भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 287, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 287

पुष्टिप्रवाहमर्यादा । २९ भक्तिमार्गीया भवन्ति, अन्ये दैवा एव कर्मिणः वेदोक्तफलभाजो भवन्ति । अवशिष्टा जीवाः 'प्रवृत्तिं च निवृत्तिं चे'त्यारभ्य 'प्रद्विषन्तोऽभ्यसूयका' इत्यन्तेन निरूपितानां 'तानहं द्विषतः क्रूरा'नित्यारभ्य 'ततो यान्त्यधमां गतिं' मित्यन्तेनाधमगतित्वेन निरूपणात् प्रवाहस्था आसुराः पूर्वोक्तेभ्यो भिन्ना इत्यर्थः । अत एवैतौ पुष्टिमार्गीयमर्यादामार्गीयजीवौ एभ्यो भिन्नौ । तत्र हेतुः । सान्तौ अन्तः फलपर्यवसानं तत्सहितौ, कुतः, मोक्षप्रवेशत इति । मर्यादामार्गीयस्य मोक्षात् पुष्टिमार्गीयस्य लीलाप्रवेशत इत्यर्थः ॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥ अत्युत्कर्षादपि पुष्टिमार्गीयाणां भेदमाहुः । यस्मात् सर्वोत्कृष्टातस्तस्मात् पुष्टिमार्गीय- जीवास्तेभ्यो भिन्ना एवेत्यर्थः । विपक्षे बाधकं तर्कमाहुः भगवद्रूपसेवार्थमिति । यदि पुष्टिमार्गीयाः सर्वोत्कृष्टा न स्युः, तदा साक्षात्पुरुषोत्तमस्वरूपसेवार्थं तत्सृष्टिर्न भवेत् ॥ शुद्धपुष्टिमार्गीयाणां सेवार्थं सहकारियोग्यतामाहुः । स्वरूपेणावतारेण लिङ्गेन च गुणेन च । तारतम्यं न स्वरूपे देहे वा न क्रियासु वा ॥ १३ ॥ लीलासृष्टेर्भगवद्रूपत्वात् स्वरूपसाम्यम् । यथा भगवदवतारः प्रादुर्भावो न जीववज्जन्म, तथा मुख्यभक्तानामपीत्यवतारसाम्यम् । अलौकिकत्वज्ञापकस्य भगवता समं नृत्यादिसामर्थ्यस्य विद्यमानत्वात् चिह्नसाम्यम् । गुणाः सौन्दर्यादयस्तत्साम्यं स्पष्टमेव । तेन तासां क्रियासु स्वरूपे देहे वा न तारतम्यमित्यर्थः । भगवतो लीलान्तःपातिनां भक्तानां च स्वरूपादिभिस्तुल्यत्वम्, न तूत्कर्षापकर्षाविति श्लोकार्थः ॥ १३ ॥ तथापि भगवान् स्वार्थं तारतम्यं करोतीत्याहुः । तथापि यावता कार्यं तावत्तस्य करोति हि । स्वरूपादेस्तुल्यत्वेपि भगवान् स्वस्य कार्यं रमणं स्वस्य भक्तानां च यावता तारतम्येन सिध्यति, तावत्तारतम्यं प्रकटयति । हि युक्तोयमर्थः । उत्कर्षापकर्षवैचित्र्यैर्विना समग्ररमणासिद्धेः । अत एव बाललीलादयो युक्तरूपा भवन्तीति दिक् ॥ १३½ ॥ एवं विशेषलीलायास्साधनानि प्रकारं चोक्त्वा सामान्यलीलायाः साधनानि प्रकारं चाहुः ते हीत्यारभ्य, भवेदित्यन्तेन । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । एवं सर्गस्तु तेषां हि फलमत्र निरूप्यते ॥ १६ ॥ भगवानैव हि फलं स यथाविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७ ॥