षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 276, कुल 408 में से
संदर्भ में पढ़ेंश्रीगोपीजनवल्लभाय नमः। पुष्टिप्रवाहमर्यादा । श्रीरघुनाथकृतविवरणसमेता । नमो भक्तभयाभावभाविने भक्तिदायिने । श्रीमदग्निकुमाराय पारोवाराय सत्कृते ॥ १ ॥ इदानीं भगवत्प्राप्तिलक्षणमुख्यफलतदभावौ किंनिबन्धनाविति संशयं निवारयितुं मार्गभेदविचारमारभन्ते पुष्टिप्रवाहमर्यादा इति । पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥ वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः। पुष्टिरनुग्रहो धर्म्येकनिष्ठः, स एको मार्गः। प्रवाहो 'जायस्व म्रियस्वे'त्येवं- रूपः। मर्यादा वेदोक्तवचनोत्थो मार्गः। एतान् पृथक् पृथक् प्रत्येकं तेषामसाधारण- लक्षणैर्जीवदेहप्रवाहक्रियाफलरूपैर्विशिष्य यथा ज्ञायन्ते, तथा वक्ष्यामि, यतो यच्छ्रू- वणानन्तरं पूर्वसन्देहाः सर्वविषयका न भविष्यन्तीत्यर्थः। अत्र जीवप्रवाहयोर्विशेषण- विशेष्यभावेनैक्यं ज्ञेयम्, न भेदः। देहक्रिययोरप्येवमेव ज्ञेयम्। भेदानग्रे स्वयमेव वदिष्यन्ति ॥ १ ॥ मार्गत्रयसद्भावं प्रमाणयन्ति भक्तिमार्गस्येति । भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥ 'द्वौ भूतसर्गौ'वित्युक्तेः प्रवाहोपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ कथनादिति । श्रीभागवतगीतादौ । अत्र भक्तिरूपकार्येण कारणं पुष्टिरस्तीति निश्चीयते । इदं धर्मिनिष्ठं पुष्टिमार्गे प्रमाणमुक्तम् । 'द्वौ भूतसर्गौ लोकेस्मिन् दैव आसुर एव चे' त्याद्युक्तेः प्रवाहाख्योपि मार्गः प्रमाणसिद्धोस्तीति निश्चीयते । काण्डत्रयात्मक- वेदस्य विद्यमानत्वाच्छ्रूयमाणत्वान्मर्यादामार्गेपि सप्रमाणत्वं सिद्धम् ॥ ३ ॥ त्रयाणामसङ्कीर्णमितरेतरभेदकं लक्षणमाह कश्चिदिति । कश्चिदेव हि भक्तो हि 'यो मद्भक्त' इतीरणात् । सर्वत्रोत्कर्षंकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥ १. मुक्तिदायिने । २. पारः संसारस्तदुत्तारकायेत्यर्थः । ३. प्रवाहेतिनास्ति ४. अतः। ५. वेदेति नास्ति क्वचित् ।