भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 261, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 261

पुष्टिप्रवाहमर्यादा । ३ श्रीमदाचार्यैरुक्तं 'निःसाधनफलात्मायं प्रादुर्भूतोऽस्ति गोकुले' इति । अत एव श्रीगोवर्धनो- द्धरणप्रस्तावे 'तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रह'मित्यादिना भगवता सप्तदिवसधारणेन लोके जीवानां देवऋषिपित्रात्मान्मीयैहिकपारलौकिक इति सप्त रक्षकाः प्रसिद्धाः, तद्रक्षातः पृथकृत्य स्वसम्बन्धस्थापनेन स्वयमेव रक्षाकरणेन केवलस्वीयत्वसम्पादनं पुष्टि- स्वरूपमिति ज्ञापनायाचार्यैरुक्तं पुष्टिरस्तीति निश्चय इति ॥ २ ॥ एवं पुष्टिस्वरूपमुक्त्वा प्रवाहस्वरूपमाहुः । 'द्वौ भूतसर्गा'वित्युक्तेः प्रवाहोपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ गीतासु 'द्वौ भूतसर्गौ लोकेस्मि'न्नित्यारभ्य 'मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति'मित्यन्तं प्रवाहलक्षणस्योक्तत्वात् आसुरजीवा एव प्रवाहपदवाच्याः । तेषां कदापि कुत्रापि 'मामप्राप्यैवे'ति भगवद्वाक्यात् भगवत्सम्बन्धाभावात् आनन्दरहित्वाच्च प्रावाहि- कत्वमेव । नदीप्रवाहपतिततृणकाष्ठादिवत् कुत्रापि स्थितगतिपर्यवसानाभावात् प्रवाहरूप- त्वमेव । यद्यपि तेषां अन्धतमःप्रवेशरूपा आसुरी मुक्तिरस्ति, तथापि तस्याः सुखदुः- खात्यन्ताभावरूपत्वेनानन्दशून्यत्वात् प्रवाहरूपतैवति ज्ञापनाय भगवतोक्तम्, 'ततो' यान्त्यधमां गति'मिति । तस्या मुक्तेरधमत्वात् प्रवाहरूपैवेत्याचार्यैरुक्तं 'द्वौ भूतसर्गा- वित्युक्तेः प्रवाहोपि व्यवस्थित इति । एवं प्रवाहलक्षणमुक्त्वा मर्यादालक्षणमाहुः वेद- स्येति । वेदस्येति सामान्यकथनात् काण्डद्वयात्मको वेद उक्तः, तत्र काण्डद्वयेपि मर्या- दाया निरूपितत्वात् । तत्र पूर्वकाण्डे कर्ममर्यादा निरूपिता, उत्तरकाण्डे ज्ञानमर्यादा निरूपितेति वेद एव मर्यादाद्वयसत्त्वे प्रमाणमित्युक्तम् । एवं कर्ममर्यादाज्ञानमर्यादासत्त्वे वेद एव प्रमाणमिति ज्ञापनायाचार्यैरुक्तं वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थितेति ॥३॥ एवं मर्यादास्त्वे प्रमाणं निरूप्य कर्ममार्गज्ञानमार्गयोरपि भक्तित्वमाशङ्क्य निराकु- र्वन्ति कश्चिदेवेति । 'कश्चिदेव हि भक्तो हि यो मद्भक्त' इतीरणात् । सर्वश्रोत्कर्षकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥ न सर्वतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । 'यदा यस्ये'ति वच'न्नाहं वैदै'रितीरणात् ॥ ५ ॥ अस्यायमर्थः । कर्ममार्गस्य सकामनिःकामभेदेन द्विरूपत्वम् । तथाचोक्तं भगवद्गी- तायां, 'त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्र- लोकमश्नन्ति दिव्यान् दिवि देवभोगान् । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते' इति भगवद्वाक्यात् सकामकर्ममार्गीयाणां लौकिककामासक्तत्वाच्च भक्तिगन्धोपि । निःकामकर्ममार्गीयाणामपि