भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 292, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 292

३४ श्रीपीताम्बरकृतविवृतिसमेता । द्धत्वात्तद्भेदनिरूपणं गगनकुसुमसौरभमनुकरोतीत्याशङ्कायामाश्रयसत्त्वं सिसाधयिषवः पुष्टेः पूर्वमुद्दिष्टत्वात्तत्रैव पूर्वं प्रमाणमाहुः भक्तीत्यादि । भक्तिमार्गस्य कथनात् पुष्टि‍रस्तीति निश्चयः ॥ २ ॥ दशमस्कन्धे भ्रमरगीतस्थसन्देशे 'या मया क्रीडते'त्यारभ्य 'अचिरान्माम- वाप्स्यथे'त्यन्तस्य, 'युवां मां पुत्रभावेन ब्रह्मभावेने'त्यादेः, 'दिष्ट्या गृहेश्वर्य- सकृन्मयि त्वया कृतानुवृत्ति'रित्यादेः, एकादशस्कन्धे च 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामी'त्यारभ्य 'तस्मात्त्वमुद्धवोत्सृज्ये'ति श्लोकद्वया- न्तस्य 'भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्तेः कारणं पर'मित्यादिभिर्भगवता भक्तिमार्गस्य कथनात्, 'सालोक्यसार्ष्टिसामीप्यसारूप्यै- कत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आत्य- न्तिक उदाहृत' इति तृतीयस्कन्धे उक्तायाः 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनै- वामुष्मिन्मनःकल्पनमि'त्याथर्वणोपनिषदि च श्राविताया भक्तेर्यो मार्ग उपायः प्रकारश्च तस्य कथनात्, पुष्टि‍रस्ति 'पोषणं तदनुग्रह' इति वाक्यादनुग्रहपरपर्याया तत्तद्भक्तिबी- जभूता कृपा भगवति वर्तत इति निश्चयः । अन्यथा भगवानेवं भक्तिमार्गं न वदेत् । 'निर्विण्णानां ज्ञानयोगः कर्मयोगस्तु कामिनामि'ति वाक्यादुभयोस्ताभ्यां फलसिद्धेरू- क्तत्त्वात् 'न निर्विण्णो नातिसक्त' इत्यनेनोक्तस्येषत्सक्तस्य कामसद्भावात्कर्मणा कथञ्चित्तेन तदपूर्तौ निर्वेदे ज्ञानेन च यदाकदाचिद्यथाकथञ्चित्फलसिद्धेः सम्भवात् । लोकेऽपि स्वल्पधनस्याधमर्णस्य तावद्धनग्रहणादिभिर्महर्णविमोक्षस्योत्तमर्णानुग्रहेण दर्शनात् । कष्ट- साध्ये प्रायश्चित्तादौ पर्षदनुग्रहेणैव सुकरसाधनोपदेशस्य स्मृतिष्वपि सिद्धत्वात् । 'भवन्ता- वनुगृह्णीतां याता वोऽनुग्रहाद्दिव'मित्यादिषु तत्रार्थिनादर्शनाच्च सुकरसाधनोपदेशबीजभू- तानुग्रहे सिद्धे पुष्टिर्भगवत्यस्ति । सुकरसाधनरूपस्य भक्तिमार्गस्य कथनात् । यत्र यत्र हितरूपसुकरसाधनकथनं तत्र तत्र वक्तुरनुग्रहसत्ता । यथा उक्तपरिषदि । यत्र नैवं तत्र नैवम् । यथा नृगसम्प्रदानविप्रादिषु, इत्यनुमानेन भक्तिरूपसुकरसाधनोपदेशाद्भगवति तत्सत्तायां न सन्देह इत्यर्थः । स च धर्मान्तरमेव । न तु फलदित्सा । 'यस्यानुग्रह- मिच्छामी'ति वाक्यात् । दित्सात्वे इच्छाकर्मत्वायोगात् । अत एव न परदुःखप्रहा- णेच्छापि । नापि तदर्थको यत्नः । कृपयामि न तु यते इति तदुत्तरं व्यवसायदर्शनात् । कृपया यते दित्स इत्यादिप्रयोगाच्च । नापि ज्ञानम् । दुःखं जानन्नपि न दुष्टे कृपयति, नास्य दुष्टस्य दुःखमिति जानन्न कृपयतीत्यादिप्रयोगात् । दृष्टत्वान्नादृष्टविशेषः । द्वेषा- दिवैलक्षण्याच्च न द्वेषादि । न च कृपयत्यनुगृह्णातीति भिन्नशब्दाभिलाप्यत्वाद्विद्वदनुव्यव- सायगम्यत्वाच्च कृपानुग्रहयोर्भेदः शङ्क्यः । लोके कृपाभिन्नतया तत्प्रसिद्ध्यभावे धातुभेदप्रयो- गादेस्तद्भेदाप्रयोजकत्वादिति । तस्मात्स्वीकारफलदित्सादिप्रयोजकं कृपापरपर्यायं धर्मान्त- १. कथञ्चित्तेनेति नास्ति ।