भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 295, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 295

पुष्टिप्रवाहमर्यादा । [पृ. ३७]

श्चेत्, सुप्त्यादिवाक्यैर्माहात्म्यस्य 'आत्मनस्तु कामाय सर्वं प्रियं भवती'त्यादिभिर्निरुपाधि- प्रीतिविषयत्वस्य च प्रतिपादनान्माहात्म्यज्ञानपूर्वकस्नेह एव श्रुतेस्तात्पर्यमिति तद्गोचरः । पुराणानां श्रुत्युपबृंहणत्वात्तदुक्तत्वेऽपि श्रुतिमूलकत्वेन विधिविषयत्वान्मर्यादातो नाति- रिच्यते । यत्पुनर्देवान्तरभजनम्, तदपि 'एकं सद्विप्रा बहुधा वदन्ती'ति श्रुतेर्भगवद्भजन- मेवेति द्वावेव मार्गावित्याशङ्कायामाहुः वेदाच्च भेदत इति । वक्ष्यमाणहेतुभिः वेदात् वेदोक्तमर्यादामार्गाच्च । लोकादपि भेदं प्राप्य पुष्टिर्हस्तीत्यन्वयः । अनुग्रहः स्वविषयं पुष्णा- तीति पुष्टिः । कर्तरि क्तिच् । सेतुर्विधृतिरितिवत् । वेदादिति वाच्यवाचकयोरभेदोपचारा- न्निर्देशः । तथाच, 'यदा यस्यानुगृह्णाति भगवान्मात्मभावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिता'मित्यत्र लोकवेदौ पृथङ्निर्दिश्य भगवदनुगृहीतस्य तयोरास्थात्यागं वक्ति । यद्यनुग्रहो लौकिकेषु वैदिकेषु वा साधनेषु प्रविशेत्, तदैवं सामान्येनारुचिं न वदेत् । किञ्च । 'नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपे'त्यत्र वेदादिपदैरुक्तानां ब्रह्मचारिवैनैष्ठिकगृहस्थधर्माणां 'श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञान- यज्ञः परन्तपे'ति वचनादिहेज्यापदसङ्गृहीतस्य यतिधर्मस्य ज्ञानस्यापि दर्शनसाधनत्वमुपल- क्षणविधया निषिध्य स्वविषयकस्य ज्ञानस्य ज्ञानफलयोर्दर्शनप्रवेशयोश्चानन्यभक्तिसाधनकत्वं वदति । तेनापि ज्ञायते, अनन्या भक्तिर्नोक्तधर्मेषु प्रविशति, केवलैव च फलं साधयतीत्य- तोऽपि तत्कारणभूता पुष्टिस्तथा । किञ्च । 'नायमात्मे' ति श्रुतावपि प्रवचनादिनिषेधपूर्वकं वरणैकलभ्यत्वं वृतं प्रत्येव स्वस्वरूपविवरणं चोक्तम् । तेन वरणस्यैवोत्कर्ष उक्तः । वरणं चानुग्रहप्रयुक्तोऽङ्गीकार एव । तथा 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि' 'रामेण सार्धं' 'प्रीयतेऽमलया भक्त्या हरिरन्यद्विडम्बनम्' 'भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते' 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्' 'वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा' 'केवलेन हि भावेन' 'ता मन्मनस्का' इत्या- दिषु भक्त्युत्कर्षकथनेनापि तत्कारणीभूतपुष्टेरेवोत्कर्षः सिद्धः । अतो वेदोक्तत्वेऽपि वेद- तात्पर्यगोचरत्वेऽपि जीवकृतवैधसाधनेष्वप्रवेशात्तदसाध्यसाधनात्फलवैलक्षण्याच्च स्वरूपतः कार्यतः फलतश्चोत्कर्षाच्च वेदोक्तसाधनेभ्योऽपि भिन्नैव तत्तदाकारिका पुष्टिस्तीत्यतो हेतोः सिद्धं मार्गत्रयमित्यत्र न सन्देह इत्यर्थः ॥ ४ ॥ ५ ॥ ननु भवत्वेवं स्वरूपविवेकः, तथापि 'धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्' । 'श्रेयः स्रुतिं भक्तिमुदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद्यथा स्थूलतुषावघातिनाम्' 'नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जन'मित्यादिभिः केवलस्यैव निन्दा- स्मरणात् 'निबन्धायासुरो मते'त्यादौ प्रवाहैकदेशस्यैव तथात्वात्तादृशामेवारुच्यत्वादसा- धनत्वबोधनेन 'यदा यस्ये'त्यादीनां चारितार्थ्याद्देवसर्गस्यानिन्द्यत्वा 'सर्वेऽधिकारिणो ह्यत्र

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 295, कुल 408 में से · BharatKosha