षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 31, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणेविवृतिभ्यां संवलितम्। १७ घनाघननिभे सदा ध्रुवपराशराभीष्टदे । निपातरूपो घनसमुदायं वदति । श्यामे । तादृशीति वा । ध्रुवादेस्तत्तीर श्रीहरिरायप्रणीतं टिप्पणम् । षट्केन निरूपिताः प्रभुचरणैः। तेऽत्राऽपि तत्समानसङ्ख्याकैर्विशेषणैः श्रीयमुनायां निरू- प्यन्ते । तथाहि । सप्तम्यन्तप्रभुविशेषणपक्षे अनन्ता असङ्ख्याता नित्याश्च ये गुणास्तै- र्भूषिते अलङ्कृते प्रभावित्यर्थः । सम्बुद्ध्यन्ततया श्रीयमुनापक्षे अनन्तस्य नित्यस्य रासो- त्सवादिषु बहुरूपस्य वा भगवतो ये गुणा भक्तकार्यसाधकत्वादयस्तैर्भूषिते इत्यर्थः । एतेन सर्वसद्गुणसततसाहित्यान्न 'गुणाः सर्वत्र पूज्यन्त' इति वाक्यात् । “पूज्यो हि भग- वान् तद्गुणाश्चे'त्याचार्यचरणवचनाच्च गुणानां पूज्यतावच्छेदकधर्मरूपत्वाद् “ईश्वरः पूज्यते लोके मूढैरपि यदा तदे”ति श्लोकनिरूपितमैश्वर्यं निरूपितमिति भावः । शिवविरञ्चिदेवस्तुते इति विशेषणेन पक्षद्वयेऽपि “वीर्यं देवेष्वि”त्यत्र निरूपितं वीर्यं निरूपितमित्यर्थः। घनाघननिभे इति विशेषणेन पक्षद्वयेऽपि स्वरूपसौन्दर्यं सर्वविस्मारकं विश्वजीवनत्वादिकं च निरूपितमिति “यशो यदि विमूढानां प्रत्यक्षासक्तिवारणा- दि”त्यत्रोक्तं यशो निरूपितमित्यर्थः । ध्रुवपराशराभीष्टदे इति विशेषणेन स्वसे- वकानामप्यैश्वर्यज्ञानरूपाभीष्टप्रदानेन तेषामपि तद्भोगात् “श्रियो हि परमा काष्ठा सेवकास्तादृशा यदी”त्यत्रोक्ता श्रीर्निरूपितेत्यर्थः । श्रीपुरुषोत्तमप्रणीता विवृतिः । वत्त्वमत्र न समानसङ्ख्यामात्रबोधितमपि तु पदार्थसाम्येनाऽपीत्याशयेनाऽऽहुः प्रभा- वित्यादि । तथा च विभक्तिरेव विपरिणीयते न त्वर्थो भेद्यत इत्यर्थः । निपातरूप इति, अव्युत्पन्न इत्यर्थः । यद्यपि कृदन्ते “हन्तेर्घत्वञ्चे”त्यनेन हन्तेः कर्तरि घनाघन- शब्दो व्युत्पादितस्तथापि मेघे वाच्ये यौगिकोऽर्थो न विवक्षित इति तथोक्तम् । तादृशी इति वेति। भगवति श्यामवर्णस्य “श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्य” इति श्रुतिसिद्धत्वात्तदर्थनिश्चायके 'अथवा शून्यवद्गाढमि'ति तत्त्वदीपश्लोके स्वरूपा- भिन्नत्वेनोपपादनाद्भगवत्पक्षे घनाघननिभपदस्य विशेष्यत्वे स्फुटेऽपि तत्प्रियापक्षे तन्न स्फुटमिति तत्रापि 'ततश्च कृष्णोपवने' 'कृष्णाया हस्ततरले'त्यादिश्रीभागवत- वाक्ये कृष्णापदस्य नामत्वेन बोधनादस्य तत्स्मारकत्वेन तथात्वं बोध्यमित्या- ३