षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 28, कुल 408 में से
संदर्भ में पढ़ें१४ श्रीयमुनाष्टकम् । प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका- अनेकस्वनैरिति शुकादिविशेषणम् । एतेन विभावादिसामग्र्युक्ता । यत्र यथोचितं तत्र तथा कुर्वन्तीति प्रियापदम् । तीरस्य चाकचक्यवत्सिक्ततां- कृतशोभां तत्स्वरूपमप्याहुस्तरङ्गेति । यदा तरङ्गास्तीरमागत्य प्रसृता भवन्ति तदा तीरसिकता मुक्तावद्भासन्ते । ता न सिकताः । लोकप्रतीतिः परं तथा । किन्तु तरङ्गा एव भुजास्तत्र यानि कङ्कणानि तत्र प्रकटा या
श्रीहरिरायप्रणीतं टिप्पणम् । ये धर्मास्तदनुकूला अपेक्ष्यन्ते विभावादिसामग्रीसेविकांसाहित्यस्वरूपसौन्दर्यादयस्ता- नित्यर्थः । प्रयोजनमिति, रविमण्डलाद्गव्यागमनप्रयोजनमित्यर्थः । भुवनेति, भुवनं लोकः सर्वोऽपि लीलासृष्टिस्थिततदतिरिक्त रूपस्तस्य भगवद्भावान्यभावराहित्य- सम्पादनभगवत्सेवनार्हशरीरसम्पादनाभ्यां पावनीं शोधिकामित्यर्थः । शुद्धिरत्र पुष्टिमार्गीयैव वाच्या । सा च पूर्वोक्तरूपैवेति तथेति भावः । भगवति स्नेहाति- ऽशय इति, तरङ्गभुजेत्यादिविशेषणेनाऽप्राकृताखिलाकल्पभूषितत्वबोधकेन तथाविधे भगवति सजातीयतया स्नेहातिशयो द्योतित इत्यर्थः । अप्राकृतानामप्राकृते वस्तुनि प्रीतिभरसम्भवस्योचितत्वादिति भावः । नमन कृष्णतुर्यप्रियामिति मूले । तत्रा- ऽयमाशयः । अत्र स्तोत्रे विविधलीलोपयोगिनी श्रीयमुना प्रस्तूयते । तत्र च कृष्ण- तुर्यप्रियात्वमनुपपन्नम् । तस्य धर्मस्य कालिन्दीनिष्ठत्वात् । इयं च ततो भिन्ना,
श्रीपुरुषोत्तमप्रणीता विवृतिः । पान् सप्तराशींश्च वारामाग्राद्वित्वा प्राङ्मुखी पावयन्ती । यास्येऽस्ताद्रेरुद्रमाद्रिं विहर्तुं खेलन्तीव स्वाश्रिताघापनुत्त्यै” इति तत्रैव यमं प्रति श्रीयमुनावाक्यात् । अनेक- स्वनैरित्यस्योपलक्षकत्ववारणायाऽऽहुः शुकादीति । प्रियापदं प्रियसखीबोधक- मित्याशयेनाऽऽहुर्यत्रेत्यादि । चाकचक्यवत्सिक्ततेति चाकचक्यवत्यो याः सिकता इत्यर्थः । विशेषणेनेत्येकवचनेनेतरयोः स्नेहबोधकत्वं द्योतितम् । तथा चेतराभ्यां स्नेहो बोध्यतेऽनेन त्ववस्थाविशेषकृतोऽतिशय इत्यर्थः । तेन यदि भग- वति स्नेहो न स्यान्मूलधाम विहाय भगवद्विचारितभुवनपावनात्मककार्यार्थं भुवं नेयान् । आगत्य च लीलार्थं ससामग्रीका न स्यात् । यदि तदतिशयो न स्यात्ता-
१ सेवकसाहित्येति च.