षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 298, कुल 408 में से
संदर्भ में पढ़ें४० श्रीपीताम्बरकृतविवृतिसमेता । तस्मात्तथेत्यादयोऽप्यनुसन्धेयाः । एवं नानाप्रमाणैर्मार्गस्वरूपभेदे सिद्धे मर्यादामार्गीयाणां 'श्रोतव्य' इत्यादिषु श्रवणादीनां यद्दर्शनसाधनत्वमुच्यते, तत् 'नायमात्मे'त्यादिपूर्वोक्त- श्रुतिस्मृत्यनुरोधाद्भक्तिरूपाणामेव । न तु केवलानाम् । परमात्मनस्तत्राप्रकाशादक्षरा- त्मन्येव पर्यवसानात् । 'क्लेशोऽधिकतर' इति वाक्याद्दुःखसाहचर्यं च क्वचित् । ततो मर्यादामार्गीयाण्येव तानि । 'ब्रह्मविदामोति पर'मित्यत्रापि तदनुरोधात्स्वकरणकमेव ज्ञान- मुच्यते । यद्याविर्भवेत्तदा विद्यादिति । आविर्भावस्तूक्तप्रनाडीक्रमक्तस्यैव । 'तमेव विदित्वे'- त्यत्रापि 'ते ध्यानयोगानुगता' इत्युपक्रमात् मध्ये च 'तस्याभिध्यानाद्योजनात्तत्त्वभावादि'- ति कथनात्सर्वभावेनाश्रयणरूपामुपासनामपेक्ष्यैव ज्ञानमुच्यत इति तादृग्ज्ञानकारणीभूत- भावस्य बीजभूतानुग्रहमन्तरेणाभावादुक्तैव प्रनाडी । एवं धर्मदानादयो भक्त्युत्पादकसंहि- तोक्तरीतियोधकैकादशस्कन्धोदितप्रकारेणानुष्ठीयमाना भक्तिसाधनतां यान्ति । स प्रका- रोऽप्यनुगृहीतानामेवार्थे भगवतोक्तो भिन्न एव । न तु मीमांसितः । तत्र तथानुसन्धा- नस्य विचारादर्शनात् । अतो विचारितास्तत्तत्फलसाधका एवेति यथाविचारं मर्यादां प्रवाहं वा नातिवर्तन्ते । तथैव योगादयो वामादीनि बाह्यानि च स्वस्वशास्त्रोक्तफलसाधनाय प्रवृत्तानि । अतः सर्वाण्यसङ्कीर्णानि । तदेतत्सर्वं हृदिकृत्य व्यावर्तकधर्मेण पुष्टिमार्गभेदसाधन- मुपसंहरन्ति प्रमाणभेदादित्यादि । अत्र यद्यपि पुष्टिमार्गस्वरूपभेदनिरूपणस्यैवो पसंहारः कण्ठादुक्तः, तथापि मर्यादाप्रवाहयोरपि प्रसङ्गात्सिद्धो ज्ञेयः । अग्रे 'प्रवाहस्थान्प्रवक्ष्यामि स्वरूपाङ्गक्रियायुता'निति स्वरूपादिभेदयुतजीवभेदनिरूपणस्यैव प्रतिज्ञानात् । अन्यथा सोऽपि व्यावर्तकप्रमाणभेदैः स्वरूपबोधनाय प्रतिज्ञातः स्यात् ॥ ७ ॥ एवं प्रमाणबलेन मार्गस्वरूपभेदः साधितः । तेन मार्गत्रयप्रमितौ जनितायां प्रमेय- बलेनापि सिद्ध एवेत्यतः साधनभेदेन मार्गत्रयभेदं साधयितुं जीवादिभेदयुताविच्छिन्न- सर्गेण पुष्टिभेदसाधनाय सामान्यतः सर्गभेदनिरूपणं प्रतिजानते सर्गभेदं प्रवक्ष्यामीति । सर्गभेदं प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतम् ॥ ८ ॥ इच्छामात्रेण मनसा प्रवाहं सृष्टवान् हरिः । वचसा वेदमार्गं हि पुष्टिं कायेन निश्चयः ॥ ९ ॥ ननु 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा' इति श्रुतौ जीवमात्रस्योत्पत्तिरेकप्रकारिकैवोक्तेति तेषु वैलक्षण्यस्यासम्भवे तद्देहेषु भौतिकत्वादेस्तुल्यत्वात्क्रियास्वपि तदनुरूपत्वादेस्तुल्यत्वा- त्साधनसाङ्कर्यस्य वज्रलेपायितत्वेन सर्गभेदनिरूपणं व्यर्थम् । तथा सति नात्यन्तं विवेक इत्यत आहुः स्वरूपाङ्गक्रियायुतमिति । तथाचैतत्सन्देहनिरासाय तद्भेदोऽपि प्रमाणगो- चरीकरिष्यत इति भावः । तदेवाहुः इच्छामात्रेणेत्यादि । अत्रेच्छामात्रेणेत्यनेन 'बहु स्यां प्रजायेयेती' ति श्रौतमालोचनं निमित्तत्वेनोक्तम् । तेनैतदाकारिकेच्छारूपो भगवानैव १. अतः परं प्रमेयबलेन साधनभेदेन च मार्गत्रयभेदमित्यादिः पाठः । २. असंDefault text: भवात्, एवं भौति- कत्वादेस्तुल्यत्वाद् देहक्रियास्वपीतिपाठः ।