भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 262, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 262

चित्तशुद्धिद्वारा ज्ञानोत्पत्तिहेतुत्वेन ज्ञानमार्गपर्यवसायित्वमेव, न तु भक्तिपर्यवसायित्वमिति न भक्तित्वम् । ननु मर्यादामार्गीयज्ञानस्य 'ब्रह्मविदाप्नोति पर'मिति ब्रह्मविषयत्वात् भक्तित्व- मस्तु, इति चेत्, सत्यम् । यद्यपि मर्यादामार्गीयज्ञानस्य ब्रह्मविषयत्वमस्ति, तथापि शुद्ध- ज्ञानमार्गे ब्रह्मपदस्याक्षरपर्यवसानात् न भक्तिरूपत्वम् । यथा 'ब्रह्मविदाप्नोति परम्,' 'तदेषा- भ्युक्ता, सत्यं ज्ञानमनन्तं ब्रह्म, यो वेद निहितं गुहायां परमे व्योमन्, सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति श्रुत्या । श्रुत्यन्तरेणापि 'न सदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति' इत्यादि- श्रुतिभिर्मुक्तिफलत्वेन ब्रह्मस्वरूपज्ञानमुक्तम् । ज्ञानमार्गे 'यो वेद निहितं गुहाया'मित्यु- क्तत्वात् हृदयाकाश एव अक्षरब्रह्मस्वरूपचिन्तनं मुक्तिसाधनत्वेनोक्तम् । श्रुत्यन्तरेपि 'हृदा मनीषां मनसाभिकॢप्तो य एनं विदु'रिति कथनात् ब्रह्मस्वरूपं प्रादेशमात्रमङ्गुष्ठ- मात्रं वा हृद्येव कल्पयित्वा हृद्येव दर्शनम्, न तु भक्तिमार्गवत् बहिरपीति । अत एवाचार्यैरुक्तं वेदस्य विद्यमानत्वात् मर्यादापि व्यवस्थितेति । एतावत्येव वेदोक्त- ज्ञानमार्गमर्यादा । एवं मर्यादाव्यवस्थांमुक्त्वा अग्रे कश्चिदेव हि भक्तो हीति कथनस्यायमाशयः । पूर्वो- क्तमर्यादामार्गीयस्यापि कदाचिद्भगवदनुग्रहेण भगवद्भक्तसङ्गेन वा यदि भगवति स्नेहोत्पत्ति- र्भवेत्, तदा तस्यापि मर्यादामार्गीयभक्तत्वेन भगवत्प्रियत्वं भवति । अत एव गीतायां श्रीभगवतोक्तं 'अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी । सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रिय' इति । कश्चिदेवेतिकथनात् ज्ञानमार्गीयभक्तिप्राप्तौ दुर्लभत्वमुक्तम् । हीति युक्तश्चायमर्थः । एकवारं हिशब्दस्य युक्तार्थत्वमुक्त्वा पुनर्हिशब्दकथनस्यायमाशयः । मर्यादामार्गीयो यदा मर्यादामार्गीयभक्तसङ्गृत्या भक्तः स्यात्, तदा जडभरतवत् प्रसिद्ध एव भवेदिति प्रसिद्धत्वज्ञापनार्थं हिशब्दः । ननु मर्यादामार्गेपि भक्तिकथनान्मर्यादा- मार्गीयभक्तेः पुष्टिभक्तेश्च समत्वं भवत्वित्याशङ्कानिरासायाहुः सर्वत्रोत्कर्ष¹कथनादिति । श्रीभागवतगीतादिषु 'भक्तियोगो बहुविध' इति यावन्तो भक्तिभेदा उक्तास्तेभ्यः सर्वेभ्यः उत्कर्षकथनात् पुष्टिरस्तीति निश्चयः सिद्धः । उत्कर्षश्च यथा गीतायां 'तपस्विभ्योऽधिको योगी ज्ञानिभ्योपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन'त्युक्त्वा 'योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मत' इति भजनस्यैव सर्वोत्कर्षकथनात् । साक्षाद्भजनं पुष्टिमार्ग एव, न तु मर्या- दाभक्तावपि । श्रीभागवते भगवद्वचनं 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति । तथा श्रुतिरपि 'तमु स्तोतारः पूर्व्यं यथा- विद ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो १. सर्वस्मिन् भक्तिमार्गेऽस्य स्नेहभक्तिरूपस्योत्कर्षकथनात् ।

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 262, कुल 408 में से · BharatKosha