति । शब्दपक्षे घोषेण सह वर्त्तमाना सघोषा तादृश्या गत्या तथा । ससिञ्जिताभिसरणेनोत्कटानेकभावेत्यर्थः । अस्मिन् पक्षे नोत्प्रेक्षेति यद्यपि तदपेक्षयाऽयमुत्तमस्तथापि लीलाया नित्यत्वेन मूलधाम्न्यपि व्रजसम्बन्धस्य सार्वदिकत्वात्प्रथमपक्षस्याऽपि नाऽसम्भवः । स्वाभाविकत्वात्स्व- पक्षश्चाऽऽवश्यक एवेति द्वयमपि सङ्ग्रहीतुं व्याख्यातविशेषणद्वयस्य द्वितीयविशेषणार्थ- द्वयस्य च तात्पर्यमाहुरनतीत्यादि । 'गण्डशैलास्तु ते भग्नाश्च्युताः स्थूलोपला- गिरेरि'ति कोशे गिरिच्युतानां तथात्वकथनादनतिस्थूलशिलासु या गतिरुच्चनीच- भावेन गमनं तत्र घोषेण यत्सिञ्जितवत्ताव्यञ्जनं सैव शोभा तया स्वयमसमधिरूढेव समानसौभाग्यानां साहित्यात्स्वयमपि पादचारिणीव । तथाच सेयमाधिदैविकी यद्यपि दोलास्थानीये आधिभौतिके जलरूपे आरुह्य गच्छतीत्यग्रिमविशेषणे वक्तव्यं, तथापि विलासगमनेत्यादिविशेषणद्वयवत्त्वादसमधिरूढेवेत्यर्थः । द्वितीयविशेषण- प्रथमव्याख्याने घोषो व्रजसुन्दरीप्रभृतिवृन्दम् । तात्स्थ्यात्तद्व्यपदेशः । तेन सह वर्त्त- माना सघोषा तादृश्या गत्या चरणचलनेन दन्तुरेव दन्तुरेति । "समासे पुंवत्कर्म- धारयजातीयेष्वि"ति पुंवद्भावः । एवं शब्दपक्षव्याख्यानेऽपि ज्ञेयः । एवं सकल-