षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 29, कुल 408 में से
संदर्भ में पढ़ें[Page Header] श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। १५
नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥ मुक्तिका मुक्ताफलानि तान्येव वालुकावत्प्रतीयमानानि तद्युक्तो यो नितम्ब एवोच्चदेशात्मकतटस्तेन तादृशीम्। भगवति स्नेहातिशयो विशेषणेनोक्तः ॥३॥
श्रीहरिरायप्रणीतं टिप्पणम्। "वसामि यमुनाजल' इति वाक्यात् । यद्यप्यस्यामभेदेन भगवति देवकीपुत्रत्वव- त्कालिन्दीत्वं वक्तुं शक्यम्, न तु तुर्यप्रियात्वम्, तदधिष्ठानत्वेन तद्रूपत्वोक्त्यौ- चित्येऽपि तद्धर्मवत्त्वोक्तेरनुचितत्वात्, असाधारणधर्माणां तद्रूपमात्रनिष्ठत्वेनोपास- कैरन्यत्राऽविभावनीयत्वात् । अन्यथा भावने "योऽन्यथा सन्तमात्मानम्"ति वाक्याद्दोषश्च । न हि सीतापत्तिः पुरुषोत्तमोऽपि रसात्मकश्रीगोपीजनवल्लभत्वेनो- पासकैर्विभाव्यते । अन्यधर्मवत्त्वेनाऽन्यरूपभावने "तं यथा यथोपासते तथैव भवति तद्धैतान् भूत्वाऽवति"ति श्रुतेः स्वाभीष्टसाक्षात्काराभावेन फलासिद्धेः । १ ननु रूपा- न्तरदर्शनोद्भूतभावस्य रूपान्तरेण कथं फलसिद्धिर्र्यथा रघुपतिवर्यवितीर्णवरस्य श्रीव्रजनाथेनेति चेत् । सत्यम् । तत्र हि श्रीरघुनाथस्य गुरोरिवोपदेशद्वारा फल- प्रापकत्वं स्वाविष्टमूलरूपत्वेन न तु साक्षाद्दातुत्वम्, मर्यादापुरुषोत्तमत्वात् । न हि तेन पुष्टिमार्गाङ्गीकारस्तत्फलदानं च शक्यते विधातुम् । तत्त्वं च दाम्पत्यर- सात्मकत्वेन तद्धर्मसहितत्वम् । तत्र मर्यादया फलदानाद्भगवन्मार्गीयगुरुणेव
श्रीपुरुषोत्तमप्रणीता विवृतिः । दृक्तवती न स्यादिति तर्का एतैर्बोधिताः । तावता रतिवर्द्धकत्वमनुमानेन दृढी- कृतम् । किञ्चैतेनाऽऽधिदैविक्या भगवदवतारोत्तरमवतरणं तादृग्लीलादावेव च तदाविर्भाव इत्यपि ज्ञापितम् । तेन "मघोनि वर्षत्यसकृद्यमानुजे"त्यत्र व्याख्या- तदोषगुणयोर्न विरोधः । नमत कृष्णतुर्यप्रियामिति न व्याख्यातम् । नमनतात्पर्यस्य पूर्वमुक्तत्वेनोपदेशमात्रस्य स्फुटत्वात् । "कालिन्दीति समाख्याता वसामि यमुना- जल" इत्यत्र कालिन्दीयमुनयोर्भेदस्य श्रीभागवते मूल एव स्फुटत्वेन तयोराधिदै- विकाधिभौतिकभावस्य तत्सुबोधिन्यां सोपपत्तिकं निरस्तत्वेन च श्रीरुक्मिण्या- दित्रयसापेक्षस्य तुरीयत्वस्याऽशक्यवचनतया सात्त्विकादित्रयसापेक्षस्य गुणातीता- त्मकस्य तस्य स्फुटत्वात् । न च महिषीष्वनन्तर्भावे प्रियात्वस्यैवाऽसिद्ध्या तुर्य- प्रियात्वस्य सुतरामसिद्धिरिति शङ्क्यम्, यमुनामाहात्म्ये यमुनाभिषेकाध्याये पूर्वं भगवत्कृतमाश्लेषमुक्त्वा "यमुनाऽप्यच्युतेनैवं सुसंस्कृताऽथ शिक्षिता । शङ्खाम्बुना-
[Footnotes] १ तद्वैतानिति च. तद्वैनानिति ख.