षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 262, कुल 408 में से
संदर्भ में पढ़ेंचित्तशुद्धिद्वारा ज्ञानोत्पत्तिहेतुत्वेन ज्ञानमार्गपर्यवसायित्वमेव, न तु भक्तिपर्यवसायित्वमिति न भक्तित्वम् । ननु मर्यादामार्गीयज्ञानस्य 'ब्रह्मविदाप्नोति पर'मिति ब्रह्मविषयत्वात् भक्तित्व- मस्तु, इति चेत्, सत्यम् । यद्यपि मर्यादामार्गीयज्ञानस्य ब्रह्मविषयत्वमस्ति, तथापि शुद्ध- ज्ञानमार्गे ब्रह्मपदस्याक्षरपर्यवसानात् न भक्तिरूपत्वम् । यथा 'ब्रह्मविदाप्नोति परम्,' 'तदेषा- भ्युक्ता, सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन्, सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति श्रुत्या । श्रुत्यन्तरेणापि 'न सदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति' इत्यादि- श्रुतिभिर्मुक्तिफलत्वेन ब्रह्मस्वरूपज्ञानमुक्तम् । ज्ञानमार्गे 'यो वेद निहितं गुहाया'मित्यु- क्तत्वात् हृदयाकाश एव अक्षरब्रह्मस्वरूपचिन्तनं मुक्तिसाधनत्वेनोक्तम् । श्रुत्यन्तरेपि 'हृदा मनीषां मनसाभिकॢप्तो य एनं विदु'रिति कथनात् ब्रह्मस्वरूपं प्रादेशमात्रमङ्गुष्ठ- मात्रं वा हृद्येव कल्पयित्वा हृद्येव दर्शनम्, न तु भक्तिमार्गवत् बहिरपीति । अत एवाचार्यैरुक्तं वेदस्य विद्यमानत्वात् मर्यादापि व्यवस्थितेति । एतावत्येव वेदोक्त- ज्ञानमार्गमर्यादा । एवं मर्यादाव्यवस्थांमुक्त्वा अग्रे कश्चिदेव हि भक्तो हीति कथनस्यायमाशयः । पूर्वो- क्तमर्यादामार्गीयस्यापि कदाचिद्भगवदनुग्रहेण भगवद्भक्तसङ्गेन वा यदि भगवति स्नेहोत्पत्ति- र्भवेत्, तदा तस्यापि मर्यादामार्गीयभक्तत्वेन भगवत्प्रियत्वं भवति । अत एव गीतायां श्रीभगवतोक्तं 'अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी । सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रिय' इति । कश्चिदेवेतिकथनात् ज्ञानमार्गीयभक्तिप्राप्तौ दुर्लभत्वमुक्तम् । हीति युक्तश्चायमर्थः । एकवारं हिशब्दस्य युक्तार्थत्वमुक्त्वा पुनर्हिशब्दकथनस्यायमाशयः । मर्यादामार्गीयो यदा मर्यादामार्गीयभक्तसङ्गृत्या भक्तः स्यात्, तदा जडभरतवत् प्रसिद्ध एव भवेदिति प्रसिद्धत्वज्ञापनार्थं हिशब्दः । ननु मर्यादामार्गेपि भक्तिकथनान्मर्यादा- मार्गीयभक्तेः पुष्टिभक्तेश्च समत्वं भवत्वित्याशङ्कानिरासायाहुः सर्वत्रोत्कर्ष¹कथनादिति । श्रीभागवतगीतादिषु 'भक्तियोगो बहुविध' इति यावन्तो भक्तिभेदा उक्तास्तेभ्यः सर्वेभ्यः उत्कर्षकथनात् पुष्टिरस्तीति निश्चयः सिद्धः । उत्कर्षश्च यथा गीतायां 'तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन'त्युक्त्वा 'योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मत' इति भजनस्यैव सर्वोत्कर्षकथनात् । साक्षाद्भजनं पुष्टिमार्ग एव, न तु मर्या- दाभक्तावपि । श्रीभागवते भगवद्वचनं 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति । तथा श्रुतिरपि 'तमु स्तोतारः पूर्व्यं यथा- विद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो १. सर्वस्मिन् भक्तिमार्गेऽस्य स्नेहभक्तिरूपस्योत्कर्षकथनात् ।