भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 265, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 265

पुष्टिमवाहमर्यादा । ७ मार्गभेदिका युक्तयः किम्तोधिकं वाच्या इति ज्ञापनायोक्तं भिन्नो युक्त्या हि वैदिक इति । पूर्वं सूत्रतो हीति हिशब्देन सूत्रप्रामाण्येन प्रवाहमार्गस्य भक्तिमार्गाङ्गत्वभावस्य युक्तत्वं ज्ञापितम् । युक्त्या हि वैदिक इत्यत्र युक्तीनां गीताश्रीभागवतादिषु मर्यादा मार्गस्य भक्तिमार्गाङ्गत्वभावप्रसिद्धिद्योतनाय हिशब्दः ॥ ६ ॥ एवं सूत्रयुक्तिभ्यां प्रवाहमर्यादयोः पुष्टिमार्गाङ्गत्वभावं निरूप्यातः परं पुष्टिमार्ग- स्थानां जीवदेहकृतीनां मार्गद्वयापेक्षया सर्वात्मना सर्वप्रकारकोत्कर्षज्ञापनाय मार्गद्वयस्थ- जीवदेहकृतीनां स्वरूपं निरूपयन्ति जीवदेहकृतीनामिति । जीवदेहकृतीनां च भिन्नत्वं नित्यतः श्रुतेः । यथा तद्धत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः ॥ ७ १/२ ॥ प्रवाहमार्गे जीवा आसुराः, दैवजीवेभ्यो भिन्नाः, तेषां देहा भगवद्भजनप्रातिकूल्यात् दैवदेहेभ्यो भिन्नाः । तेषां कृतिरपि स्वार्थं पशुहिंसादिरूपा दैवजीवकृतेः सकाशाद्भिन्ना एव । एवं मर्यादामार्गेपि मर्यादामार्गीया दैवजीवाः प्रवाहमार्गीयासुरजीवेभ्यो भिन्नाः । तेषां देहा अपि वैदिकधर्मभगवत्पूजाद्यानुकूल्यात् आसुरजीवदेहेभ्यो भिन्नाः । तेषां कृति- रपि अग्निहोत्रादिश्रौतकर्मकरणेन मर्यादामार्गोक्तभगवत्पूजादिकरणेन ज्ञानोत्पत्त्यननु- कूलत्यागादिकरणेन च भिन्नैव । ननु भवता प्रवाहमर्यादयोर्जीवदेहकृतीनां भिन्नत्वं निरूपितम्, तत्र यथा मार्गद्वयेपि देहकृतीनामनित्यत्वं प्रतीयते, तथा मार्गद्वयजीवाना- मप्यनित्यत्वं भवत्वित्याशङ्कां निराकुर्वन्ति नित्यतेतिपदेन । तत्र हेतुः श्रुतेः । तत्रेयं श्रुतिः । ‘द्वा सुपर्णा सयुजा सखायौ समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्व- त्त्यनश्नन्नन्यो अभिचाकशीति’ इतिश्रुत्या अन्तर्यामिनित्यत्ववत् जीवस्य नित्यत्वं साधित- मिति न जीवानामनित्यत्वम् । अथवा । एवं मार्गद्वये जीवदेहकृतीनां भिन्नत्वं निरूप्य मार्गद्वयजीवदेहकृतीनां नित्यत्वकथनस्यायमाशयः । तत्र जीवानां नित्यत्वं सर्ववादि- सम्मतमस्त्येव, परं यद्यपि देहकृतीनां नित्यत्वं न प्रतीयते, तथापि देहकृतीनां नित्यता श्रुतेरिति नित्यत्वकथनस्यायमाशयः । प्रवाहमार्गीयो जीवो यदा उत्पद्यते, देहान्तरं गृह्णाति, तदा पूर्वदेहक्षणयुक्तमेव देहं गृह्णाति, प्राचीनदेहकर्मानुसारणेव कर्म करोति, न तु पूर्वदेहपरावृत्तौ देहान्तरं प्राप्तमिति पूर्वदेहधर्मपरावृत्तिरपि भवति । एवमेव पूर्व- कर्मणोपि । एवं प्रतिजन्मनि देहधर्मकर्मणां तादृशत्वम् । न तु विपर्यासः । एवं देह- कृतीनां प्रावाहिकीरीत्या नित्यत्वज्ञापनायोक्तं नित्यतेति । तत्र हेतुः श्रुतेरिति । श्रुतिश्च ‘सत्यं चानृतं च सत्यमभवत्’, ‘यदिदं किंच तत्सत्यमित्याचक्षते’ इति । अथवा । देहकृतीनां नित्यता लिङ्गशरीराभिप्रायेण । एवं मर्यादामार्गेपि जीवदेहकृतीनां नित्यता ज्ञेया । एवं यथा प्रवाहमर्यादामार्गीययोर्जीवदेहकृतीनां भिन्नत्वं नित्यत्वं चोक्तम्, तथा पुष्टिमार्गेपि १. ज्ञानोत्पत्त्यनुकूलेति पाठः । २. परावृत्तिरिति शेषः ।