षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 30, कुल 408 में से
संदर्भ में पढ़ें१६ श्रीयमुनाष्टकम् । अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते भगवत्समानधर्मत्वं ज्ञापयितुं तथा विशेषणैराहुरनन्तेति । प्रभौ सप्तम्यन्तानि विशेषणानि । तत्प्रियायां सम्बुद्धिरूपाणि । घनाघनशब्दो श्रीहरिरायप्रणीतं टिप्पणम् । तद्विधिनिरूपणेन । अतस्तदुक्त्यनुपपत्तिरिति चेत् । अत्र वदामः । व्रजे हि भगव- द्भोग्याः स्वामिन्यश्चतुर्विधाः । तत्रैका मुख्या भगवतः स्वामिनी सर्वविलक्षणा । अस्यां चाऽनन्यपूर्वाऽन्यपूर्वोभयरूपत्वाभावः । भगवतो रसात्मकस्य श्रुतिसिद्धस्याऽऽलम्बन- विभावत्वेन तथात्वसम्पादकत्वात् । श्रुतिरूपा गोपगृहेषु स्थिताः सर्वात्मभाववत्यः प्रौढा एकाः । तथा कुमारिका व्रजस्था अनन्यपूर्वा विवाहाभावेऽपि वसनादानेन स्वकीयाः कृताश्चाऽपराः । चतुर्थी श्रीयमुना । तस्यामपि क्रीडाव्याजेन सर्वाङ्ग- सम्बन्धसम्पादनेन स्वातन्त्र्येण तया सह क्रीडेति सा चतुर्थी । अत एवैतदभिप्रायेण तत्र तुर्यप्रियात्वोक्तिर्न तु तुर्यभार्यात्वोक्तिरिति नाऽनुपपत्तिः काचित् ॥ ३ ॥ भगवत्समानधर्मत्वं ज्ञापयितुमिति । भगवान् हि षड्गुणैः स्वरूपेण च सप्त- विधः । तत्र गुणाः षड् ऐश्वर्यादयः । तेऽपि पुष्टिमार्गीयमर्यादामार्गीयतद्भेदेन विविधाः । तत्र पुष्टिमार्गीयाः षट् फलप्रकरणे वेणुगीते च-“धन्यास्त्वि”ति श्लोक- श्रीपुरुषोत्तमप्रणीता विवृत्तिः । ऽभिषिच्यैनां त्वत्तो नाऽन्याऽस्ति पावनी”त्यादिकं चोक्त्वा “अपि ब्रह्मणः पाप- मपनेष्यसि सेविता, सप्तरात्रात्तु सान्निध्यं न ते त्यक्ष्यामि कर्हिचिदि”ति भगवता सर्वदा स्वसान्निध्यरूपवरदानात्तैरर्थैः प्रियात्वस्य सिद्धावुक्तरीत्या तुर्यप्रियात्वस्य सुखेनैव सिद्धिरिति । साम्प्रदायिकास्तु केचन मुख्यस्वामिन्यग्निकुमारश्रुतिरूपसापे- क्षत्वेनाऽऽहुः । केचन मुख्यतत्तत्सङ्गमुख्यसापेक्षत्वेनाऽऽहुः । ताभ्यामपि मदु- क्तिर्न विरुध्यते । अत्र ध्रुवं समधिगतामिति विशेषणेन कर्मभूमिगतपापात्मक- प्रतिबन्धनिवृत्तिसूचनाच्छेषाभ्यां विशेषणाभ्यां सखीभिराभरणैश्च भूषितत्वबोधनेन भगवत्सान्निध्यसूचनाद्विवक्षितशुद्धिसम्पादकत्वरूपं तृतीयमैश्वर्यं दृढीकृतम् ॥ ३ ॥ अतः परं तुर्यत्वबोधितगुणातीतत्वसमर्थनाय भुवनपावनीत्वनिष्कर्षाय च तुरीयः श्लोक इति ज्ञापयन्तस्तमवतारयन्ति भगवदित्यादि । साम्प्रदायिकोक्ततुर्यत्वपक्षस्त्वष्टमे स्फुटीभविष्यति । तथा विशेषणैरिति । विशेष्यसहितैः षड्भिस्तैरित्यर्थः । समानधर्म- १ तद्विधिनिरूपणेन फलदातृत्वमिति च. २ वसनदानेनेति क-ग-घ-ङ-च.