षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 294, कुल 408 में से
संदर्भ में पढ़ें३६ श्रीपीताम्बरकृतविवृतिसमेता । र्गेऽन्तर्भवन्ति, ये लौकिकाः सर्गपरम्परां न विच्छिन्दन्ति, ते प्रवाहेऽन्तर्भवन्ति, ये वेदनियमं नातिवर्तन्ते ते मर्यादायामन्तर्भवन्तीत्येवं बुद्धिसौकर्यात्त्रयो मार्गा ज्ञेयाः सन्देहनिरासेप्सुभिरिति बोधितम् । न च भगद्वाक्ये ‘योगास्त्रयो मया प्रोक्ता’ इति ज्ञानकर्मभक्तीनामेवोपायतया मार्गत्वबोधानादेतेषां कथं मार्गत्वमिति शङ्क्यम् । भक्तेर्विचारे तन्मूलभूतानुग्रह एव मार्गत्वस्य पर्यवसानेन, सर्गपरम्पराविचारे ‘जायस्व म्रियस्वे’ति श्रुत्युक्तजन्माद्यनुच्छेदरूपफलहेतुतायाः प्रवाह एव पर्यवसानेन, ज्ञानकर्मफलस्य चोक्तविधिनियमादेव भवनेन तद्धेतुतायास्तदनतिक्रम एव पर्यवसानेन, तात्पर्यतस्तेषां मार्गत्वस्याप्रत्यूहत्वात् । एतेनैव ‘प्रवाहपुष्टिमर्यादाः कुत उत्प्रेक्षिताः किल । दृष्टा वा कुत्रचिद्ग्रन्थे मूलमत्र निरूप्यता’ मिति भ्रान्तपर्यनुयोगोऽप्यपास्तो बोध्यः ॥ ३ ॥ अतः परं भेदसाधनार्थं यतन्ते । तत्र, नन्वस्तु पुष्ट्यादिसत्ता । तावता परस्पर- विवेकस्तु न सेत्स्यति । तथाहि । ‘फलमत उपपत्ते’रिति न्यायेन फलमात्रं भगवतः सकाशादेव । ब्रह्मवादे च चैतन्यभेदाभावान्नामभेदमात्रं नोपास्यभेदः । अतो लोकास्तत्त- न्नाम्ना भजन्तोऽपि तत्तत्फलार्थं तमेव भजन्ते प्रावाहिका अपि । ततः फलं च लौकिक- मलौकिकं प्राप्नुवन्तीति सर्वेषां भक्तत्वाविशेषाद्भक्तिमार्गस्य चानुग्रहप्रयुक्तस्य सर्वान् प्रति तुल्यत्वान्न प्रवाहाद्विवेकः शक्यवचनः । मर्यादा तु वेदोक्तत्वाद्विविक्तैवेति द्वावेव मार्गा- वभ्युपगन्तव्यावित्याशङ्कायामाहुः कश्चिदेव हीति । कश्चिदेव हि भक्तो हि ‘यो मद्भक्त’ इतीरणात् । न सर्वोतः प्रवाहाद्धि भिन्नो वेदाच्च भेदतः ॥ ४ ॥ ‘यदा यस्ये’ति वचनान्नाहं वेदै’रितीरणात् । सर्वत्रोत्कर्षकथनात् पुष्टिस्तीति निश्चयः ॥ ५ ॥ गीतायां ‘यो मद्भक्तः स मे प्रिय’ इति भगवता यच्छब्दोपबन्धेन कस्यचिदेव भक्तत्वं बोधितम् । अतो न सर्वोऽपि लोको भक्तः । एवं परिसंख्याते भक्ते तत्प्रयोजको मार्गोऽपि प्रवाहाद्भिन्नः असङ्कीर्णः । तथाच भजनमात्रं न भक्तिः । किन्तु प्रियत्वप्रयोजकं भजनम् । अत एव ‘अनपेक्षः शुचिर्दक्षः’ ‘मय्यर्पितमनोबुद्धि’रित्यादि विशिनष्टि । ‘प्रियो हि ज्ञानिनोऽत्यर्थ’मित्यत्रापि ‘चतुर्विधा भजन्ते मा’मिति भक्तिमेवोपक्रम्य ज्ञानिनो भक्तस्या- त्मत्वं वक्ति, न केवलज्ञानिनः । तेन तादृशभक्तेरेव मार्गत्वात्तद्रम्यायाः पुष्टेः प्रवाहेणासा- ङ्कर्यात्सिद्धास्त्रयो मार्गा इत्यर्थः । नन्वस्त्वेवम्, तथापि मर्यादया साङ्कर्यं दुर्वारम् । तथाहि । भक्तिमार्गो नाम किं श्रवणादिसरणिरूपः, उत ‘माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्न चान्यथे’ति पञ्चरात्रोक्तमाहात्म्यज्ञा- नपूर्वकस्नेहसरणीरूपः । आद्यश्चेत्, ‘धारयति रसति भजती’त्यादिश्रुतिसिद्धः । द्वितीय- १. तत्रैवेति पाठः ।