षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 297, कुल 408 में से
संदर्भ में पढ़ेंस्रुचि चतुरवत्तमाज्यं षोडशर्त्विजः 'अनु मे दीक्षामि'ति मन्त्रेण यजमानञ्च स्पृशन्ति । तत्र कल्पे श्रुतौ च श्रूयते 'यमृत्विजं कामयेत यज्ञयशसमृच्छेदिति तं प्रथममवमृशेये'दिति । अत्र सर्वेषामृत्विजां तुल्यत्वेऽपि यथा यजमानेच्छया फलवैषम्यम्, एवमिहापि भगव- दिच्छया । अत्र सम्मतिमाह तदुक्तमिति । गीतास्विति शेषः । 'यदक्षरं वेदविदो वदन्ती'- त्यादिना, 'पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यये'त्यन्तेन तथाचोपबृंहणत्वान्न विरोधो, नापि निर्हेतुकं वैषम्यमिति प्रतिपादितम् । अतो मर्यादामार्गीयं ज्ञानमपि स्वार- स्येन मोक्षमेव शेषित्वेन गृह्णाति, न भक्तिम् । तथाँच मीमांसाद्वये कर्मज्ञानयोस्तत्तन्मुख्य- फलस्य पृथग्रूपेण केवलाङ्गभूतप्रयाजादितुल्यत्वाभावात्तत्रतो वैदिकमार्गो भिन्नो, 'दानव्रततपोहोमे'त्यादिवाक्यसिद्धोऽनुग्रहयुतश्च भिन्नः । १ एवं दैवसर्गात्मा प्रवाहोऽपि मोक्षशेष एव, 'दैवी सम्पद्विमोक्षाये' ति वाक्यात् । इतरस्तु बन्धशेष इति दूरापास्तं भक्तिशेषत्वम् । यदि प्रवाहो भक्तिशेषः स्यात्, भगवानेवम्भावं तत्सम्पत्तेर्न वदेदिति युक्त्या वैदिकः सर्गोऽपि भिन्नोऽनुग्रहयुतश्च भिन्न इत्यनुपदं साधनीयम् । अतः केव- लानां त्रयाणां स्वरूपमत्यन्तंविविक्तमेवेति सिद्धं मार्गत्रयमित्यर्थः ॥ ६ ॥ एवं स्वरूपं विविच्य उक्तवाक्यैः संयोगपृथक्त्वेन भक्तिशेषत्वे मार्गैक्यं दुर्वारमि- त्याशङ्कायां पूर्वोक्तविवेकोपष्टम्भाय युक्तिमप्याहुः जीवेत्यादि । जीवदेहकृतीनां च भिन्नत्वं नित्यता श्रुतेः । यथा तद्वत्पुष्टिमार्गे द्वयोरपि निषेधतः ॥ ७ ॥ प्रमाणभेदाद्भिन्नो हि पुष्टिमार्गो निरूपितः । 'ध्रुवासो अस्य कीरयो जनास' इति श्रुतौ स्तुतिक्रियावतां जननशालिनां चेतनानां नित्यत्वश्रावणाद्यथा पुष्टिमार्गे भिन्नत्वं इतरवैलक्षण्यम्, तद्वत् 'नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मपोतानां यथा भक्तिमतामिहे' ति वाक्ये द्वयोर्देहिज्ञानिनोर्नि- षेधतः सुखेन भगवत्प्राप्तिनिषेधादपि भिन्नत्वम् । यदि सर्वजीवदेहकृतीनां नित्यत्वं स्यात्, कीरय इत्यादि विशिष्य श्रुतिस्तन्नित्यत्वं न वदेत् । ब्रह्मवादे नित्यत्वस्य विशिष्टाद्वैतद्वैतवा- दयोरनित्यत्वस्य मायावादे मायिकत्वस्य सर्वेष्वविशिष्टत्वात् । एवं सत्यपि यदेवं वदति, तेन तादृशतद्विशिष्टः पुष्टिमार्गो भिन्न एव । किञ्च । यदि पुष्टिमार्गसेतरविवेको न स्यात्, उक्तवाक्ये द्वयोः सुखेन भगवत्प्राप्तिं न निषेधेत् । यस्मादेवम्, तस्मान्मार्गो भिन्न इति । पूर्वश्लोकस्थयुक्तिपदस्यैवायं प्रपञ्चः । एवञ्च ज्ञानादिमार्गो यदि पुष्टिमार्गः स्यात्, साक्षादेव पुरुषोत्तमप्रापकः स्यात् । यदि तथा स्यात्, 'यतो वाचो निवर्तन्त' इति श्रुतिर्वागाद्य- प्राप्यत्वं न वदेत् । 'नैतन्मनो विशती'त्यादि योगेश्वरा न वदेयुः । तथा उक्तवाक्ये ज्ञानिनां देहिनां च तां न निषेधेत् । निषेधो यद्यन्वर्थः स्याद्, 'यथा भक्तिमता' मिति न वदेत् । 'भक्त्या त्वनन्यये'ति 'यमेवैष वृणुत' इति स्मृतिश्रुती न वदेताम् । यस्मादेवं १. तस्मात्सूत्रतो वैदिकमार्गो भिन्नोऽनुग्रहयुतश्च भिन्न इति पाठः । २. अत्यन्तविभक्तमेवेति पाठः ।