षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 285, कुल 408 में से
संदर्भ में पढ़ेंपुष्टिप्रवाहमर्यादा । २७ इत्युपक्रम्य, 'वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'त्यन्तेन, 'एताः पर'मित्या- रभ्य, 'पुनाति भुवनत्रय'मिति श्लोकषट्केन च उत्कर्षंकथनात् पुष्टिस्तीति निश्चीयत इत्यर्थः । नहि भक्तिर्भक्तत्वमेतादृशोऽर्थो भगवदनुग्रहं विना प्राप्यते ॥ ४ ॥ पुष्टिमार्गीयस्य प्रवाहमर्यादामार्गस्थाभ्यां भेदमाहुः । न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः । 'यदा यस्ये'ति वचना'न्नाहं वेदै'रितीरणात् ॥ ५ ॥ 'यदा यस्यानुगृह्णाति भगवान्नात्मभावितः । स जहाति मतिं लोके वेदे च परिनि- ष्ठिता'मिति वाक्याद्यं भगवाननुगृह्णाति, स पुष्टिमार्गीयो भवति, न सर्वः । अतः प्रवा- हाद्भेदः । हि युक्तोयमर्थस्ततो वैलक्षण्यात् । 'नाहं वेदै'रित्यारभ्य 'परन्तपे'त्यन्तेन अन- न्यभक्त्यैव भगवान् ज्ञातुं द्रष्टुं शक्यः, नान्यसाधनैरिति भेदतः वैलक्षण्यात् वेदाच्च भिन्नः, वेदोक्तमर्यादामार्गस्थादपि पुष्टिमार्गस्थभक्तो भिन्न इत्यर्थः ॥ ५ ॥ मार्गैकत्वेपि चेदन्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ कस्यचित्पूर्वपक्षं निराकुर्वन्ति । तथाहि । ननु प्रवाहमर्यादामार्गयोरपि व्यवहारशुद्धि- साधकत्वेन भक्त्युपयोगात् अङ्गाङ्गिभावेनैको भक्तिमार्ग एवास्त्विति चेत्, न । मार्गकत्वे स्वीक्रियमाणे प्रवाहमर्यादामार्गावङ्गत्वेन भक्तिफलप्रापकत्वेन तव सम्मतौ, तन्न युक्तम् । यदि प्रवाहमर्यादामार्गयोर्भक्तिफलेन फलवत्त्वं स्यात्, तदा तदङ्गत्वं स्यात्, तदेवाङ्गं भवति यत्प्रधानफलेन फलवद्भवति, न स्वतः, प्रयाजादिवत्, 'फलवत्सन्निधावफलं तदङ्ग'मित्यङ्गलक्षणात् । अत्र भक्तिमार्गे 'तन्निष्ठस्य मोक्षोपदेशा'दिति व्याससूत्रेण भगव- त्परस्य मोक्षः फलत्वेनोच्यते । तथा भक्तिमीमांसायां शाण्डिल्यसूत्रं 'तत्संस्थस्यामृतत्वोपदे- शा'दिति । अस्यार्थस्तु । तस्मिन्नीश्वरे संस्था भक्तिर्यस्य तस्यामृतत्वं फलमुपदिश्यते । 'ब्रह्म- संस्थोऽमृतत्वमेती'ति । एतद्विचारेण भगवत्प्रीतिफलकत्वात् । प्रवाहमर्यादामार्गयोः जन्मा- दिसंसारस्वर्गादिफलकत्वात् । परम्परया निमित्तकारणत्वेन देशादिवदुपयोगात्तयोर्न भक्त्य- ङ्गत्वमिति नाङ्गाङ्गिभावेन मार्गैकत्वसिद्धिः । युक्तिस्तु यदि मर्यादामार्गो भक्तिमार्गाभिन्नः स्यात्, तदा भक्तिमार्गीयमेव फलं दद्यात् । स्वर्गादिफलदातृत्वाद्दैदिको मार्गो भिन्नः । अलौकिकफलदातृत्वाभावात् प्रवाहो नोक्तः ॥ ६ ॥ पुष्टिमार्गस्य भेदज्ञानार्थं तत्रत्यानां वैलक्षण्यमाहुः । जीवदेहकृतीनां च भिन्नत्वं नित्यता श्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥ यथा श्रुतेर्वेदस्य लौकिकवाक्यसमानत्वेन गृह्यमाणस्यापि नित्यता, 'स्वयम्भूरैष भगवान् देवो गीतस्त्वया पुरा । शिवाद्या ऋषिपर्यन्ताः स्मातारोऽस्य न कारकाः । १' 'वेदो नारायणः साक्षात् स्वयंभूरिति शुश्रुम' इत्यादिवाक्यैर्लौकिकवाक्यभिन्नत्वं च, तथा १. निरोधहृपा ।