भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 28, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 28

१४ श्रीयमुनाष्टकम् । प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका- अनेकस्वनैरिति शुकादिविशेषणम् । एतेन विभावादिसामग्र्युक्ता । यत्र यथोचितं तत्र तथा कुर्वन्तीति प्रियापदम् । तीरस्य चाकचक्यवत्सिक्ततां- कृतशोभां तत्स्वरूपमप्याहुस्तरङ्गेति । यदा तरङ्गास्तीरमागत्य प्रसृता भवन्ति तदा तीरसिकता मुक्तावद्भासन्ते । ता न सिकताः । लोकप्रतीतिः परं तथा । किन्तु तरङ्गा एव भुजास्तत्र यानि कङ्कणानि तत्र प्रकटा या

श्रीहरिरायप्रणीतं टिप्पणम् । ये धर्मास्तदनुकूला अपेक्ष्यन्ते विभावादिसामग्रीसेविकांसाहित्यस्वरूपसौन्दर्यादयस्ता- नित्यर्थः । प्रयोजनमिति, रविमण्डलाद्गव्यागमनप्रयोजनमित्यर्थः । भुवनेति, भुवनं लोकः सर्वोऽपि लीलासृष्टिस्थिततदतिरिक्त रूपस्तस्य भगवद्भावान्यभावराहित्य- सम्पादनभगवत्सेवनार्हशरीरसम्पादनाभ्यां पावनीं शोधिकामित्यर्थः । शुद्धिरत्र पुष्टिमार्गीयैव वाच्या । सा च पूर्वोक्तरूपैवेति तथेति भावः । भगवति स्नेहाति- ऽशय इति, तरङ्गभुजेत्यादिविशेषणेनाऽप्राकृताखिलाकल्पभूषितत्वबोधकेन तथाविधे भगवति सजातीयतया स्नेहातिशयो द्योतित इत्यर्थः । अप्राकृतानामप्राकृते वस्तुनि प्रीतिभरसम्भवस्योचितत्वादिति भावः । नमन कृष्णतुर्यप्रियामिति मूले । तत्रा- ऽयमाशयः । अत्र स्तोत्रे विविधलीलोपयोगिनी श्रीयमुना प्रस्तूयते । तत्र च कृष्ण- तुर्यप्रियात्वमनुपपन्नम् । तस्य धर्मस्य कालिन्दीनिष्ठत्वात् । इयं च ततो भिन्ना,

श्रीपुरुषोत्तमप्रणीता विवृतिः । पान् सप्तराशींश्च वारामाग्राद्वित्वा प्राङ्मुखी पावयन्ती । यास्येऽस्ताद्रेरुद्रमाद्रिं विहर्तुं खेलन्तीव स्वाश्रिताघापनुत्त्यै” इति तत्रैव यमं प्रति श्रीयमुनावाक्यात् । अनेक- स्वनैरित्यस्योपलक्षकत्ववारणायाऽऽहुः शुकादीति । प्रियापदं प्रियसखीबोधक- मित्याशयेनाऽऽहुर्यत्रेत्यादि । चाकचक्यवत्सिक्ततेति चाकचक्यवत्यो याः सिकता इत्यर्थः । विशेषणेनेत्येकवचनेनेतरयोः स्नेहबोधकत्वं द्योतितम् । तथा चेतराभ्यां स्नेहो बोध्यतेऽनेन त्ववस्थाविशेषकृतोऽतिशय इत्यर्थः । तेन यदि भग- वति स्नेहो न स्यान्मूलधाम विहाय भगवद्विचारितभुवनपावनात्मककार्यार्थं भुवं नेयान् । आगत्य च लीलार्थं ससामग्रीका न स्यात् । यदि तदतिशयो न स्यात्ता-

१ सेवकसाहित्येति च.