भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 291, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 291

श्रीकृष्णाय नमः।

पुष्टिप्रवाहमर्यादा ।

श्रीपीताम्बरकृतविवृतिसमेता । नमः श्रीवल्लभाचार्यचरणान्जनखेन्दवे । पुष्टिप्रवाहमर्यादास्तारका येनं शोभिताः ॥ १ ॥ न भेदस्ते कुत्राप्यतिरुचिर किन्तु प्रियतया विभेदोऽतः स्वामिन् कृपय मयि दासेऽतिविधुरे । विभेदः केन स्यात् स्वकृतनिजपुष्टेरितरथा प्रवाहादेः स्वीयप्रणतचरणप्रापक विभो ॥ २ ॥ श्रीवल्लभसुतचरणाम्भोरुहमकरन्दमत्तमधुपो यः। जयति निगूढत्रिसरणिमाल्यां तस्य झङ्कारः ॥ ३ ॥ इह हि चिद्रूपत्वेन भगवदंशत्वेन च तुल्येषु जीवेषु केषाञ्चित्पुरुषोत्तमप्राप्तिः, केषाञ्चिदक्षरस्य, केषाञ्चित्स्वर्गादेः, केषाञ्चिदन्धन्तमसः, सा श्रूयत इति कुतः फलभेदः, कुतो वा स्वभावभेदः, कथं वा केषाञ्चित्स्वभावविरुद्धे देहक्रिये, इतरेषां च तदनुरूपे इत्यादिप्रकारेण सेवाफलविवरणादिग्रन्थश्रवणादन्यतश्च सन्दिहानानां सन्देहवारणाय तदुपायभूतसार्गतत्साङ्कर्य निरूपयितुं बहूनां सन्देहानां भेदज्ञानादेव निवृत्तिं हृदि कृत्वा मार्गत्रयभेदनिरूपणं श्रीमदाचार्याः प्रतिजानते पुष्टीत्यादि । पुष्टिप्रवाहमर्यादा विशेषेण पृथक् पृथक् । जीवदेहक्रियाभेदैः प्रवाहेण फलेन च ॥ १ ॥ वक्ष्यामि सर्वसन्देहा न भविष्यन्ति यच्छ्रुतेः । एतन्मार्गत्रयं विशेषेणोत्कर्षादिरूपव्यावर्तकधर्मेण जीवादिभेदैः प्रवाहेण सर्ग- परम्पराया अविच्छेदेन फलेन च पृथक् पृथक् भिन्नं भिन्नं यथा स्यात्तथा वक्ष्यामीत्यर्थः । भेदकथनफलमाहुः सर्वेति । यच्छ्रुतेः उक्तभेदकचतुष्टयश्रवणात् । एतेन जगत्यनेके मार्गाः कथं त्रय एवोच्यन्त इत्यपि सन्देहोऽनेनैवापयासतीत्यपि बोधितम् । ज्ञाते स्वरूपे अन्यान्तर्भावस्यापि सुखेनैव ज्ञानात् । न चैकेनैव भेदसिद्धावितरेषां वैयर्थ्यं शङ्क्यम् । स्वरूपसाधनफलैक्यनिरासकत्वेन सर्वेषामेव सार्थक्यात् । अत्यन्तविविक्तत्वज्ञान एव सर्वसन्देहानिरासात् ॥ १ ॥ नन्वाश्रयसिद्धौ भेदकं वक्तव्यम्, प्रकृते तु पुष्ट्यादिशब्दवाच्यानां मार्गाणामप्रसि- ५ पु. प्र. म.