भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 293, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 293

पुष्टिप्रवाहमर्यादा । ३५ मेवेति निश्चयः । स च भक्त्युपदेशस्येव भक्तेरपि कारणम् । यत्रानुग्रहाभावस्तस्य भक्ते- रदानात् । 'भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोग'मिति- वाक्यात् । इदं यथा तथा भक्तिहेतुनिर्णये प्रपञ्चितं प्रभुचरणैः । तथा च सति भक्त्युपदेशो वक्त्रनुग्रहपूर्वकः । सुकरसाधनोपदेशत्वात् । पर्षदुक्तसुकरप्रायश्चित्तोपदेशवत् । व्यतिरेके कष्टसाध्यदितिपयोव्रतोपदेशवत् । अयमनुग्रहविषयः । भक्तिमत्त्वात् । नारदवत् । व्यतिरेके साल्वादिवदित्यनुमानमपि तत्र प्रमाणं ज्ञेयम् । यद्यपि 'यमेवैष वृणुते तेन लभ्य' इति श्रुतिर्भगवत्प्राप्तेर्वरणैकसाधनत्वं वदन्ती 'स वरस्तया वृतः' 'कन्यां वृणीते' इत्यादिप्रयोग- दर्शनात्स्वीकारात्मकत्वेन सिद्धस्य वरणस्यानुग्रहजन्यत्वात्तत्र प्रमाणं भवति, तथापि 'तस्यैष आत्मा विवृणुते तनूँ स्वा'मित्युक्तस्य विवरणस्य स्वरूपप्रकाशनात्मकत्वात्तत्र यत्फलं लाभात्मकं ग्रहणं तस्य 'भक्त्याहमेकया ग्राह्य' इत्यादिसमृत्य भक्तिसाध्यताबोधनात्पर्यव- सानतो भक्तिद्वारैव जातस्य ग्रहणस्य प्रमितिरूपत्वं बोधयति । भक्तिश्च मार्गेणैव प्रमीयते । स चोपदेशादेवेति हृदि कृत्वाचार्यैरेवमुक्तम् । श्रुतेर्वादकवलितत्वेन पुनः प्रयासकर- णापाताच्च ॥ १ ॥ २ ॥ एवं पुष्टिसत्तां साधयित्वा प्रवाहसत्त्वे प्रमाणमाहुः द्वौ भूतसर्गाविति । 'द्वौ भूतसर्गौ'वित्युक्तेः प्रवाहोपि व्यवस्थितः । वेदस्य विद्यमानत्वान्मर्यादापि व्यवस्थिता ॥ ३ ॥ प्रवहणं प्रवाहः । सर्गपरम्पराया अविच्छेदः । सोऽप्युक्तवाक्यादैवासुरविभेदेन व्यवस्थितः कृतविभागः । यदि स न प्रवेहेदाप्रलयम्, तदा विभागो मुधैव स्यात् । अतः सोऽप्यस्तीत्यर्थः । मर्यादा सत्त्वे प्रमाणमाहुः वेदस्येत्यादि । नियमानतिक्रमो मर्यादा । सात्र कर्मज्ञानादेस्तत्तत्प्रकारनियमस्य बोध्या । सापि वेदस्य विधिमन्त्रनामधेयनिषेधार्थवा- दात्मकस्यापौरुषेयनित्यशब्दस्य विद्यमानत्वात् व्यवस्थिता, 'स्वर्गकामो यजेते'त्यादि- भिर्विध्यादिभिः स्वर्गार्थे ज्योतिष्टोमं कुर्यात्, मन्त्रेणैव देवतां स्मरेत्, अग्निनामैव स्वाहा- कारे वदेत्, ब्राह्मणं न हन्यात्, शीघ्रगामिनीं देवतां ज्ञात्वैव वायव्यालम्भः कर्तव्यो, नान्यथेत्यादिरूपेण नियमेन कृतविभागा। यदि सा न स्यात्, तद्विभाजको वेदो न स्यात् । अतो विभाजकस्य वेदस्य विद्यमानत्वात्साप्यस्तीत्यर्थः । तथाच यद्यपि प्रवाहोऽस्ति । द्वौ भूतसर्गावित्युक्तेर्व्यवस्थितत्वात् । यद्व्यवस्थितं तदस्ति दायादिवदिति मर्यादास्ति । तद्व्यवस्थापकस्य वेदस्य विद्यमानत्वात् । यद्व्यवस्थापकस्य वेदस्य विद्यमानत्वं तस्य सत्त्वम् । यथा यज्ञादेरित्यनुमानाभ्यां तयोः सत्तापि सिध्यति, तथापि प्रवाहे प्रत्यक्षं मर्यादायां वा व्यतिरेकः प्रमाणत्वेन वर्तत इत्यतस्तदुभयसत्तासाधनाय नास्माभिः प्रयासः कृत इति भावः । अत्रैवं स्वरूपनिश्चायनेन यावन्तः पुष्टिप्रयुक्ता मार्गा भक्तिरूपास्ते पुष्टिमा-


१. विभागसार्थक्यात्साऽप्यस्तीत्यर्थः इति पाठः ।