भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 264, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 264

६ श्रीवल्लभकृतविवरणसमेता। भागवती भक्तिर्मुक्तेर्गरीयसी' । 'राजनपतिर्गुरुरलं भवतां यदूनां दैवं प्रियः कुलपतिः क्वच किंकरो च' । 'अस्त्वेवमेव भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति- योग'मित्यादि । प्रवाहमार्गस्य 'प्रवृत्तिं च निवृत्तिं चे'त्यारभ्य 'मामप्राप्यैवे'त्यन्तेन सर्वात्मना स्वसम्बन्धाभावकथनेन । अथ च भक्तिमार्गीयमुक्तेरमृतत्वकथनेन च प्रवाहमार्गीयमुक्ते- रधमगतित्वकथनेन च प्रवाहमार्गस्य न भक्त्यङ्गत्वमिति त्वदुक्ताङ्गित्वशङ्का निरस्ता । एवं प्रवाहमार्गस्य भक्त्यङ्गत्वं निराकृत्य मर्यादामार्गस्यापि भक्त्यङ्गत्वं निराकुर्वन्ति युक्त्या हि वैदिक इति । भिन्न इति शेषः । युक्त्येत्येकवचनं जात्यभिप्रायेण । तत्रैता युक्तयः । भगवद्गीतासु द्वादशाध्याये, 'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरम- व्यक्तं तेषां के योगवित्तमा' इति अर्जुनेन भक्तिज्ञानयोस्तारतम्यप्रश्ने कृते सति, भगवता 'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मता' इति भक्तिमार्गोत्कर्षमुक्त्वा, तदनन्तरं ज्ञानमार्गस्य अक्षरपर्यवसायित्वेन तारतम्यज्ञापनार्थं 'ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् । सन्निय- म्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । क्लेशोधिकतरस्तेषा- मव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते' । अत्र भगवता 'ते प्राप्नुवन्ति मामेवे'ति यदुक्तम्, तदक्षरस्य पुरुषोत्तमविभूतिरूपत्वात् ज्ञानमार्गस्याक्षरपर्यवसायित्व- ज्ञापनार्थम् । तत्रासौ 'सन्नियम्येन्द्रियग्राम'मित्यारभ्य 'अव्यक्ता हि गतिर्दुःखं देहवद्भि- रवाप्यत' इत्यन्तेन साधनानां क्लेशसाध्यत्वमुक्तम् । एतदग्रे 'मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय' इति भक्तिमार्गसाधनानां सुखरूपत्वकथनेन अनायासेन स्वप्राप्तिहेतुत्वमुक्तम् । 'मय्येवे'त्येवकारेण पुरुषोत्तमपर्यव- सायित्वं च । यद्यपि पूर्वं 'ते प्राप्नुवन्ति मामेवे'त्यत्रैवकारेण पुरुषोत्तमपर्यवसायित्वमपि सम्भवति, तथापि तत्र 'ये त्वक्षर'मित्येवोद्दिश्य 'मामेवे'त्युक्तत्वात् 'मा'मितिपदस्याक्षर- पर्यवसायित्वमेव, अत्र तु 'मय्येव मन आधत्स्वे'ति सुखरूपभक्तिमार्गमुद्दिश्य कथनेन 'मय्येव'पदं पुरुषोत्तमपरमेव । एवं मर्यादामार्गविभेदिकामेकां युक्तिमुक्त्वा अन्यां युक्ति- माहुः । 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति । यत्र भक्तियुक्तस्य मर्यादामार्गीयज्ञानस्य श्रेयस्त्वेनापि नोपयोगः, तत्र मर्यादामार्गीयज्ञानस्य तदुत्तराङ्गस्य वैराग्यस्यापि भक्त्यङ्गत्वभावे किं वाच्यमित्यपि युक्तिः। युक्त्यन्तरमपि । 'नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मपोतानां यथा भक्तिमतामिहे'त्यत्र 'गोपिकासुत' इति भगवति पूर्णपुरुषोत्तमत्वमुक्त्वा तस्य भक्तिमतां सुखावाप्तिकथनेन ज्ञानिनामक्षरप्राप्तौ क्लेशयुक्तसाधनत्वकथनेन भक्तिमार्गे पुरुषोत्तमः प्राप्यः, स च अनायासेनैव प्राप्यः । ज्ञानमार्गे अक्षरप्राप्तिः, सापि तु अधिकतरक्लेशेनेति भक्ति- १ 'एव'मित्यारभ्य 'आहु'रित्यन्तं 'तस्मान्मद्भक्ती'त्यादिग्रन्थस्य केनचिल्लिखित आभासो लेखकदोषान्मध्ये पतित इति भाति, असङ्गतत्वात् । इति टिप्पणं एकप्राचीनादर्शे । भगवत्कर्तृकत्वं वा कल्प्यं क्रियायाम् ।

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 264, कुल 408 में से · BharatKosha