भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 289, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 289

पुष्टिप्रवाहमर्यादा । ३१ ननु भक्तिमार्गीयाणां कथमन्थेन ( शापेन ) पराभव इत्याकाङ्क्षायामाहुः भगवा- नेवेति । पुष्टिस्थस्य लोके लौकिके आसक्तौ सत्यां अथवा अहंकार जाते अनयोः भजने- न्तरायरूपत्वात् भगवानेव अन्येन शापं दापयति क्वचिदेव । यथा चित्रकेतौ । क्वचित् स्वसामर्थ्यादिज्ञापनेनाहंकारादिकमेव दूरीकरोति । यथार्जुनादेर्ब्राह्मणपुत्रानयनादौ । भक्तिमार्गस्थापनाय । हि यस्मात् अन्यथान्‍येपि बहिर्मुखाः स्युः । एवं भगवता स्वेषां शिक्षार्थं दण्डे कृते दण्डभयात् ते भक्तिमार्गीयाः पाषण्डतां न यान्ति लोकवेदभक्तिमार्ग- विरुद्धाचरणं न कुर्वन्ति । विरुद्धाचरणाभावात् तेषां रोगाद्युपद्रवो न भवति । तर्हि भक्ता अपि साधारणजनतुल्या एव किमित्याकाङ्क्षायामाहुः । ते भक्तिमार्गीया महानुभावाः प्रह्लादाम्बरीषादय इव, यदि ते शुद्धाः स्युः । शुद्धत्वं नाम भक्तिमार्गविरुद्धधर्मराहित्येन कायवाङ्मनोभिस्तत्परत्वम् । तेषां शुद्धत्वप्रयोजकं शास्त्रम् । तच्छास्त्रं ‘श्रुतिस्मृती ममै- वाज्ञे यस्ते उल्लङ्घ्य वर्तते । आज्ञोच्छेदी मम द्रोही मद्भक्तोपि न मे प्रियः' । 'अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ।' 'मन्मना भवे'त्यादिभगवद्वाक्यम् । तदुक्तं ये कुर्वन्ति, ते शुद्धत्वात् महानुभावा भवन्तीत्य- भिप्रायेणोक्तं प्रायेणेति । तत्र हेतुः । भगवदिति । 'ये भजन्ति तु मां भक्त्ये'ति वाक्यात् भक्त्या भजनेन यथा यथा षड्गुणयुक्तो भगवान् तेषां हृदये प्रविष्ट ऐश्वर्यादीन् प्रकटयति, तथा तथा तारतम्यं भजन्ति उत्कृष्टा भवन्तीत्यर्थः । लौकिकेषु इदानीं प्रसिद्धेषु ( महेता ) नरसिंहाख्यादिष्वपि प्रसिद्धिबोधको हिशब्दः । ननु एतादृशानां भगवद्भक्त्यैव सर्वसिद्धौ वेदोक्तकर्मकरणं लौकिककरणं च किमर्थमित्याकाङ्क्षायामाहुः । उत्कृष्टानां भगवद्भक्तानां वेदोक्तकर्मकरणं लौकिकव्यवहारकरणं च ‘सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रह’मिति भगवद्वाक्यात् लोकसङ्ग्रहार्थमेव वेदोक्तकर्माणि लौकिकव्यवहारं च कापट्यं विधाय स्वस्य बहिः कर्मासक्तिं दर्शयित्वा कुर्वन्ति, नान्यथेत्यर्थः । तर्हि तेषां मुख्यः कर्तव्यो धर्मः क इत्याकाङ्क्षायामाहुः वैष्णवत्वं भक्तिमार्गीयदीक्षापूर्वकं भगवद्भजनं सहजं आदरेण कर्तव्यो मुख्यो धर्मः । ततोऽन्यत्र अन्यधर्मेषु एतद्विपर्यय इत्यर्थः । हि युक्तोयमर्थः । यो यस्य दासः तस्य तद्भजनमेव मुख्यो धर्म इति ॥ १४ ॥ भक्तिमार्गीयाणां व्यवस्थामुक्त्वा तत्सम्बन्धिनां उदासीनानामन्येषां च व्यवस्थामाहुः सम्बन्धनस्त्विति श्लोकद्वयेन । सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् । भक्तिमार्गीयसम्बन्धिनो ये तु अदीक्षिताः, तथा भक्तिमार्गीयासम्बन्धिनः