भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 296, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 296

३८ श्रीपीताम्बरकृतविवृतिसमेता । विष्णुभक्तौ यथा नृपे'त्यादिभिश्च तस्य सर्वस्यापि भक्त्यनुकूलत्वेन 'दानव्रततपोहोमजप- स्वाध्यायसंयमैः । श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते' 'ज्ञानी च भरतर्षभ' 'आत्मारामश्च मुनय' इत्यादिभिर्भक्तिसाधनतास्मरणाच्चाङ्गभावेन प्रवाहमर्यादयोर्भक्तिशरी- रप्रवेशे एको मार्ग एवास्तु, न त्वत्यन्तविवेक इत्याशङ्कामनूद्य दूषयन्ति मार्गैकत्वेऽपीति । मार्गैकत्वेपि चेदन्त्यौ तनू भक्त्यागमौ मतौ । न तद्युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥ ६ ॥ अपिः पूर्वपक्षगर्हायाम् । उक्तरीत्या मार्गैकत्वे अन्त्यौ मर्यादाप्रवाहौ भक्त्यागमौ भक्तैरागमोऽभिव्यक्तिर्याभ्यां तादृशौ तनू अङ्गभूतौ मतौ त्वयाङ्गीकृतौ । यद्वा । तनू न्यून- फलसाधनत्वादल्पौ । हेतुगर्भं विशेषणम् । तनुत्वात् उक्तरीत्या भक्तिहेतू शास्त्रसम्मतौ चेत्, तदङ्गत्वं हेतुत्वं वा न युक्तम् । हि यस्माद्धेतोः वैदिको मार्गः सूत्रतः कर्मज्ञानविचारकेभ्यो मीमांसाद्वयसूत्रेभ्यो युक्त्या तत्तत्फलयोजनया हि निश्चयेन भिन्नः । सूत्रे हि जैमिनीये 'शेषः परार्थत्वादि'ति लक्षयित्वा 'कर्म फलार्थत्वादि'ति कर्मणः फलशेष- त्वमुक्तम् । फलं च ज्योतिष्टोमादिवाक्ये स्फुटम् । विश्वजिदादिवाक्ये तु 'स स्वर्गः स्या- त्सर्वान्प्रत्यविशेषादि'त्यनेन व्यवस्थापितमिति कर्माणि तावता चरितार्थानि शेषित्वेन भक्तिं नापेक्षन्ते । एवं 'अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तमि'ति वैयासे सूत्रे 'परं ब्रह्मैतद्यो धारयति रसति भजति ध्यायति प्रेमति शृणोति श्रावयत्युपदिशत्या- चरति सोऽमृतो भवती'ति भगवद्धर्माणां मुक्तिसाधनत्वमाथर्वणोपनिषदि श्रुतम् । 'तमेवं विद्वानमृत इह भवती'ति तैत्तिरीये श्वेताश्वतरे च ज्ञानस्य श्रुतम् । तत्र किं सर्वेषां कारणता, उत ज्ञानस्यैवेति सन्देहे, 'नान्यः पन्था विद्यतेऽयनाये'त्यन्यनिषेधात् साधन- वैजात्ये फलवैजात्यस्य दृष्टस्य मुक्तावयुक्तत्वात् 'भक्त्या मामभिजानाती'ति भक्तेर्ज्ञानोप- क्षीणत्वाच्च ज्ञानादेव मोक्ष इति प्राप्ते, 'एतद्वै तदक्षरं गार्गि अस्थूलमनणु' 'अथ परा यया तदक्षरमधिगम्यते' 'अदृश्यमग्राह्यमि'त्यादिश्रुत्युक्तानामक्षरधियामक्षरविषयकज्ञानानाम् । तुः पूर्वपक्षनिरासे । अवरोधो मुक्तिसाधनेषु सङ्ग्रहः । सः सामान्यतद्भावाभ्याम् । उक्त- श्रुतौ यथा धर्माणां पुरुषोत्तमसम्बन्धित्वं श्रुतम्, तथा तैत्तिरीयखिले 'अम्भस्यपार' इत्युप- क्रम्य, 'तदक्षरे परमे व्योमन्नि'ति भगवत्स्थानत्वेनाक्षरस्यापि श्रुतम् । अतो भगवद्धर्मा- क्षरयोः सामान्यम् । तथा 'ब्रह्म वेद ब्रह्मैव भवती' ति श्रुतौ यस्तद्भावः ज्ञानिनो ब्रह्म- भाव उक्तः, सोऽपि 'ब्रह्मभूतः प्रसन्नात्मे'त्यत्र परमभक्तिप्राप्तौ स्वरूपयोग्यतासम्पाद- कत्वेन स्मृत इति ताभ्यां हेतुभ्याम्, न तु साक्षात्पुरुषोत्तमप्राप्तिसाधनत्वेन । नन्वेवं स्मृतावुच्यते । श्रुतौ तु तत्र विश्राम्यते इति विरोधः । किञ्च । अक्षरमप्यविशिष्टमिति तद्वित्सु केषाञ्चितत्सायुज्यम्, केषाञ्चिद्भक्तिलाभ इति निर्हेतुकं वैषम्यम् । तदुभयं कथं निरसनीयमित्याशङ्कायां दृष्टान्तेनाह औपसदवदिति । यथा उपसदाख्यकर्मसम्बन्धिनि तानूनप्त्रस्पर्शाख्ये कर्मणि 'अनाधृष्टमस्यनाधृष्यमि'ति मन्त्रेण तानूनप्त्राख्यं श्रौवाज्य-