षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 263, कुल 408 में से
संदर्भ में पढ़ेंपुष्टिम्रवाहमर्यादा । ५ सुमतिं भजामहे' इति श्रुतावपि भजनस्यैवोक्तत्वात् तद्भजनं पुष्टिमार्गे एवेति सर्वत्र पुष्टिमार्गस्यैवोत्कर्ष उक्त इति ज्ञापनायोक्तं सर्वत्रोत्कर्षकरणात् । सर्वमार्गेभ्यः पुष्टि- रुत्कृष्टेति ज्ञापनायोक्तं पुष्टिरस्तीति निश्चयः निर्गलितार्थः । तथा च गीतायां 'यो मा- मेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारते'ति कथनात् सर्वभावेन भजनं पुष्टिमार्ग एव, न त्वन्यत्रापीति । सर्वोपि । प्रकारभेदभिन्नः सर्वोपि भक्तिमार्गः मिलितः कदाचिदेतत्समौ भविष्यतीत्याशङ्कानिरासायाहुः न सर्व इति । एतत्पुष्टिमार्गसमः सर्वः सर्वोपि कोपि मार्गो न । अतः पुष्टिमार्गः प्रवाहाद्भिन्नः । वेदादपि वेदनिरूपितमर्यादामार्गादपि भिन्नः । कुतः । भेदतः । स्वरूपसाधनफलभेदतः । भेदादि- त्यर्थः । अत्र भेदे प्रमाणान्तरमप्याहुः यदा यस्येतिवचनादिति । 'यदा यस्यानुगृह्णाति भगवान् आत्मभावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिता' मिति । यदा यस्यानु- गृह्णाति भगवान् पुष्टिमार्गे, 'अनुगृह्णाति' इति पदाद्यदा अनुग्रहं करोति, तदैव पुष्टिमार्गे प्रवेशो भवति, तदा प्रवाहतो मर्यादातोपि पृथकरोति । अत एव सिद्धान्ते 'अनुग्रहः पुष्टि- मार्गे नियामक' इत्याचार्यवचनम् । गीतास्वपि 'नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपे'ति । 'अनन्यभक्त्ये'ति वचनात् पुष्टिरूपया भक्त्या द्रष्टुं शक्य इति भक्तिमार्गस्य साक्षाद्दर्शनहेतुत्वम्, न तु ज्ञानमार्ग- वत् मनस्येवेति नियमः । इत्याद्यनेकहेतुभ्यः सर्वोत्कृष्टत्वात् प्रवाहमार्गान् मर्यादामार्गाच्च भेद उक्तः ॥ ५ ॥ अत्र कश्चित् पूर्वपक्षी शङ्कते मार्गैकत्व इति । मार्गैकत्वेऽपि चेदन्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ त्रयाणां पुष्टिम्रवाहमर्यादामार्गाणां एकत्वमेव, भक्तिरूपत्वमेव । अस्यायमर्थः । यद्यपि पुष्टिमार्गस्य भक्तित्वमुभयवादिसम्मतमेव, तथापि अन्त्यौ प्रवाहमर्यादे तनू भक्त्यङ्गभूते । एवं सति ते अपि भक्त्यागमौ भक्तिप्रतिपादकशास्त्ररूपे मताविति तयो- र्भक्त्यङ्गत्वं यद्ब्रवीषि, तन्न प्रमाणसिद्धम् । तत्प्रमाणपूर्वकं तयोर्भक्त्यङ्गत्वं निराकुर्वन्ति न तद्युक्तमिति । तत्र प्रवाहमार्गस्य भक्त्यङ्गत्वनिराकरणे प्रमाणमाहुः सूत्रतो हीति । सूत्रं भक्तिमीमांसासूत्रम् । तद्यथा । 'तत्संस्थस्यामृतत्वोपदेशात्' । अस्यार्थस्तु, तत्संस्थस्य भक्ति- मार्गप्राप्यपुरुषोत्तमनिष्ठस्य अमृतत्वम् । तन्मार्गीयस्य साक्षाद्भगवत्सम्बन्धस्यामृतत्वोप- देशात् । अमृतत्वकथनादिति भक्तिमार्गीयसाधनफले निरूपिते । उपदेशस्तु, 'अनिमित्ता १. प्रवाहात् । अस्यैव व्याख्यानं प्रकारभेदभिन्नः सर्वोपि । २. पूर्वपक्षोक्तंकंनु श्री मत्कल्याणरायपादै- र्दर्शितमत्रापि बोध्यम् । तथाहि । ननु प्रवाहमर्यादामार्गयोरपि व्यवहारशुद्धिसाधकत्वे भक्त्युपयोगात् अङ्गाङ्गि- भावेनैको भक्तिमार्ग एवास्त्विति । ३. सूत्रं फलपरत्वेन व्याख्याय साधनपरत्वेनापि व्याकुर्वन्ति तन्मार्गीयस्येत्या- दि । ४. पुरुषोत्तमनिष्ठस्यामृतत्वं फलम् । साक्षाद्भगवदनुग्रहलक्षणस्तत्सम्बन्धः साधनं च निरूपितमित्यर्थः ।