षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 292, कुल 408 में से
संदर्भ में पढ़ें३४ श्रीपीताम्बरकृतविवृतिसमेता । द्धत्वात्तद्भेदनिरूपणं गगनकुसुमसौरभमनुकरोतीत्याशङ्कायामाश्रयसत्त्वं सिसाधयिषवः पुष्टेः पूर्वमुद्दिष्टत्वात्तत्रैव पूर्वं प्रमाणमाहुः भक्तीत्यादि । भक्तिमार्गस्य कथनात् पुष्टिरस्तीति निश्चयः ॥ २ ॥ दशमस्कन्धे भ्रमरगीतस्थसन्देशे 'या मया क्रीडते'त्यारभ्य 'अचिरान्माम- वाप्स्यथे'त्यन्तस्य, 'युवां मां पुत्रभावेन ब्रह्मभावेने'त्यादेः, 'दिष्ट्या गृहेश्वर्य- सकृन्मयि त्वया कृतानुवृत्ति'रित्यादेः, एकादशस्कन्धे च 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामी'त्यारभ्य 'तस्मात्त्वमुद्धवोत्सृज्ये'ति श्लोकद्वया- न्तस्य 'भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्तेः कारणं पर'मित्यादिभिर्भगवता भक्तिमार्गस्य कथनात्, 'सालोक्यसार्ष्टिसामीप्यसारूप्यै- कत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः । स एव भक्तियोगाख्य आत्य- न्तिक उदाहृत' इति तृतीयस्कन्धे उक्तायाः 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनै- वामुष्मिन्मनःकल्पनमि'त्याथर्वणोपनिषदि च श्राविताया भक्तेर्यो मार्ग उपायः प्रकारश्च तस्य कथनात्, पुष्टिरस्ति 'पोषणं तदनुग्रह' इति वाक्यादनुग्रहपरपर्याया तत्तद्भक्तिबी- जभूता कृपा भगवति वर्तत इति निश्चयः । अन्यथा भगवानेवं भक्तिमार्गं न वदेत् । 'निर्विण्णानां ज्ञानयोगः कर्मयोगस्तु कामिनामि'ति वाक्यादुभयोस्ताभ्यां फलसिद्धेरू- क्तत्त्वात् 'न निर्विण्णो नातिसक्त' इत्यनेनोक्तस्येषत्सक्तस्य कामसद्भावात्कर्मणा कथञ्चित्तेन तदपूर्तौ निर्वेदे ज्ञानेन च यदाकदाचिद्यथाकथञ्चित्फलसिद्धेः सम्भवात् । लोकेऽपि स्वल्पधनस्याधमर्णस्य तावद्धनग्रहणादिभिर्महर्णविमोक्षस्योत्तमर्णानुग्रहेण दर्शनात् । कष्ट- साध्ये प्रायश्चित्तादौ पर्षदनुग्रहेणैव सुकरसाधनोपदेशस्य स्मृतिष्वपि सिद्धत्वात् । 'भवन्ता- वनुगृह्णीतां याता वोऽनुग्रहाद्दिव'मित्यादिषु तत्रार्थिनादर्शनाच्च सुकरसाधनोपदेशबीजभू- तानुग्रहे सिद्धे पुष्टिर्भगवत्यस्ति । सुकरसाधनरूपस्य भक्तिमार्गस्य कथनात् । यत्र यत्र हितरूपसुकरसाधनकथनं तत्र तत्र वक्तुरनुग्रहसत्ता । यथा उक्तपरिषदि । यत्र नैवं तत्र नैवम् । यथा नृगसम्प्रदानविप्रादिषु, इत्यनुमानेन भक्तिरूपसुकरसाधनोपदेशाद्भगवति तत्सत्तायां न सन्देह इत्यर्थः । स च धर्मान्तरमेव । न तु फलदित्सा । 'यस्यानुग्रह- मिच्छामी'ति वाक्यात् । दित्सात्वे इच्छाकर्मत्वायोगात् । अत एव न परदुःखप्रहा- णेच्छापि । नापि तदर्थको यत्नः । कृपयामि न तु यते इति तदुत्तरं व्यवसायदर्शनात् । कृपया यते दित्स इत्यादिप्रयोगाच्च । नापि ज्ञानम् । दुःखं जानन्नपि न दुष्टे कृपयति, नास्य दुष्टस्य दुःखमिति जानन्न कृपयतीत्यादिप्रयोगात् । दृष्टत्वान्नादृष्टविशेषः । द्वेषा- दिवैलक्षण्याच्च न द्वेषादि । न च कृपयत्यनुगृह्णातीति भिन्नशब्दाभिलाप्यत्वाद्विद्वदनुव्यव- सायगम्यत्वाच्च कृपानुग्रहयोर्भेदः शङ्क्यः । लोके कृपाभिन्नतया तत्प्रसिद्ध्यभावे धातुभेदप्रयो- गादेस्तद्भेदाप्रयोजकत्वादिति । तस्मात्स्वीकारफलदित्सादिप्रयोजकं कृपापरपर्यायं धर्मान्त- १. कथञ्चित्तेनेति नास्ति ।