भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 256, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 256

पुष्टिप्रवाहमर्यादाभेदः । पुष्टिप्रवाहमर्यादा विशेषेण पृथक्पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥ वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः । भक्तिमार्गस्य कथनात्पुष्टिरस्तीति निश्चयः ॥ २ ॥ द्वौ भूतसर्गावित्युक्तेः प्रवाहोऽपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ कश्चिदेव हि भक्तो हि यो मद्भक्त इतीरणात् । सर्वत्रोत्कर्षकरणात्पुष्टिरस्तीति निश्चयः ॥ ४ ॥ न सर्वोऽतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । यदा यस्येति वचनान्नाहं वेदैरितीरणात् ॥ ५ ॥ मार्गैकत्वेऽपि चेदन्त्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ जीवदेहकृतीनां च भिन्नत्वं नित्यताश्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः । सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥ इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः । वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥ मूलेच्छात्तः फलं लोके वेदोक्ते वैदिकेऽपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकता ॥ १० ॥ तानहं द्विषतो वाक्याद्भिन्ना जीवाः प्रवाहिणः । अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥ स्वरूपेणावतारेण लिङ्गेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥ तथापि तावता कार्यं यावत्तस्य करोति हि ।

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 256, कुल 408 में से · BharatKosha