षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 290, कुल 408 में से
संदर्भ में पढ़ें३२ श्रीकल्याणरायकृतविवरणसमेता । प्रवाहस्था ये च अदीक्षिताः, ते चर्षणीशब्दवाच्याः सर्वमार्गेषु परिभ्रमणशीलत्वात् सर्ववर्त्मसु सर्वेषु मार्गेषु क्षणात् अल्पकालादेव तन्मार्गियसङ्गं प्राप्य तन्मार्गधर्माचरणा तन्मार्गीयसदृशा भवन्ति, नतु तेषां कुत्रापि रुचिः स्नेहोऽस्ति । तेषां तत्तन्मार्गीयक्रिया नुरूपं कामितं फलं भवतीत्यर्थः ॥ २० ॥ लक्षणप्रमाणाभ्यामासुरान् जीवानाहुः प्रवाहस्थानित्यारभ्य श्लोकद्वयेन । प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥ जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । प्रवाह एव तिष्ठन्ति स्वोदरपोषणमात्रपराः, स्वरूपदेहक्रियातत्पराः, न तु धर्मा- दिपराः, ते जीवा आसुरा ज्ञेयाः । ते च 'प्रवृत्तिं च निवृत्तिं चे'त्यादिना भगवता वर्णिताः । ते आसुराः द्विप्रकाराः अज्ञदुर्ज्ञभेदात् । 'प्रवृत्तिं चे'त्यादिनोक्ता दुर्ज्ञाः । तान् ये अनुसरन्ति तदुक्तकारिणो भवन्ति, ते तु अज्ञाः ॥ २४½ ॥ ननु आसुराणामपि भक्तिः श्रूयते, सा कथं संभवतीत्याशङ्कायां समाधानमाहुः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥ सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५½ ॥ वस्तुतो यस्य भक्तिर्दृश्यते, स आसुरजीवो न भवति, किन्तु भगवदपराधेन भक्ता- पराधेन वेदादिनिन्दया वा प्रवाहेऽपि समागत्य प्राप्तोपि तैः प्रवाहस्थैर्न युज्यते न मिलति । तत्कुले जातोपि स पुष्टिस्थस्तैः प्रवाहस्थकुलधर्मैर्न युज्यते, न युक्तो भवति । 'न वै जनो जात्वि'ति वाक्यात् । तर्हि भक्तिमतः कथं प्रावाहिकेषु जन्मेत्यत आहुः कर्मणा जायते यत इति । यतः यस्मात् कारणात् भगवदपराधादिना प्रारब्धकर्मणा वा जायते उत्पद्यते । देहस्य कर्माधीनत्वाद्यादृशं कर्म, तादृशो देहो भवतीत्यर्थः ॥ २३ ॥ इति श्रीवल्लभाचार्यैः साधनादिविभेदतः । मार्गाः प्रोक्ता विचार्यैषु प्रविशन्तु फलार्थिनः ॥ १ ॥ भक्त्या श्रीवल्लभाचार्यचरणाम्बुजयुगं प्रभून । प्रणम्य कृपया तेषां यताङ्कः१ सुखावहाः ॥ २ ॥ श्रीमत्कल्याणरायेण श्रीगोविन्दसुतेन हि । पुष्टिप्रवाहमर्यादाविवृतिः कृतिना कृता ॥ ३ ॥ इति श्रीविट्ठलेश्वरचरणकमलैकतानश्रीकल्याणरायविरचिता पुष्टिप्रवाह- मर्यादाविवृतिः समाप्तिसमर्पत् ॥ १. साधु ।