षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 296, कुल 408 में से
संदर्भ में पढ़ें३८ श्रीपीताम्बरकृतविवृतिसमेता । विष्णुभक्तौ यथा नृपे'त्यादिभिश्च तस्य सर्वस्यापि भक्त्यनुकूलत्वेन 'दानव्रततपोहोमजप- स्वाध्यायसंयमैः । श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते' 'ज्ञानी च भरतर्षभ' 'आत्मारामश्च मुनय' इत्यादिभिर्भक्तिसाधनतास्मरणाच्चाङ्गभावेन प्रवाहमर्यादयोर्भक्तिशरी- रप्रवेशे एको मार्ग एवास्तु, न त्वत्यन्तविवेक इत्याशङ्कामनूद्य दूषयन्ति मार्गैकत्वेऽपीति । मार्गैकत्वेपि चेदन्त्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ अपिः पूर्वपक्षगर्हायाम् । उक्तरीत्या मार्गैकत्वे अन्त्यौ मर्यादाप्रवाहौ भक्त्यागमौ भक्तैरागमोऽभिव्यक्तिर्याभ्यां तादृशौ तनू अङ्गभूतौ मतौ त्वयाङ्गीकृतौ । यद्वा । तनू न्यून- फलसाधनत्वादल्पौ । हेतुगर्भं विशेषणम् । तनुत्वात् उक्तरीत्या भक्तिहेतू शास्त्रसम्मतौ चेत्, तदङ्गत्वं हेतुत्वं वा न युक्तम् । हि यस्माद्धेतोः वैदिको मार्गः सूत्रतः कर्मज्ञानविचारकेभ्यो मीमांसाद्वयसूत्रेभ्यो युक्त्या तत्तत्फलयोजनया हि निश्चयेन भिन्नः । सूत्रे हि जैमिनीये 'शेषः परार्थत्वादि'ति लक्षयित्वा 'कर्म फलार्थत्वादि'ति कर्मणः फलशेष- त्वमुक्तम् । फलं च ज्योतिष्टोमादिवाक्ये स्फुटम् । विश्वजिदादिवाक्ये तु 'स स्वर्गः स्या- त्सर्वान्प्रत्यविशेषादि'त्यनेन व्यवस्थापितमिति कर्माणि तावता चरितार्थानि शेषित्वेन भक्तिं नापेक्षन्ते । एवं 'अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तमि'ति वैयासे सूत्रे 'परं ब्रह्मैतद्यो धारयति रसति भजति ध्यायति प्रेमति शृणोति श्रावयत्युपदिशत्या- चरति सोऽमृतो भवती'ति भगवद्धर्माणां मुक्तिसाधनत्वमाथर्वणोपनिषदि श्रुतम् । 'तमेवं विद्वानमृत इह भवती'ति तैत्तिरीये श्वेताश्वतरे च ज्ञानस्य श्रुतम् । तत्र किं सर्वेषां कारणता, उत ज्ञानस्यैवेति सन्देहे, 'नान्यः पन्था विद्यतेऽयनाये'त्यन्यनिषेधात् साधन- वैजात्ये फलवैजात्यस्य दृष्टस्य मुक्तावयुक्तत्वात् 'भक्त्या मामभिजानाती'ति भक्तेर्ज्ञानोप- क्षीणत्वाच्च ज्ञानादेव मोक्ष इति प्राप्ते, 'एतद्वै तदक्षरं गार्गि अस्थूलमनणु' 'अथ परा यया तदक्षरमधिगम्यते' 'अदृश्यमग्राह्यमि'त्यादिश्रुत्युक्तानामक्षरधियामक्षरविषयकज्ञानानाम् । तुः पूर्वपक्षनिरासे । अवरोधो मुक्तिसाधनेषु सङ्ग्रहः । सः सामान्यतद्भावाभ्याम् । उक्त- श्रुतौ यथा धर्माणां पुरुषोत्तमसम्बन्धित्वं श्रुतम्, तथा तैत्तिरीयखिले 'अम्भस्यपार' इत्युप- क्रम्य, 'तदक्षरे परमे व्योमन्नि'ति भगवत्स्थानत्वेनाक्षरस्यापि श्रुतम् । अतो भगवद्धर्मा- क्षरयोः सामान्यम् । तथा 'ब्रह्म वेद ब्रह्मैव भवती' ति श्रुतौ यस्तद्भावः ज्ञानिनो ब्रह्म- भाव उक्तः, सोऽपि 'ब्रह्मभूतः प्रसन्नात्मे'त्यत्र परमभक्तिप्राप्तौ स्वरूपयोग्यतासम्पाद- कत्वेन स्मृत इति ताभ्यां हेतुभ्याम्, न तु साक्षात्पुरुषोत्तमप्राप्तिसाधनत्वेन । नन्वेवं स्मृतावुच्यते । श्रुतौ तु तत्र विश्राम्यते इति विरोधः । किञ्च । अक्षरमप्यविशिष्टमिति तद्वित्सु केषाञ्चितत्सायुज्यम्, केषाञ्चिद्भक्तिलाभ इति निर्हेतुकं वैषम्यम् । तदुभयं कथं निरसनीयमित्याशङ्कायां दृष्टान्तेनाह औपसदवदिति । यथा उपसदाख्यकर्मसम्बन्धिनि तानूनप्त्रस्पर्शाख्ये कर्मणि 'अनाधृष्टमस्यनाधृष्यमि'ति मन्त्रेण तानूनप्त्राख्यं श्रौवाज्य-