षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
DevanagariHindipublished408 पृष्ठ
पृष्ठ 284, कुल 408 में से
संदर्भ में पढ़ेंपृष्ठ 284
२६ श्रीकल्याणरायकृतविवरणसमेता । करत्वात् । ननु कथमेवम् ? इत्थम् । पुष्टेर्भगवदनुग्रहरूपत्वेन भक्तेर्भगवदनुग्रहैकसा- ध्यत्वान्निःसाधनोऽनुग्रहः पुष्टिरित्युच्यते । साधनमिश्रभावात् साधनानुग्रहो भक्तिमार्गे मर्यादाद्युच्यते । अत एवोक्तमाचार्यैः श्रीभागवततत्त्वदीपे 'पुष्टिरत्र द्विरूपा हि मर्या- दापुष्टिभेदतः । विश्वरूपस्तु मर्यादा द्वितीयो वृत्र उच्यत' इति । तेन स ससाधनानुग्रह एव दानादिसाधनद्वारा भक्तिं जनयतीति नानुपपन्नं किञ्चित् । एतदेवोक्तं भक्तिहंसे श्रीमत्प्रभुचरणैः 'वरणे चास्ति प्रकारद्वयं मर्यादापुष्टिभेदेने'ति । प्रावाहिकभक्तिस्तु भक्तस्य फलार्थं भगवति सापेक्षत्वमात्रेण स्नेहाभावेन भक्तिमार्गे किञ्चिद्धर्मसाम्येन प्रावाहिकभक्तौ भक्तिपदप्रयोगात् पूजातुल्येति । तेन पुष्टिभक्तिरेव मुख्या । परमानुरागरूपत्वात् । 'सा परानुरक्तिरीश्वरे' इति शाण्डिल्यसूत्रात् । मर्यादाभक्तिस्तु भक्तिदेशीया परमानुरागाभावात् । प्रावाहिकभक्तिस्तु सापेक्षतारूपेति पूजातुल्या, परं भक्तिमार्गसम्बन्धादङ्गीकरूपेति । एत- देवोक्तं भक्तिहंसे 'भक्तिमार्गीयभक्तकृत(भक्ति)साम्प्रदायिकदीक्षापूर्वकं मोक्षसाधनत्वेन क्रियमाणः श्रवणादिः प्रावाहिकी भक्तिरुच्यत' इति । मर्यादामार्गस्थं ज्ञानमार्गस्थं वा जीवं यदि भगवाननुगृह्णाति, तदा स पुष्टिमार्गं प्राप्य तन्मार्गीयं फलं प्राप्नोति । एतदेवोक्तं सिद्धान्तमुक्तावल्यां 'उभयोस्तु क्रमेणैव पूर्वोक्तैव फलिष्यती'ति । तेनानुग्रहसाध्या भक्तिरिति सिद्धम् । अतः सुष्ठुक्तं 'भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चय' इति ॥ २ ॥ प्रवाहसत्त्वे प्रमाणमाहुः । 'द्वौ भूतसर्गा'वित्युक़्तेः प्रवाहोऽपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ 'द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव चे'ति वाक्यात् प्रवाहोऽपि सिद्धः । मर्यादा सत्त्वे प्रमाणमाहुः । काण्डद्वयात्मकस्य वेदस्य श्रूयमाणत्वान्मर्यादामार्गोऽपि सिद्धः ॥ भक्तेः पुष्टिसाधकत्वमुक्त्वा दुर्लभत्वमाहुः । कश्चिदेव हि भक्तो हि 'यो मद्भक्त' इतीरणात् । सर्वत्रोत्कर्षकथनात् पुष्टिरस्तीति निश्चयः ॥ ४ ॥ कश्चिदेव हि भक्तो भवति, न सर्वः । अन्यथा भगवान् 'यो मद्भक्त' इति न वदेत् । भक्तेः पुष्टिसाधकत्वमुक्त्वा भक्तिभक्तयोरुत्कर्षस्यापि पुष्टिसाधकत्वमाहुः । सर्वत्र गीताश्रीभागवतादौ 'भक्त्या मामभिजानाति,' 'भक्त्या त्वनन्यया शक्य' इत्यादि 'यत्कर्मभिर्यत्तपसे'त्यारभ्य 'सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसे'त्यन्तेन । 'भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते' । 'मध्यनन्ते गुणे ब्रह्मण्यानन्दानुभवात्मनि । नालं द्विजत्व'मित्युपक्रम्य 'प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बन'मित्यन्तेन । 'मय्या- वेश्य'इत्यारभ्य 'ते मे युक्ततमा मता' इत्यन्तेन, 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्,' 'कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति,' 'ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः,' 'ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम्', 'अहं भक्तपराधीन'
१. प्रवाहमार्गस्यास्थिति पाठः ।