भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 288, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 288

३० श्रीकल्याणरायकृतविवरणसमेता ।

ते पूर्वोक्ताः त्रयोपि मार्गाः द्विधा द्विपकाराः शुद्धमिश्रभेदात् । अन्यमार्गधर्म- संवलिता मिश्राः, तदसंवलिताः शुद्धाः । मिश्रा अपि परस्परं त्रयाणां मिश्रणेन प्रत्येकं त्रिप्रकाराः । एवं भेदानां प्रयोजनमाहुः भगवत्कार्यसिद्धय इति । 'क्रीडाभाण्डमिदं विश्व'मित्यादिवाक्यैः विश्वस्य क्रीडार्थत्वात् । पुष्ट्यादीनां त्रयाणां स्वतः परतः मिश्रणे ज्ञापकान् धर्मानाहुः पुष्ट्या....दुर्लभाः । पूर्वं सामान्यतोऽनुगृहीता विशेषानुग्रहं प्राप्ताः पुष्ट्या विमिश्राः । ते भगवदभिप्रायादिसर्वज्ञातारो भवन्ति, नारदादय इव, सर्वज्ञत्वमेव तेषां लक्षणम् । पुष्टिस्था मर्यादामिश्रिताः भगवद्धर्मज्ञातारो भवन्ति, कविप्रभृतयो नव- योगेश्वरा इव । पुष्टिस्थाः प्रवाहमिश्रिताः यत्किञ्चिद्भगवद्धर्मं ज्ञात्वा तीर्थाटनपरा भवन्ति । प्रवाहस्थाः पुष्टिमिश्रिताः भगवद्भजनानुकूलक्रियानुसारिणो भवन्ति । प्रवाहस्थाः मर्यादामिश्रिताः सत्कर्मकर्तारो भवन्ति । प्रवाहस्थाः प्रवाहमिश्रिताः केवलं लौकिकक्रि- यारता भवन्ति । त एव आसुराः । मर्यादामार्गीयाः पुष्टिमिश्रिताः माहात्म्यज्ञानात् भगवत्प्रीत्यर्थं कर्मकर्तारो भवन्ति । मर्यादामार्गीयाः मर्यादामिश्रिताः स्वर्गार्थं कर्मकर्तारो भवन्ति । मर्यादामार्गीयाः प्रवाहमिश्रिताः लौकिकार्थं कर्मकर्तारो भवन्ति । प्रेम्णा स्नेहेन शुद्धाः प्रेमविषयातिरिक्तस्फूर्तिरहिताः ते शुद्धपुष्टिस्थाः । तेऽतिदुर्लभा इत्यर्थः । भगवत्कार्यसिद्धये एवंप्रकारेण तेषां सर्गो निरूपितः । हि युक्तोयमर्थः । वैचित्र्यं विना रमणासिद्धेः । तेषां फलमत्र निरूप्यते । तेषां फलमाहुः भगवानेवेति । धर्म- धर्मिणोरभेदात् सर्वेषां धर्मधर्मिरूपेण भगवानेव फलं स यथा भुवि भक्तानां गृहादौ हृदये च यथा प्रकटो भवेत् गुणस्वरूपभेदेन, भक्तानां वा गुणस्वरूपभेदेन स्वरूपैक- निष्ठानां पुष्टिमार्गीयाणां स्वरूपेण आनन्दमात्रकरपादमुखोदरादिरूपेण प्रकटो भूत्वा फलं ददाति, धर्मज्ञानादिपरेषु धर्मादिरूपेण स्थित्वा यथा फलं ददाति, तथा तत्तत्फलं तेषां भवतीत्यर्थः । यद्वा । भगवानिति । गुणा ऐश्वर्यादयो धर्माः, स्वरूपं धर्मी । भगवानेश्वर्या- दिषड्गुणयुक्तो यस्य भक्तस्यान्तःकरणे यथा येन भावेन प्रकटो भवति तत्प्रियं कर्तुं स्वरूप- मेव तस्य फलमित्यर्थः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव'ति प्रतिज्ञानात् ॥ १७ ॥ प्रमेयप्रमाणलीले तयोः प्रकारांश्चाभिधाय भक्तिमार्गविरोधं परिहर्तुं आसक्ता- वित्यारभ्य सार्धश्लोकत्रयेण समादधते । आसक्तौ भगवानेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । वैदिकत्वं लौकिकत्वं कापत्यात्तेषु नान्यथा ॥ २० ॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः ।