षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 257, कुल 408 में से
संदर्भ में पढ़ेंते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । एवं सर्गस्तु तेषां हि फलं त्वत्र निरूप्यते ॥ १६ ॥ भगवानेव हि फलं स यथाऽऽविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥ आसक्तौ भगवानेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । वैदिकत्वं लौकिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः । सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात्सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् । प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥२३॥ जीवास्ते ह्यासुर्राः सर्वे प्रवृत्तिं चेति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञांस्ताननु ये पुनः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते । सोऽपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५ ॥ इति श्रीवल्लभाचार्यविरचितः पुष्टिप्रवाहमर्यादाभेदः समाप्तः