भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 294, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 294

३६ श्रीपीताम्बरकृतविवृतिसमेता । र्गेऽन्तर्भवन्ति, ये लौकिकाः सर्गपरम्परां न विच्छिन्दन्ति, ते प्रवाहेऽन्तर्भवन्ति, ये वेदनियमं नातिवर्तन्ते ते मर्यादायामन्तर्भवन्तीत्येवं बुद्धिसौकर्यात्त्रयो मार्गा ज्ञेयाः सन्देहनिरासेप्सुभिरिति बोधितम् । न च भगद्वाक्ये ‘योगास्त्रयो मया प्रोक्ता’ इति ज्ञानकर्मभक्तीनामेवोपायतया मार्गत्वबोधानादेतेषां कथं मार्गत्वमिति शङ्क्यम् । भक्तेर्विचारे तन्मूलभूतानुग्रह एव मार्गत्वस्य पर्यवसानेन, सर्गपरम्पराविचारे ‘जायस्व म्रियस्वे’ति श्रुत्युक्तजन्माद्यनुच्छेदरूपफलहेतुतायाः प्रवाह एव पर्यवसानेन, ज्ञानकर्मफलस्य चोक्तविधिनियमादेव भवनेन तद्धेतुतायास्तदनतिक्रम एव पर्यवसानेन, तात्पर्यतस्तेषां मार्गत्वस्याप्रत्यूहत्वात् । एतेनैव ‘प्रवाहपुष्टिमर्यादाः कुत उत्प्रेक्षिताः किल । दृष्टा वा कुत्रचिद्ग्रन्थे मूलमत्र निरूप्यता’ मिति भ्रान्तपर्यनुयोगोऽप्यपास्तो बोध्यः ॥ ३ ॥ अतः परं भेदसाधनार्थं यतन्ते । तत्र, नन्वस्तु पुष्ट्यादिसत्ता । तावता परस्पर- विवेकस्तु न सेत्स्यति । तथाहि । ‘फलमत उपपत्ते’रिति न्यायेन फलमात्रं भगवतः सकाशादेव । ब्रह्मवादे च चैतन्यभेदाभावान्नामभेदमात्रं नोपास्यभेदः । अतो लोकास्तत्त- न्नाम्ना भजन्तोऽपि तत्तत्फलार्थं तमेव भजन्ते प्रावाहिका अपि । ततः फलं च लौकिक- मलौकिकं प्राप्नुवन्तीति सर्वेषां भक्तत्वाविशेषाद्भक्तिमार्गस्य चानुग्रहप्रयुक्तस्य सर्वान् प्रति तुल्यत्वान्न प्रवाहाद्विवेकः शक्यवचनः । मर्यादा तु वेदोक्तत्वाद्विविक्तैवेति द्वावेव मार्गा- वभ्युपगन्तव्यावित्याशङ्कायामाहुः कश्चिदेव हीति । कश्चिदेव हि भक्तो हि ‘यो मद्भक्त’ इतीरणात् । न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः ॥ ४ ॥ ‘यदा यस्ये’ति वचनान्नाहं वेदै’रितीरणात् । सर्वत्रोत्कर्षकथनात् पुष्टिस्तीति निश्चयः ॥ ५ ॥ गीतायां ‘यो मद्भक्तः स मे प्रिय’ इति भगवता यच्छब्दोपबन्धेन कस्यचिदेव भक्तत्वं बोधितम् । अतो न सर्वोऽपि लोको भक्तः । एवं परिसंख्याते भक्ते तत्प्रयोजको मार्गोऽपि प्रवाहाद्भिन्नः असङ्कीर्णः । तथाच भजनमात्रं न भक्तिः । किन्तु प्रियत्वप्रयोजकं भजनम् । अत एव ‘अनपेक्षः शुचिर्दक्षः’ ‘मय्यर्पितमनोबुद्धि’रित्यादि विशिनष्टि । ‘प्रियो हि ज्ञानिनोऽत्यर्थ’मित्यत्रापि ‘चतुर्विधा भजन्ते मा’मिति भक्तिमेवोपक्रम्य ज्ञानिनो भक्तस्या- त्मत्वं वक्ति, न केवलज्ञानिनः । तेन तादृशभक्तेरेव मार्गत्वात्तद्रम्यायाः पुष्टेः प्रवाहेणासा- ङ्कर्यात्सिद्धास्त्रयो मार्गा इत्यर्थः । नन्वस्त्वेवम्, तथापि मर्यादया साङ्कर्यं दुर्वारम् । तथाहि । भक्तिमार्गो नाम किं श्रवणादिसरणिरूपः, उत ‘माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथे’ति पञ्चरात्रोक्तमाहात्म्यज्ञा- नपूर्वकस्नेहसरणीरूपः । आद्यश्चेत्, ‘धारयति रसति भजती’त्यादिश्रुतिसिद्धः । द्वितीय- १. तत्रैवेति पाठः ।